SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २ - २, [ नि. ९३ ] ८५ "पंचहि ठाणेहिं पुरिमपच्छिमाणं अरहंताणं भगवंताणं अचेलए पसत्थे भवइ, तं जहाअप्पा पडिलेहा १, वेसासिए रूवे २, तवे अनुमए ३, लाघवे पसत्थे ४, विउले इंदियनिग्गहे ५” त्ति, सचेलत्वस्य तु धर्मोपकारित्वमन्याद्यारम्भनिवारकत्वेन संयमफलत्वात्, 'ज्ञानी' नग्ना एव प्रायस्तिर्यग्नारकाः तद्भवभयादेव च मया सन्त्यपि वासांस्यपास्यन्त इत्येवं बोधवान्नो परिदेवयेत्, किमुक्तं भवति ? - अचेल : सन् किमिदानीं शीतादिपीडितस्य मम शरणमिति न दैन्यमालम्बेत इति सूत्रार्थः । इह च केचिन्मिथ्यात्वाकुलितचेतस इदमित्थं महार्थकर्म्मप्रवादपूर्वोद्धृतप्रस्तुताध्ययनाधीतमपि सचेलत्वं तथा सम्यक्त्वज्ञानशीलानि, ततश्चेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥१॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तप: कष्टं, मौढ्यद्धिस्त्रो न सिद्धयति ॥२॥ सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः । नग्नश्चीवरधारी वा स सिद्धयति महामुनिः || ३|| इति वाचकवचनानूदितं चानुचितमित्याहुः, तान् प्रति वक्तुमुपक्रम्यते - इह यो यदर्थी न स तन्निमित्तोपादानं प्रत्यनादृतो, यथा घटार्थी मृत्पिण्डोपादानं प्रति, चारित्रार्थिनश्च यतयस्तन्निमित्तं चचीवरमिति, न चास्यासिद्धत्वं, तद्धि तस्य तदनिमित्ततया स्यात्, सा च तत्रास्य बाधाविधायितयौदासीन्येन वा ?, न तावद्वाधाविधायितया, यतोऽसौ पञ्चमव्रतविघातकत्वेन संसक्तिविषयतया कषायकारणत्वेन वा ?, यदि पञ्चमव्रतविघातकत्वेन, तदपि कुतः ?, युक्ति इति चेत्, नन्वियं स्वतन्त्रा सिद्धान्ताधीना वा ?, यदि स्वतन्त्रा ततः सलोमा मण्डूकश्चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, मृगवत्, अलोमा वा हरिणः, चतुष्पात्त्वे सत्युप्लुत्य गमनात्, मण्डूकवदित्यादिवन्न निर्मूलयुक्तेः साध्यसाधकत्वम्, उक्तं हि - "यत्नेनानुमितोऽप्यर्थः, कुशलैरनुमातृभिः । अभियुक्तरैरन्यैरन्यथैवोपपाद्यते ॥" सिद्धान्ताधीनयुक्तिस्तु तथाविधसिद्धान्ताभावादसम्भविनी, अथास्त्यसौ 'गामे वा नगरे वा अप्पं वा बहुं वा जाव नो परिगिण्हेज्जा' इत्यादिः, तदनुगृहीता युक्तिश्च यद्यत्परिग्रहस्वरूपं तत्तदुपादीयमानं पञ्चमव्रतविघाति, यथा धनधान्यादि, परिग्रहस्वरूपं च चीवरमिति, नन्वसिद्धोऽयं हेतु:, तथाहि-परिग्रहस्वरूपत्वमस्य किं मूर्च्छाहेतुत्वेन धारणादिमात्रेण वा ?, यदि मूर्च्छाहेतुत्वेन, शरीरमपि मूर्च्छाया हेतुर्न वा ? न तावदहेतुः, तस्यान्तरङ्गत्वेन दुर्लभतरतया च विशेषतस्तद्धेतुत्वाद्, उक्तं च 44 'अह कुणसि थुल्लवत्थाइएसु मुच्छं धुवं सरीरेऽवि । अक्वेज्जदुल्लभरते काहिसि मुच्छं विसेसेण ॥" अथास्तु तन्निमित्तमेतत्, तर्हि चीवरवत्तस्यापि किं दुस्त्यजत्वेन मुक्त्यङ्गतया वा न प्रथमत एव परिहारः ?, दुस्त्यजत्वेन चेत् तदपि किमशेषपुरुषाणामुत केषाञ्चिदेव ?, न तावदशेषपुरुषाणां, दृश्यन्ते हि बहवो वह्निप्रवेशादिभिः शरीरं परित्यजन्तः, अथ केषाञ्चित्, तदा वस्त्रमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy