________________
६०
उत्तराध्ययन-मूलसूत्रम्-१-१/४१ ततयाऽज्जलिपुटमस्येति प्राज्जलिपुट:, इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह-'वदेत्' ब्रूयात् न पुनरिति, चशब्दो भिन्नकम्:, वेददित्यस्यानन्तरं दृष्टव्यः, ततोऽयमर्थः-कथञ्चित कृतकोपानपि गुरून् विधयापयन् वदेत् यथा -- भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यं, न पुनरित्थमाचरिष्यामीति सूत्रार्थः ।। साम्प्रतं यथा निरपवादतयाऽऽचार्यकोप एव न स्यात् तथाऽऽहमू.(४२) धम्मज्जियं च ववहारं, बुद्धोहाऽऽयरियं सया।
तमायरंतो ववहारं, गरहं नाभिगच्छद। वृ. धर्मेण-क्षान्त्यादिरूपेणार्जितम्-उपाजितं धर्माजितं, न हि क्षान्त्यादिधर्मविरहितं इमं प्राप्नोतीति, 'चः' पूरणे, विविधं विधिअवद्वाऽवहरणमनेकार्थत्वादाचारणं व्यहारस्तंयतिकर्तव्यतारूपं, 'बुद्धैः' अवगततत्त्वैः आचरितं, 'सदा' सर्वकालं, 'त'मिति सदावस्थिततया प्रतीतमेव 'आचरन्' व्यवहरन्, यद्वा-यत्तदोनित्याभिसम्बन्धात् सुब्ब्यत्ययाच्च धर्मार्जितो बुद्धैराचतिरश्च यो व्यवहारस्तमाचरन-कुर्वन्, विशेषेणापहरति पापकर्मेति व्यवहारस्तं, व्यवहारविशेषणमेतत्, एवं च किमित्याह-'गर्हाम्' अविनीतोऽयमित्येवंविधां निन्दा 'नाभिगच्छति' न प्राप्नोति, यतिरिति गम्यते । यद्वा-आचार्यविनयमनेनाह, तत्र धर्मादनोपेतो धर्योन धर्मातिक्रान्तः, 'जियं च ववहारं'ति पाकृतत्वाच्चस्य भिन्नक्रमत्वाज्जीतव्यवहारश्च, अनेन चागमादिव्यवहारव्ययच्छेदमाह, अत एव 'बद्धैः' आचार्यैराचरितः सदा-सर्वकालं त्रिकालविषयत्वत् जीवव्यवहारस्य, य एवंविधो व्यवहास्तं व्यवहारं-प्रमादात् स्खलितादौ प्रायश्चित्तदानरूपमाचरन् ‘गहीं' दण्डरुचिरयं निघृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति, आचार्य इति शेपः. न चायं निजक उपकारी वा मम विनेय इति न दणडनीय इति ज्ञापनार्थं च धर्म्यजीतविशेषणं, पठन्ति च-'तमायरंतो मेहावि'त्ति सुगममेवेति सूत्रार्थः ।। किं बहुना?मू.(४३) मनोगयं वक्तगयं, जाणित्ताऽऽयरियस्स उ।
__ तं परिगिज्झ वायाए, कम्मुणा उववायए। वृ. मनसि-चेतसि गतं-स्थितं मनोगतं तथा वाक्ये-वचनरचनात्मनि गतं वाक्यगतं, कृत्यमिति शेषः, वाक्यग्रहणं तु पदस्यापरिसमाप्ताभिधायित्वेन क्वचिदप्रयोजकत्वात्, 'ज्ञात्वा' अवबुध्य आचार्यस्य' विनयाहस्य गुरोः तुशब्द: कायगतकृत्यपरिग्रहार्थः, 'तत्' मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थंकरोमीत्यात्मकेन 'कर्मणा' क्रियया तन्निर्वर्तनात्मिकया तद्पपादयेत्-विदधीत, पठन्ति च -'मनोरुइंवक्करुई, जाणित्ताऽऽयरियस्स उ' अत्र चमनसिरुचि:-अभिलापस्तामाचार्यस्य ज्ञात्वा-इदममीपां भगवतामभिमतमित्यवगम्य, वाक्ये रुचि:-पर्यवसितकार्यवाञ्छा तां च, शेषं प्रागवत्, अनेन सूक्ष्मो विनय उक्त इति सूत्रार्थः ।। स चैवं विनीताविनयतथा यादृक् स्यात्तदाहमू.(४४) वित्ते अचोइए निच्चं, खिप्पं हवइ सुचोयए।
जहोवइ8 सुकडं, किच्चाई कुव्वई सया। वृ. 'वित्ते' विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः प्रसिद्ध इतियावत् 'अचोइए'त्ति यथा हि बलवद्विनीतधुर्यः प्रतोदोत्क्षेपमपि न सहते, कुस्तन्त्रिपतनम्, एवमयमप्यचोदित एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org