________________
अध्ययनं -१, [ नि. ६४ ]
६१
प्रतिप्रस्तावं गुरुकृत्यपं प्रवर्तत इति कुतः प्रेरितत्वमस्य ?, 'नित्यं' सदा, न कदाचिदेव, स्वयं प्रवर्तमानोऽपि प्रेरिताऽनुशयवानपि स्यादिति कदाशङ्कापनोदाहायाह- 'क्षिप्रम्' इति शीघ्रं भवति 'सुचोयए' त्ति शोभने प्रेरयितरि, गुराविति गम्यते, सोपस्कारत्वाच्च क्षिप्रमेव प्रेरके सति कृत्येषं वर्तते, नानुशयतो विलम्बितमेव, पठ्यते च- 'वित्ते अचोइए खिप्पं, पसन्ने थामवं करे' इति, अत्र च ‘प्रसन्नः' प्रसत्तिमान, नाहमाज्ञपित इत्यप्रसन्नो भवति, किन्तु ममायमनुग्रह इति मन्यते, क्षिप्रमेव च तत्कुरुते, ‘थामवं 'ति स्थाम-बलं तद्वान्, किमुक्तं भवति ?, सति बले करोति, असति च सद्भावमेवाऽऽख्याति, यथाऽहमनने कारणेन न शक्नोमीति । क्षिप्रमपि कुर्वन् कदाचिद्विपरीतमर्धविहितं वा विदध्यात् तद्वययच्छेदायाह-'यथोपदिष्टम्' उपदिष्टानतिक्रमेण,' 'सुकृतं सुष्ठु परिपूर्णं कृतं यथा भवत्येवं कृत्यानि 'करोति' निर्वर्तयति, सदा सता वा शोभनेन प्रकारेणेति सूत्रार्थः । साम्प्रत्युपसंहर्तुमाह
मू. (४५)
नच्चा नमइ मेहावी, लोए कित्ती य जायइ । किच्चाणं सरणं होई, भूयाणं जगई जहा ॥
वृ. ‘ज्ञात्वा' अनन्तरमखिलमध्ययनार्थमवगम्य 'नमति' तत्कृत्यकरणं पति प्रह्वीभवति 'मेधावी' एतदध्ययनार्थावधारणशक्तिमान् मर्यादावर्ती वा तद्गुणं वक्तुमाह-लोके कीर्ति:सुलब्भमस्य जन्म निस्तीर्णरूपो भवोदधिरनेनेत्यादिका श्लाघा चशब्द:- 'एकदिग्व्यापिनी कीर्तिः, सर्वदिग्व्यापकं यशः' इति प्रसिद्धेर्यशश्चेति समुच्चिनोति, उभयमपि प्रक्रमान्नन्तुरेव 'जायते' प्रादुर्भवति, स एव भवति 'कृत्यानाम्' उचितानुष्ठानामना कलुषान्तःकरणवृत्तिभिरविनीताविनयैरतिदूरमुत्सादिताना 'शरणम्' आश्रय इत्यर्थः, केपां केव ?, 'भूतानां' प्राणिनां 'जगती' पृथ्वी यथेति सूत्रार्थः ॥ ननु विनयः पूज्यप्रसादनफल:, ततोऽपि च किमवाप्यत इत्याहमू. (४६) पूज्जा जस्स पसीयंति, संबुद्धा पुव्वसंथुया ।
पसन्ना लंभइस्संति, विउलं अट्ठियं सुयं ॥
वृ. पूजयितुमर्हाः पूज्या - आचार्यादयः 'यस्य' इति विवक्षितशिष्योपदर्शकं सर्वनाम 'प्रसीदन्ति' तुष्यन्ति 'सम्बुद्धा:' सम्यगवगतवस्तुतत्त्वाः, पूर्वं वाचनादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्स कृतप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात्, संस्तुताविनयविषयत्वेन परिचिताः सम्यक्स्तुता वा सद्भुतगुणोत्कीर्तनादिभिः पूर्वसंस्तुताः, शेषविनयोपलक्षणमेतत्, ‘प्रसन्ना' इति सप्रसादाः, पठ्यते च - 'सम्पना: ' ज्ञानादिगुणपरिपूर्णाः सम्यग् - अविपरीता प्रज्ञा येषां ते सत्प्रज्ञा वा, 'लम्भयिष्यन्ति' प्राययिष्यन्ति, किमित्याह- 'विपुलं'विस्तीर्णम्, अर्यत इत्यर्थो मोक्षः स प्रयोजनमस्येत्यार्थिकं तदस्य 'प्रयोजन' मिति ठक्, अथवा अर्थ: स एव प्रयोजनरूपोऽस्यास्तीत्यार्थिकः, अत इनिठना विति ठन् ' श्रुतम्' अङ्गोपाङ्गप्रकीर्णकादिभेदमागमं, न तु हरहरिहिरण्यगर्भादिवत् साक्षात् स्वर्गादिकम्, अनेन पूज्यप्रसादस्यानन्तरफलं श्रुतमुक्तं, व्यवहहितफलं तु मुक्तिरिति सूत्रार्थः ॥
"
सम्प्रति श्रुतवासौ तस्यैहिकफलमाह
मू. (४७)
स पुज्जसत्थे सुविनीयसंसए, मनोरुई चिट्ठइ कम्मसंपया । तवोसमायारीसमाहिसंवुडे, महज्जुई पंच वयाइं पालिया ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org