SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ १६ उत्तराध्ययन-मूलसूत्रम्-२-२४/९५८ मू.(९५८) संरंभसमारंभे, आरंभे य तहेव य। वयं पवतमाणं तु, नियत्तिज्ज जयं जई। वृ.सूत्रद्वयमनन्तरं व्याख्यातमेव, नवरं मनोगुप्तिस्थाने वाग्गुप्तिरुच्चारयितव्या, तथा सत्या वाक् जीवं जीवमिति प्ररूपयतः असत्या जीवमजीवमिति सत्यामृषा क्वचिद्विवक्षितसमये मनुष्यशतमुत्पन्नमुपरतं चेति असत्यामृषा तु विधेहि स्वाध्यायं नैतत्सदृशमन्यत्तपोऽस्तीत्यादि, तथा वाचिक: संरम्भ:-पव्यापादनक्षमक्षुद्रविद्यादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन्, समारम्भ:-परपरितापकरमन्त्रादिपरावर्त्तनम् 'आरम्भः' तथाविधसंक्लेशतः प्राणिनां प्राणव्यपरोपक्षणक्षममन्त्रादिजपनमिति सूत्रद्वयार्थः । इदानीं कायगुप्तिमभिधातुमाहमू. (९५९) ठाणं निसीयणे चेव, तहेव य तुयट्टणे। उल्लंघण पल्लंघण, इंदियाण य जुंजणे॥ मू. (९६०) संरंभसमारंभे, आरंभे य तहेव य। कायं पवत्तमाणं तु, नियत्तिज्ज जयं जई। वृ. 'स्थाने' ऊर्वस्थाने 'निसीयणि'त्ति 'निषदने' उपवेशने, चः तयोरेव विचित्रभेदसमुच्चयार्थः, एव' इति पूरणे, तथैव च 'त्वग्वर्त्तने' शयने 'उल्लङ्घने' तथाविधनिमित्तत ऊर्ध्वभूमिकाद्युत्क्रमणे गर्ताद्यतिक्रमणे वा 'प्रलङ्घने' सामान्येन गमने, उभयत्र सूत्रत्वात्सुपो लुक, 'इन्द्रियाणां च' स्पर्शनादीनां 'जुंजणे'त्ति योजनं-शब्दादिविषयेषु व्यापारणं तस्मिन्, सर्वत्र च वर्तमान इति शेषः, स्थानादिषु वर्त्तमानः संरम्भः-अभिघातो यष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः-परितापकरो मुष्ट्याद्यभिघातः, ततः संरम्भश्च समारम्भश्च संरम्भसमारम्भं तस्मिन्, 'आरम्भे' प्राणिवधात्मनि कायं प्रवर्त्तमानं निवर्तयेत्, शेषं प्राग्वदिति सूत्रद्वयार्थः । सम्प्रति समितिगुप्त्योः परस्परविशेषं स्वयं सूत्रकृदाहमू. (९६१) एयाओ पंच समिईओ, चरणस्स य पवत्तणे। गृत्ती नियत्तणेऽवृत्ता, असभत्थेस य सव्वसो।। वृ. 'एताः' अनन्तरोक्ताः पञ्च समितयश्चरणं-चारित्रं सच्चेष्टेतियावत् तस्य प्रवर्त्तने पूर्वत्र चशब्दस्य भिन्नक्रमत्वादवधारणार्थत्वाच्च प्रवर्त्तने एव, किमुक्तं भवति?-सच्चेष्टासु प्रवृत्तावेव समितयः, तथा 'गुत्ती'त्ति गुप्तयो निवर्त्तनेऽप्युक्ताः 'अशुभार्थेभ्यः' अशोभनमनोयोगादिभ्यः, सूत्रेतु सुब्ब्यत्ययेन पञ्चम्यर्थे सप्तमी, 'सव्वसो'त्ति सर्वेभ्योऽपिशब्दाच्चरणप्रवर्त्तने च, उपलक्षणं चैतत् शुभार्थेभ्योऽपि निवृत्तेः, वाकाययोनिर्व्यापारताया अपि गुप्तिरूपत्वात्, उक्तं हि गंन्धहस्तिना-"सम्यगागमानुसारेणारक्तद्विष्टपरिणतिसहचरितमनोव्यापार: कायव्यापारो वाग्व्यापारश्च निर्व्यापारता वा वाक्काययोर्गुप्ति"रिति, तदनेन व्यापाराव्यापारात्मिका गुप्तिरुक्तेति सूत्रार्थः ।। सम्प्रत्यध्ययनार्थमुपसंहरोतदाचरणफलमाहमू. (९६२) एया पवयणमाया, जे सम्मं आयरे मुनी। सो खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए।त्तिबेमि॥ वृ.स्पष्टमेव। नवरं, 'सम्यक्'अवैपरीत्येन न तु दम्भादिनेति सूत्रार्थः॥ इति' परिसमाप्ती, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy