________________
अध्ययनं-२५,[नि.४७४]
१०३ ब्रह्माण्डं वै पुराणेभ्यस्तथा प्राहुर्मनीषिणः ॥" तद्वचस्त्विदम्-"इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः, केवलज्ञानलम्भाच्च महर्षिणो ये परमेष्ठिनो वीतरागाः स्नातका निर्ग्रन्था नैष्ठिकास्तेषां प्रवर्तित आख्यातः प्रणीतस्त्रेतायामादा" वित्यादि, काश्यपस्यैव माहात्म्यख्यापनतो धर्ममुखत्वं समर्थयितुमाह-यथा चन्द्र ग्रहादिकाः, आदिशब्दान्नक्षत्रादिपरिग्रहः, 'पंजलीउड'त्ति प्राग्वत्कृतप्राञ्जलयस्तु वन्दमानाः' स्तुवन्तो 'नमस्यन्तो' नमस्कुर्वन्तः 'उत्तम प्रधानं 'मनोहारिणः' अतिविनीततया प्रभुचित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैनमपि भगवन्तं देवेन्द्रप्रमुखाः समस्तसुरासुरमनुजसमूहा इत्युपस्कारः, पठ्यते च
"जहा चंदे गहाईए, चिटुंती पंजलीउडा।
नमंसमाणा वंदंती, उद्धत्तमणहारिणो।।"त्ति अत्र यथा 'चन्द्रे' चन्द्रविषये ग्रहादिकास्तिष्ठन्तीति(न्ति)प्राञ्जलिपुटाः, कोऽर्थः ?तदायत्यै(त्ताए)वासते, अन्यच्च-नमस्यन्तः प्रक्रमात्तमेव 'वन्दन्ते' स्तुवन्ति, अनेन तेषां भक्तियुक्तितामाह, 'वंदंतीउद्धत्त'त्ति सन्धिप्रयोगेण इतिशब्दान्तर्भावादितीत्येवं प्रक्रमात्काश्यपं तिष्ठन्ति प्राञ्जलिपुटास्तं च नमस्यन्तो वन्दन्ते, के इत्याह-'उद्धत्तमनहारिणो'त्ति औद्धत्यम्अहङ्कारस्तत्प्रधानं मन औद्धत्यमनस्तद्धरणशीला: औद्धत्यमनोहारिणः-अत्यन्तशान्तचित्तवृत्तयो, यतय इत्यर्थः, पूर्वोपरनिपातस्यात्रातन्त्रत्वेन वा मनऔद्धत्यहारिणः, औद्धत्यग्रहणं चास्यैव सकलदोषमूलत्वात्, पठन्ति च-'उद्धत्तुमनगारिणो'त्ति अत्र चोद्धर्तुम्-उत्क्षेप्तुं भवपङ्कमग्नमात्मानमिति गम्यते, अगारिणोगृहिणस्तद्विपरीता अनगारिणो-पतयः, क्रियाकारकयोजना प्राग्वत्, इह च धर्मार्थिनामेव अभ्यर्हितत्वात् काश्यपो धर्ममुखमित्यभिप्रायः। _अनेन प्रश्नचतुष्टयप्रतिवचनमुक्तं, सम्प्रति पञ्चमं प्रश्नमधिकृत्याह-'अजाणा'त्ति अज्ञा न तत्त्ववेदिन इत्युक्तं भवति, के ते?-यज्ञवादिनो ये भवतः पात्रत्वेनाभिमताः, कासामित्याह'विज्जामाहणसंपय'त्ति सूत्रत्वात्सुब्यत्ययः 'विद्याब्राह्मणसम्पदां' तत्र च विद्यते-ज्ञायत आभिस्तत्त्वमिति विद्या-आरण्यकब्रह्माण्डपुराणात्मिकास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः, तात्त्विकब्राह्मणानां हि निष्किञ्चनत्वेन विद्याएव सम्पदः, तद्विज्ञत्वे च कथमेते बृहदारण्यकाद्युक्तदशविधधर्मवेदिनो यागमेवं कुर्युः?, तथा मूढाः' मोहवन्तः ‘सज्झायतवस्स'त्ति सुब्ब्यत्ययात्स्वाध्यायतपःसु तत्त्वतस्तत्स्वरूपापरिज्ञानाद्, अत एव 'भासच्छन्ना इवऽग्गिणो'त्ति इवशब्दस्य भिन्नक्रमत्वाद्भस्मच्छन्ना अग्नेय इव, ते हि बहिरुपशमभाज आभान्ति, अथ चान्तः कषायवत्तया ज्वलिताः, पठ्यते च 'गूढा सज्झायतवस्स'त्ति तत्र च 'गूढाः' बहिः संवृतिमन्तः, केन हेतुना?- 'स्वाध्यायतपसा' वेदाध्ययनोपवासादिनाऽन्तश्च भस्मच्छन्नाग्नितुल्याः, एवं च न तत्त्वतो भवदभिमतब्राह्मणानां ब्राह्मण्यं, तदभावाच्चात्मनः परस्य चोद्धरणेन पात्रत्वं दूरापासतमेवेति भावः । __ कस्तहि भवदभिप्रायेण ब्राह्मणो? य: पात्रमित्याह-'यः' इत्यनिर्दिष्टस्वरूपः 'लोके' जगति ब्राह्मणः 'उक्तः' प्रतिपादितः कुशलैरिति गम्यते, 'अग्गी वा महितो जह'त्ति बेति पूरणे यथेत्यौपम्येभिन्नक्रमश्च, ततो यथाऽग्निर्यत्तदोर्नित्याभिसम्बन्धात्तथा 'महितः' पूजितः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org