________________
२८
उत्तराध्ययन-मूलसूत्रम्-२-२५/९७० सोऽवि अ कुललो सप्पं अक्कमिउं अच्छए तत्थ ।। नि.[४७१] सप्पोऽवि कुललवसगओ मंडूकं खाइ चिंचिआइयं ।
सोऽवि अ कुललो खायइ सप्पं चंडेहिं गासेहिं ।। नि.[४७२] तं अन्नमन्नघायं जयघोसो पासिऊण पडिबुद्धो।
गंगाओ उत्तरिउंसमनाणं आगओ वसहिं।। नि.[ ४७३] सो समणो पव्वइओ निग्गंथो सव्वगंथउम्मुक्को।
वोसिरिऊण असारे केसेहि िसमं परिक्केसे ।। नि.[ ४७४] पंचमहव्वयजुत्तो पंचिंदिअसंवुडो गुणसमिद्धो।
घडनजयनप्पहाणो जाओ समणो समिअपावो ।। वृ. आसामक्षरार्थः स्पष्ट एव, नवरं 'कासवसगोत्त'त्ति काश्यपकुलोत्पन्नाः काश्यपास्तैः समानं गोत्रं ययोस्तौ काश्यपसगोत्रौ 'छक्कम्मरय'त्ति षट् कर्माणि-यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकानि तेषु रतौ-आसक्तौ षट्करीमतौ, तथा द्वादपि 'यमलौ' युग्मौ उत्पन्नौ 'भाउय'त्ति भ्रातरौ 'संप्रीतौ' विद्यमानसम्यग्वाह्यप्रीती 'अन्योऽन्यमनुरक्तौ' आन्तरप्रीतियोगतः परस्परस्नेहवन्तौ, आगमः-श्रुतिस्मृत्यादिरूपस्तस्मिन् कुशलावागमकुशलौ, अत-एव स्वदाररतौ। 'हाइउं'ति स्नातुं । 'कुररेण' मारिनाम्ना पक्षिविशेषेण उक्खित्तो'त्ति उत्क्षिप्तः, उत्क्षिप्य च कथं नामसौ म्रियतामिति पातितश्च भूमौ 'अक्कमिउ'न्ति आक्रम्य-अवष्टभ्य । सर्पः कुररवशगतः-कुरराधीनतां प्राप्तः 'चिंचियायंतं'ति चिंचिमिति कुर्वन्तं 'चण्डैः' वृहत्खण्डनात्रोटनतोऽत्यन्तरौद्रैः ‘ग्रासैः' प्रतीतैः । __ 'तम्' इत्युक्तरूपमन्योऽन्यघातं-कुररसर्पमण्डूकगतं 'पासिऊणं'ति दृष्ट्वा 'प्रतिबुद्धः' अहो! दुरन्तोऽयं संसारइत्यादिपरिभावनया अवगततत्त्वः सः' इति जयघोषः समना:-सहृदयो विशिष्टाभोगयुक्त इत्यर्थः 'प्रव्रजितः' हेयधर्मेभ्यो 'निर्ग्रन्थः' ग्रन्थरहितः, स च बाह्यग्रन्थरहितोऽपि स्वादत आह-सर्वो-बाह्य आन्तरश्च यो ग्रन्थस्तेनोन्मुक्तः सर्वग्रन्थोन्मुक्तः, वक्ष्यमानश्रमणविशेषणान्येतानि, 'व्युत्सृज्य' त्यक्त्वा 'असारान्' परमार्थालोचनायामप्रधानान् ‘केशैः' शिरोरुहै: 'समं' सह परिक्लेशयन्तीति परिक्लेशाः-प्रस्तावात्पुत्रकलत्रादिसम्बन्धास्तान्। घटनंसंयमयोगविषयं चेष्टनं यतनं-तत्रैवोपयुक्तत्वं कृतरूपाणि येनासौ शमितपापः। भावार्थस्त्वासां सम्प्रदायादवसेयः, स चायम्
वानारसीए नयरीए दो विप्पभायरो यमला आसी जयघोसविजयघोसा, अन्नया जयघोसो ण्हाइउंगओ गंगं, तत्थ पेच्छइ सप्पेण मंडूक्कं गसिज्जंतं, सप्पोवि मज्जारेण उच्छित्तो, मज्जारो सप्पं अक्कमिउं ठिओ, तथावि सप्पो मंडूक्कं चिंचियंतं खायति, मज्जारोवि सप्पं चडप्फडंतं खायति, अन्नमन्नं घायं पासित्ता पडिबुद्धो गंगमुत्तरिऊण साहुसगासे समनो जातो त्ति । इति गाथाऽष्टकार्थः । इत्यभिहितं किञ्चिदुपोद्घातनिर्युक्त्यनुगमान्तर्गतं, सम्प्रति सूत्रस्पर्शिकनिर्युक्त्यनुगमावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रच्चारणीयं, तच्चेदम्मू.(९६३) माहणकुलसंभूओ, आसि विप्पो महायसो।
जायाई जमजन्नमि, जयघोसत्ति नामओ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org