________________
उत्तराध्ययन-मूलसूत्रम्-१-१/४७ __ वृ. 'स' इति शिष्यः प्रसादितगुरोरधिगतश्रुतः पूज्यं-सकलजनश्लाघादिना पूजाहं शास्त्रमस्येति पूज्यशास्त्रः, विनीतस्य हि शास्त्रं सर्वत्र विशेषेण पूज्यते, यदि वा प्राकृतत्वात्पूज्य: शास्ता गुरुरस्येति पूजाशास्तुकः, विनीतो हि विनेयः शास्तारं पूज्यमपि विशेषतः पूजां प्रापयति, अथवा पूज्यश्चासौ शस्तश्च सर्वत्र प्रशंसास्पदत्वेन पूज्यशस्तः, सुष्ठ-अतिशयेन विनीत,अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणन संशयो-दोलायमानमानसात्मकोऽस्येति सुविनीतसंशयः, सुविनीता वा संसत्, परिषदस्येति सुविनीतसंसत्कः, विनीतस्य हि स्वयमतिशयविनीतैव परिषद्भवति, 'मनोरुईत्ति मनसः चेतसः प्रस्तावद् गुरुसम्बन्धिनी रुचि:प्रतिभासोऽस्मिन्निति मनोरुचिः, तिष्ठति' आस्ते, विनयाधिगतशास्त्रोहिन कथञ्चिद्गुरूणामप्रीतिहेतुरिति, तथा 'कम्मसंपय'त्ति कर्म-क्रिया दशविधचक्रवालसामाचारीप्रभृतिरितिकर्तव्यता तस्याः सम्पत-सम्पन्नता तया, लक्षणे तृतीया, ततः कर्मसम्पदोपलक्षितस्तिष्ठतीति सम्बन्धः, हेतौ वा तृतीया, मनोरुचित्वापेक्षया च हेतुत्वम्, अथवा मनोरुचितवे मनोरुचिता तिष्ठति --आस्ते कर्मणां-ज्ञानावरणादीनां सम्पद उदयादीरणादिरूपा विभूतिः कर्मसम्पद्, अस्येति गम्यते, तदुच्छेदशक्तियुक्तयाऽस्य प्रतिभासमानतयेव तत्स्थितेरुपलक्ष्यमाणत्वात्,
पठ्यते च-'मनोरुई'त्ति तत्र मनसो रुचिः- अभिलाषो यस्मिस्तन्मनोरुचि-स्वप्रतिभासानुरूपं यथा भवत्येवं तिष्ठति, कया?, 'कर्मसम्पदा' यत्यनुष्ठानमाहात्म्यसमुत्पन्नपुलाकादिलब्धिसम्पत्त्या, पठन्ति च – 'मनोरुइं चिट्टइ कम्मसंपयं' तत्र च मनोरुचितफलसम्पादकत्वेन मनोरुचितां कर्मसम्पदं-शुभप्रकृतिम् पाम्, अनुभवन्निति शेषः, नागार्जुनीयास्तु पठन्ति-'मनिच्छियं संपयमुत्तमं गय'त्ति इह च सम्पदं-यथाख्यातचारित्रसम्पदं, अन्यत्अ सुगममेव, तपसः-अनशनाद्यात्मकस्य सामाचारीति समाचरणं, यद्वा-तपश्च सामाचारी चन्यक्षतो वक्ष्यमाणस्वरूपा समाधिश्च-चेतसः स्वास्थ्यं ते: संवृत्तः निरुद्धाश्रवः तप:सामाचारीसमाधिसंवृत्तः, यद्वा-तपःसामाचारीसमाधिभिः संवृनं-संवरणं यस्य स तथाविधः, महती द्युतिः-तपोदीप्तिस्तेजोलेश्या वाऽस्येति महाद्युतिः, भवतीति गम्यते, किं कुत्वेत्याह-'पञ्च व्रतानि' प्राणातिपाविरमणादीनि, 'पालयित्वा'निरतिचारं संस्पृश्येति सूत्रार्थः ।। पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाहमू. (४८) सदेवगंधव्वमनुस्सपूइए, चइत्तं देहं मलपंकपुव्वयं।
सिद्धे वा हवइ सासए, देवे वाऽप्परए महिड्डिए । तिबेमि वृ.'स' तादृश विनीतविनयः, देवैः-वैमानिकज्योतिपकै: गन्धर्वैश्च-गन्धर्वनिकायोपलक्षितैय॑न्तरभुवनपतिभिः मनुष्यैश्च-महाराजाधिराजप्रभृतिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, 'त्यक्त्वा' अपहाय देहं शरीरं'मलपंकपुव्वं'ति जीवशुद्धयपहारितया मलवन्मलः स चासौ 'पावे वज्जे वेरे पंके पणए य'त्ति वचनात् पङ्कश्च कर्ममलपङ्कः स पूर्वकार्यात् प्रथमभावितया कारणमस्येति मलपङ्कपूर्वकं, यद्वा-'माओउयं पिऊसुकं 'त्ति वचनात रक्तशुक्रे एव मलपङ्कौ तत्पूर्वकं, "सिद्धो वा' निष्ठितार्थो वा 'भवति' जायते 'शाश्वतः' सर्वकालवस्थायी, न तु परपरिकल्पिततीर्थनिकारादिकारणतः पुनरिहागमवानशाश्वतः, सावशेषकर्मवांस्तु देवो वा भवति, 'अप्परए'त्ति अल्पमितिअविद्यमानं रतमिति-क्रीडितं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org