SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२४,[नि. ४६६] ____ ९७ ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वत् ।। अध्ययन-२४-समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे चतुर्विशमिममध्ययनं सनियुक्तिः सटीकं परिसमाप्ता (अध्ययनं-२५-'यज्ञीयं' - वृ. व्याख्यातं चतुविंशमध्ययनम्, अधुना पञ्चविंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने प्रवचनमातरोऽभिहिताः, इह तु ता ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषचरितवर्णनाद्वारेण ब्रह्महुणा उच्यन्त इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावनामनिष्पन्ननिक्षेपे यज्ञीयमिति नामातो यज्ञनिक्षेपायाहनि.[४६४] निक्खेवो जन्नंमि अ चउक्कओ दुविहो य होइ दव्वंमि। आगमनोआगमओ नोआगमओ असो तिविहो ।। नि.[४६५] जाणगसरीरभविए तव्वइरित्ते अ माहणाईसुं। तवसंजमेसु जयणा भावे जन्नो मुनेयव्वो॥ नि.[४६६] जयघोसा अनगारा विजयघोसस्स जन्नकिच्चंमि। ____ तत्तो समुट्ठियमिणं अज्झयणं जन्नइज्जंति ।। वृ.निक्षेपो यज्ञे चतुष्कको-नामादिः, द्विविधो भवति द्रव्ये-आगमनोआगमतः, तत्रागमतः प्राग्वत्, नोआगमतश्च 'स' इति यज्ञस्त्रिविध: ज्ञशरीरभव्यशरीरेतद्वयतिरिक्तश्च, 'माहणाइसु'न्ति माहनादीनां प्रक्रमाद् यज्ञ आदि-शब्दात्तथाविधनृपत्यादिपरिग्रहः, तैहि प्राणिहिंसोपलक्षित एवायं क्रियते; ततः स भावयज्ञफलाप्रसाधकत्वाद् द्रव्ययज्ञ उच्यते, भावयज्ञमाह-'तप:संयमेषु' प्रसिद्धेष्वेव 'यतना' तदनुष्ठानादरकरणरूपा भावे यज्ञः 'मुनितव्यः' प्रतिज्ञातव्यः, अहोर्थे चायं कृत्यः, ततः स्वर्गादियज्ञफलप्रसाधकतयैष एव यज्ञः प्रतिज्ञातुमुचितो, न त्वन्यः, तस्य प्रत्युतानर्थहेतुत्वात्, जयघोषादनगाराद्विजयघोषस्य यज्ञकृत्ये' यज्ञक्रियायामागतात् जातमिति शेषः, ततश्च यज्ञस्यैव प्राधान्यविवक्षया 'ततः' इति यज्ञात् समुत्थितमिदमध्ययनं यज्ञीयमिति, तस्मादुच्यत इति शेष इति गाथात्रयार्थः । एवं तावन्निक्षेप उक्तः, सम्प्रत्यनुगमावसरः, तत्रोपोद्घातनिर्युक्त्यनुगमान्तर्गतं किञ्चिदभिधित्सुराहनि.[ ४६७] वानारसिनयरीए दो विप्पा आसि कासवसगुत्ता। धनकनगविउलकोसा छक्कम्मरया चउव्वेया॥ नि.[ ४६८] दोवि अ जमला भाउअ संपीआ अन्नमन्नमनुरत्ता। जयघोसविजयघोसा आगमकुसला सदाररया। नि.[४६९] अह अन्नया कयाई जयघोसो ण्हाइउंगओ गंगं। अह पिच्छइ मंडूकं सप्पेण तहिं गसिज्जंतं ॥ नि.[ ४७०] सप्पोऽवि अकुललेणं उक्खित्तो पाडिओ य भूमीए। 29/7. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy