________________
अध्ययनं-२,[नि. ९२] वतियाए वणियमहिलाए दिट्ठो, ओरालसुकुमालसरीरोत्तिकाउंतीसे तहिं अज्झोववाओ जाओ, चेडीए सद्दावितो, किं मग्गसि?, भिक्खं, दिना से मोयगा, पुच्छितो-कीस तुमं धम्मं करेसि?, भणइ-सुहनिमित्तं, सा भणइ-तो मए चेव समं भोगे भुंजाहि, सो य उण्हेण तज्जिओ उवसग्गिज्जंतो य पडिभग्गो भोगे भुंजति । सो साहूहि सव्वहिं मग्गितो न दिट्ठो अप्पसागरियं पविट्ठो, पच्छा से माया उम्मत्तिया जाया पुत्तसोगेण, नयरं परिभमंती अरहन्नयं विलवंती जं जहिं पासइ तं तहिं सव्वं भणति-अस्थि ते कोइ अरहन्नओ दिदो?, एवं विलवमाणी भमइ, जाव अन्नया तेन पुत्तेण ओलोयणगएण दिट्ठा, पच्चभिन्नाया, तहेव ओयरित्ता पाएसु पडिओ, तं पिच्छिऊण तहेव सत्थचित्ता जाया, ताहे भण्णइ-गुत्त ! पव्वयाहि, मा दुग्गइं जाहिसि, सो भणइ-न तरामि काउं संजमं, जदि परं अणसणं करेमि, एवं करेहि, मा य असंजओ भवाहि, मा संसारं भमिहिसि, पच्छा सो तहेव तत्ताए सिलाए पाओवगमनं करेइ, महत्तेण सुकुमालसरीरो उण्हेण विलाओ, पुद्वि तेन नाहियासिओ पच्छा तेनऽहियासितो। एवं अहियासियव्वं । उष्णं च ग्रीष्मे तदनन्तरं वर्षासमयः, तत्र च दशमशकसम्भव इति तत्परीषहमाहमू.(५९) पुट्ठो य दंसमसएहिं, समरे व महामुनी।
नागो संगामसीसे व, सूरे अभिभवे परं।। वृ. 'स्पृष्टः' अभिद्रुतः 'च:' पूरणे दंशमशकैः, उपलक्षणत्वात् यूकादिभिश्च 'समरेव'त्ति 'एदोदुरलोपाविसर्जनीयस्येति रेफात्, ततः सम एव-तदगणनया स्पृष्टास्पृष्टावस्थयोस्तुल्य एव, यद्वा समन्तादरयः-शत्रवो यस्मिंस्तत्समरं तस्मिन्निति संग्रामशिरोविशेषणं, वेति पूरणे, 'महामुनिः' प्रशस्तयतिः, किमित्याह-'नागो संगामसीसे वे'ति इवार्थस्य वाशब्दस्य भिन्नक्रमत्वान्नाग इव-हस्तीव संग्रामस्य शिर इव शिर:-प्रकर्षावस्था संग्रामशिरस्तस्मिन् 'शूरः' पराक्रमवान्, यद्वा शूरो-योधः ततोऽन्तर्भावितोपमार्थत्वाद्वाशब्दस्य च गम्यमानत्वात् शूरवद्वाऽभिहन्यात्, कोऽर्थः?-अभिभवेत् 'परं' शत्रुम, अयमभिप्रायः-यथा शूरः करी यद्वा यथा वा योधः शरैस्तुद्यमानोऽपि तदगणनया रणशिरसि शत्रून् जयति, एवमयमपि दंशादिभिरभिद्रूयमानोऽपि भावशत्रु-क्रोधादिकं जयेदिति सूत्रार्थः ॥ यथा च भावशत्रुर्जेतव्यस्तथोपदेष्टुमाहमू.(६०) न संतते न वारिज्जा, मनपि नो पउस्सए।
उवेहे नो हणे पाणे, भुंजते मंससोणिए । वृ.'न संत्रसेत्' नोद्विजेत्, दंशादिभ्य इति गम्यते, यद्वाऽनेकार्थत्वाद्धातूनां न कम्पयेत्तैस्तुद्यमानोऽपि, अङ्गानीति शेषः, 'ननिवारयेत्' न निषेधयेत्, प्रक्रमाइंशादीनेव तुदतो, मा भूदन्तराय इति, मनः-चित्तं तदपि, आस्तां वचनादि, 'न प्रदूषयेत्' न प्रदुष्टं कुर्यात्, किन्तु 'उवेहे'त्ति उपेक्षेत-औदासीन्येन पश्येद्, अत एव न हन्यात् 'प्राणान्' प्राणिनो 'भुञ्जानान्' आहारयतो मांसशोणितम्, अयमिहाशयः-अत्यन्तबाधकेष्वपि दंशकादिषु
__ शृगालवृकरूपैश्च, नदभिर्घोरनिष्ठुरम्।, आक्षेपत्रोटितस्नायु, भक्ष्यन्ते रुधिरोक्षिताः॥१॥ स्वरूपैः श्यामशबलैर्वालपुच्छैर्भयान्वितैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org