________________
१०२
उत्तराध्ययन-मूलसूत्रम्-२-२५/९९० मू. (९९०) अलोलुयं मुहाजीविं, अनगारं अकिंचनं ।
असंसतं गिहत्येहि, तं वयं बूम माहणं । मू.(९९१) पसुबंधा सव्ववेया, जटुंच पावकम्मणा।
न तंतायंति दुस्सील, कम्माणि बलवंतिह। मू.(९९२) नवि मुंडिएण समनो, न ॐकारेण बंभणो।
नमुनी रन्नवासेणं, कुसचीरेण न तावसो॥ मू. (९९३) समयाए समणो होइ, बंभचेरेण बंभणो।
नाणेण य मुनी होइ, तवेणं होइ तावसो।। मू. (९९४) कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ।
वइस्सो कम्मुणा होइ, सुद्दा हवइ कम्मुणा ।। मू. (९९५) एए पाउक्करे बुद्धे, जेहिं होइ सिणायओ।
सव्वकम्मविनिमुक्कं, तं वयं बूम माहणं ।। मू. (९९६) एवं गुणसमाउत्ता, जे हवंति दिउत्तमा।
ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य॥ वृ. अग्गिहोत्तेत्यादिसूत्राण्यष्टादश प्रायः स्पष्टान्येव, नवरम्, अग्निहोत्रम्-अग्निकारिका, सा चेह
"कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः।
धर्माध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका।" इत्यादिरूपा परिगृह्यते, तदेव मुखं-प्रधानं येषां तेऽग्निहोत्रमुखावेदाः, वेदानां हिदध्यादेरिव नवनीतादि आरण्यकमेव प्रधानम्, उक्तं हि
___ "नवनीतं यथा दघ्नश्चन्दनं मलयादिव।
औषधिभ्याऽमृतं यद्वद्वेदेष्वारण्यकं तथा ।" तत्र च दशप्रकार एव धर्म उक्तः, तथा च तद्वचः-"सत्यं तपः सन्तोषः संयमश्चारित्रमार्जवं क्षमा धृतिः श्रद्धाऽहिंसेत्येतद्दशविधमिह धामे"ति, तत्र च धामशब्देन धर्म एव विवक्षितः, एतदनुवाद्युक्तरूपमेवाग्निहोत्रमिति, तथा यज्ञः प्रस्तावाद्भावयज्ञस्तदर्थी 'वेयसि'त्ति वेदेन हेतुनाऽस्यति-अशुभानि कर्माणि क्षिपतीति निरुक्तविधिना वेदसो-यागः, उक्तं च-निर्घण्टे"अध्वरो वेषो वेषो मखो वेदा वितथः" इत्यादि, तेषां मुखम्-उपायः, ते हि सत्येव यज्ञार्थिनि प्रवर्त्तन्त इति।
नक्षत्राणां 'मुखं' प्रधानं चन्द्रः, तस्यैव तदधिपतित्वात्। धर्माणां 'काश्यपः' भगवानृषभदेवः 'मुखम्' उपाय: कारणात्मकः, तस्यैवादितत्प्ररूपकत्वात्, तथा चारण्यकम्-"ऋषभ एव भगवान् ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव चीर्णानि ब्रह्माणि, यदा च तपसा प्राप्तः पदं यद् ब्रह्मकेवलं तदा च ब्रह्मर्षिणा प्रणीतानि, कानि पुनस्तानि ब्रह्माणि?" इत्यादि, किञ्च-भवतां ब्रह्माण्डपुराणमेव सर्गादिपुराणलक्षणोपेतत्वात्सकलपुराणज्येष्ठम्, उक्तञ्च
"नवनीतं यथा दघ्नश्चन्दनं मलयादिव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org