________________
उत्तराध्ययन- मूलसूत्रम् - १-२ / ६० परस्परं विरुध्यद्भिर्विलुप्यन्ते दिशोदिशम् ||२|| काकगृध्रादिरूपैश्च, लोहतुण्डैर्बलान्वितैः । विनिकृष्टाक्षिजिह्वान्त्रा, विचेष्टन्ते महीतले ॥३॥ प्राणोपक्रमणैर्घोरैर्दुःखैरेवंविधैरपि I आयुष्यक्षपिते नैव, म्रियन्ते दुःखभागिनः ॥४॥ इत्यादि,
तथा असंज्ञिन एते आहारर्थिनश्च भोज्यमेतेषां मच्छरीरं बहुसाधारणं च यदि भक्षयन्ति किमत्र प्रद्वेषेणेति च विचिन्तयन् तदुपेक्षणपरो न तदुपघातं विदध्वादिति सूत्रार्थः ॥ इदानीं पथिद्वारं, तत्र ‘स्पृष्टो दंशमशकै 'रित्यादिसूत्रसूचितमुदाहरणमाहनि. [ ९३] चंपाए सुमणुभो जुवराया धम्मघोससीयो य । पंथंमि मसगपरिपीयसोणिओ सोऽवि कालगओ ॥
८४
वृ. चम्पायां सुमनोभद्रो युवराजो धर्म्मघोषशिष्यश्च पथि मशकपरिपीतशोणितः सोऽपि कालगत इति गाथाक्षरार्थः ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्
चंपा नयरीए जियसत्तुस्स रनो पुत्तो सुमणभद्दो जुवराया, धम्मघोसस्स अंतिर धम्मं सोऊण निव्विण्णकामभोगो पव्वइतो, ताहे चेव एगल्लविहारपडिमं पडिवन्नो, पच्छा हेट्ठा भूमीए विहरतो सरयकाले अडवीए पडिमागतो रतिं मसएहिं खज्जइ, सो ते न पमज्जइ, सम्म सहइ, रत्ती पीयसोणितो कालगतो। एवं अहियासेयव्वं ॥ इत्यवसितो दंशमशकपरीषहः ॥ अधुना अचेलः संस्तैस्तुद्यमानो वस्त्रकम्बलाद्यन्वेषणपरो न स्यादित्यचेलपरीषहमाहपरिजुनेहि वत्थेहिं, होक्खामित्ति अचेलए।
मू. (६१)
अदुवा सचेलए होक्ख, इह भिक्खं न चिंतए ।
वृ. 'परिजीर्णैः' समन्तात् हानिमुपगतैः 'वस्त्रैः' शाटकादिभिः, 'होक्खामित्ति' इतिभिन्नक्रमः ततो भविष्यामि 'अचेलक:' चेलविकलः अल्पदिनभावित्वादेषामिति भिक्षुर्न विचिन्तयेत्, अथवा ‘सचेलकः' चेलान्वितो भविष्यामि, परिजीर्णवस्त्रं, हि मा दृष्ट्वा कश्चित् श्राद्धः सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत् इदमुक्तं भवति - जीर्णवस्त्रः सन्न मम प्राक्परिगृहीतमपरं वस्त्रमस्ति न च तथाविधो दातेति न दैन्यं गच्छेत्, न चान्यलाभसम्भावनया प्रमुदितमानसो भवेदिति सूत्रार्थः ॥ इत्थं जीर्णादिवस्त्रतया अचेलं स्थविरकल्पिकमाश्रित्याचेल. परीषह उक्तः, सम्प्रति तमेव सामान्येनाह
मू. (६२)
एगया अचेलए होइ, सचेले यावि एगया। एयं धम्महियं नच्चा, नाणी नो परिदेवए ॥
वृ. 'एकदा' एकस्मिन् काले जिनकल्पप्रतिपत्तौ स्थविरकल्पेऽपि दुर्लभवस्त्रादौ वा सर्वथा चेलाभावेन सति वा चेले विना वर्षादिनिमित्तप्रावरणेन जीर्णादिवस्त्रतया वा 'अचेलक' इति अवस्त्रोऽपि भवति, पठ्यते च 'अचेलए सयं होइ 'त्ति तत्र स्वयम् - आत्मनैव न पराभियोगतः, 'सचेल: ' सवस्त्रश्चाप्येकदा स्थविरकल्पिकत्वे तथाविधालम्बनेनावरणे सति यद्येवं ततः किमित्याह- 'एतदि 'त्यवस्थौचित्येन सचेलत्वमचेलत्वं च धर्म्मा-यतिधर्म्मः तस्मै हितम्उपकारकं धर्म्महितं ‘ज्ञात्वा' अवबुद्धय, तत्राचेलकत्वस्य धर्म्महितत्वमल्पप्रत्युपेक्षादिभिः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org