________________
अध्ययनं-१,[नि. ६४] मोहनीयकर्मोदयजनितमस्येति अल्परतो-लवसप्तमादिः, अल्परजा वा प्रतनुबध्यमानकर्मा, महती-महाप्रमाणा प्रशस्या वा ऋद्धिः-चक्रवर्तिनमपि योधयेत् इत्यादिका विकरणशक्तिः तृणाग्रादपि हिरण्यकोटिरित्यादिरूपा वा समुद्धिरस्येति मर्द्धिकः, देवविशेषणं वा, 'इति:' परिसमाप्तावेवमर्थे वा, एतावद्विनयश्रुतमनेन वा प्रकारेण 'ब्रवीमि' इति गणभृदादिगुरूपदेशतः, न तु स्वोलोक्षया इति ।। उक्तोऽनुगमः, सम्प्रति चतुर्थमनुयोगद्वारं नया इति, नयति-अनेकांशात्मकं वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपयति नीयते वा तेन तस्मिंस्ततो वा नयनं वा नयःप्रमाणप्रवृत्त्युत्तरकालभावी परामर्श इत्यर्थः, उक्तं च
"स नगइ तेन तहिं वा ततोऽहवा वत्थुणो व जं नयनं ।
___ बहुहा पज्जायणं संभवओ सो नतो नामं ।। ननु सन्त्वमी नयाः, एपां तु क इहोपयोगः?, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्य अनुगमेनानुगतस्य चास्यैवाध्ययनस्य विचारणा, उक्तं च
"संबंधोवक्कमतो समीवमाणीय नत्थनिक्खे ।
सत्थं तओऽनुगम्मइ नएहि नानाविहाणेहिं।।" अस्तु नयैर्विचारणा, साऽपि प्रतिसूत्रं समस्ताध्ययनस्य वा?, न तावत् प्रतिसूत्रं, प्रतिसूत्रं, नयावतारनिषेधस्यात्रैवाभिधानात्, अथ समस्ताध्ययनस्य, तदपि न, सूत्रव्यतिरिक्तस्य तस्मासम्भवाद्, उच्यते, यदुक्तंप्रतिसूत्रं नयावतारनिषेध इति, तदित्थमेव, यत्तु सूत्रव्यतिरिक्तस्याध्ययनस्यैवासम्भव इति, तदसत्, कथञ्चित् समुदायस्य समुदायिभ्योऽन्यत्वात्, शिबिकावाहकपुरुषसमूहवत्, इतरथा प्रत्येकावस्थाविलक्षणकार्यानुदयप्रसङ्गाद्, अस्त्वेवं तथाऽपि किमस्य समस्तनयैर्विचार उत कियद्भिरेव?, न तावत् समस्तैरिति पक्षः क्षमः तेषामसंख्यत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि-यावन्तो वचनमार्गास्तावन्त एव नयाः, यथोक्तं
"जावइया वयणपहा तावइया चेव होंति नयवाया।
जावइया नयवाया तावइया चेव परसमया।" न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्याऽस्ति प्रतिप्राणिभिन्नत्वादभिप्रायाणां, नापि कियद्भि रिति वक्तु शक्यम् अनवस्था प्रसङ्गात् संङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपिकि नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्याद्-सङ्खयेयत्वेऽप्येषां सकलनयासंग्राहिभिर्नयैर्विचारः, ननु तेपामप्यनेकविधत्वात् पुन-रवस्थैव, तथाहि-पूर्वविद्भिः सकलनयसंग्राहीणि सप्त नयशतानि विहितानि, यत् प्रतिबद्धं सप्तशतारं नयचक्राध्ययनमासीत्, तत्संग्रहाहिणः पुनादश विध्यादयो, यत्प्रतिपादकमिदानीमपि नयचक्रमास्ते, तत्संग्राहिणोऽपि सप्त नैगमादयो, यावत् तत्संग्रहेऽपि द्वयमेवेति संग्राहिनयानामपि तेषामनेकविधत्वात् पूर्ववदनवस्थेय, अथ संक्षिप्तरुचित्वादैदंयुगीनजनानामनेकविधत्वेऽपि संग्राहिनयानां द्वयेनैव विचारो न शेपैरिति नानवस्था, ननु द्वयमपि द्रव्यपर्यायार्थशब्दव्यवहारनिश्चयज्ञानक्रियादिभेदेनानेकधैवेति तत्रापि स एवानवस्थालक्षणो दोष इति, अत्र प्रतिविधीयते-इहाध्ययने विनयो विचार्यते, स च मुक्तिफलः, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयं, तच्च ज्ञानक्रियात्मकमेवेति ज्ञानक्रियानयाभ्यामेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org