________________
६४
उत्तराध्ययन- मूलसूत्रम् - १-१ / ४८
विचारो न पुनरन्यैरिति ।
तत्र ज्ञाननय आह-ज्ञानमेव मुक्त्यवाप्तिनिबन्धनं, तथा च तल्लक्षणाभिधायिनी निर्युक्तिगाथा"नायंमि गिण्हियव्वे अगिहियव्वंमि चेव अत्यंमि ।
जइयव्वमेव इह जो उवएसो सो नमो नाम ॥"
अस्याश्चार्थः-‘ज्ञाते' बुद्धे 'गिण्डियव्वि' त्ति गृह्यते-उपादीयते कार्यार्थिभिरिति ग्रहीतव्यः, कार्यसाधकं इत्युक्तं भवति, उक्तं हि - 'गेज्झो सो कज्जसाहतो होइ' तस्मिन्, अग्रहीतव्य:तद्विपरीतः, स च हेय उपेक्षणीयश्च, उभयोरपि कार्यासाधकत्वात्, तस्मिंश्च, 'च: ' समुच्चये, 'एव' इति पूरणे, कस्मिन् पुनर्ग्राह्येऽग्राहो वेत्याह- 'अत्थंमि'त्ति अर्थ्यत इत्यर्थः तस्मिन्द्रव्ये गुणे वा, यत आह- "अत्थो दव्वं गुणो वावि" 'यतितव्य' मिति यत्नः कार्यः, किमुक्तं भवति ? - ग्राह्यः ग्रहीतव्यः इतरश्च परिहर्तव्यः, 'एवः' अवधारणे, स च व्यवहितसम्बन्धः, ततोऽयमर्थ:-ज्ञात एव ग्रहीतव्येऽग्रहीतव्ये वाऽर्थे यतितव्यम्, अन्यथा प्रवर्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युच्यते-- "सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धि"रिति, अज्ञानस्यैव च बहुदोषत्वदर्शनात्, यतो बालैरप्युदृघुष्यते
44
'अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
अर्थं हितमहितं वा न वेत्ति येनाऽऽवृतो लोकः ।। "
आगमोऽप्येवमेवावस्थितः, यतस्तत्र कर्मनिर्जरणाधीना मुक्तिरुक्त, कर्मनिर्जरणे च ज्ञानमेवाऽऽत्यन्तिको हेतु:, तद्विरहितानां तामलिप्रभृतीनां कष्टानुष्ठायिनामपि अल्पफलत्वाभिधानात् उक्तं हि
“जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेणं ॥"
यदपि दर्शनसत्तायां चारित्ररहितस्यापि 'सिज्झति चरणरहिया दंसणरहिया न सिज्झंति' इत्यागमेन मुक्तिप्रतिपादनं तदपि ज्ञानप्राधान्यख्यापनपरं, दर्शनरहितस्य हि द्वादशाङ्गमप्यज्ञानमेवेति न तत्र कष्टक्रियासम्भवेऽपि मुक्तिः, दर्शनोत्पत्तौ तु क्रियां विनाऽपि मरुदेव्यादीनामिव सम्यग्ज्ञानमात्रादेव मुक्त्यवाप्तिरित्यर्थप्रतिपादकत्वादस्य, अत एव बहुश्रुतपूजाध्ययने बहुश्रुतस्यैव तथा तथा पूज्यताभिधानं, तथा च प्रयोगः - यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवांकुरः, ज्ञानाविनाभाविनी च मुक्त्यवाप्तिः, 'इति'त्येवं यः 'उपदेश: ' सर्वस्य ज्ञाननिबन्धन्त्वाभिधानरूपः, स किमित्याह- 'नय' इति प्रस्तावात् ज्ञाननयः, नामेति वाक्यालङ्कारे, उक्तं हि 'इति जो 'त्ति एवमिह जो उवएसो जाणगाणतो सो त्ति । अयं च ज्ञानदर्शनचारित्रतपपउपचारात्मनि पञ्चविधे विनये ज्ञानदर्शनविनयावेवेच्छति, चारित्रतपउपचारविनयांस्तु तत्कार्यत्वात् तदायत्तत्वाच्च गुणभूतानेवेति गाथार्थः । क्रियानयस्त्वाह
"सव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वयविसुद्धं जं चरणगुणट्ठिओ साहू || "
'सर्वेषामपी'ति नैगमादिनयोत्तरोत्तरभेदानामविशुद्धानां विशुद्धानां च किं पुनर्मूलनयानां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International