________________
अध्ययनं -१, [ नि. ६४ ]
‘प्रतिगृह्णीयात्' स्वीकुर्यात्, 'संयतः' यतिरिति सूत्रार्थः ॥ इत्थं सूत्रद्वयेन गवेषणाग्रहणैषणाविषयं विधिमुक्त्वा ग्रासैषणाविधिमाहमू. (३५)
अप्पपानेऽप्पबीए वा, पडिच्छन्ने य संवुडे । समयं संजओ भुंजे, जयं अप्परिसाडियं ॥
वृ. अल्पशब्दोऽभावाभिधायी, तथेहापि सूत्रत्वेन मत्वर्थीलोपात् प्राणा:- प्राणिनस्ततश्चाल्पा-- अविद्यमाना: प्राणा:- प्राणिनो यस्मिंस्तदल्पप्राणां तस्मिन्-अवस्थितागन्तुकजन्तुविरहिते, उपाश्रयादाविति गम्यते, तथा अल्पानि-अविद्यमानानि बीजानि - शाल्यादीनि यस्मिस्तदल्पवीजं तस्मिन्, उपलक्षणत्वाच्चास्य सकलैकेन्द्रियविरहिते, ननु चाल्पप्रमाण इत्युक्ते अल्पबीज इति गतार्थं, बीजानामपि प्राणत्वाद्, उच्यते, मुखनासिकाभ्यां यो निर्गच्छति वायुः स एवेह लोके रूढित: प्राणो गृह्यते, अयं च द्वन्द्रियादीनामेव संभवति, न बीजाद्येकेन्द्रियाणामिति कथं गतार्थता ?, तत्रापि 'प्रतिच्छन्ने' उपरिप्रावरणान्विते, अन्यथा सम्पातिमसत्त्वसम्पातसम्भवात्, ‘संवृत्ते' पार्श्वतः कटकुट्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रद्वेपादिदर्शनात्, संवृतो वा सकलाश्रववरिमणात्, 'समकम्' अन्यैः सह, न त्वेकाक्येव रसलम्पटतया समूहासहिष्णुतया वा, अत्राह च - "साहवो तो चियत्तेणं, निमंतिज्ज जहक्कमं ।
५७
जइ तत्थ कोइ इच्छेज्जा, तेहिं सद्धिं तु भुंज ॥"त्ति,
गच्छास्थितसामाचारी चेयं गच्छस्यैव जिनकल्पिकादीनामपी मूलत्वख्यापनायोक्ता, उक्तं हि- 'गच्छे च्चिय निम्माओ' इत्यादि, यद्वा 'समयं 'ति सममेव समकं सरसविरसादिष्वभिष्वङ्गादिविशेपरहितं, सम्यग् यतः संयतः यतिरित्यर्थः, 'भुञ्जीत' अश्नीयात् 'जयं'ति यतमानः 'अप्परिसाडियं' ति परिसाटविरहितमिति सूत्रार्थः । यदुक्तं 'यतमानं' इति, तत्र वाग्यतनामाहमू. ( ३६ ) सुकडंति सुपक्कंति, सुछिन्नं सुहडे मडे । सुनिट्ठिए सुलट्ठित्ति, सावज्जं वज्जए मुनी ॥
वृ. 'सुकृतं ' सुष्ठु निर्वर्तितमन्नादि 'सुपक्वं ' घृतपूर्णादि, 'इति : ' उभयत्र प्रदर्शने, 'सुच्छिां' शाकपत्रादि 'सुहृतं' शाकपत्रादेस्तिक्तत्त्वादि घृतादि वा सूपविलेपिकादीनां तथा 'मडे'त्ति प्रक्रमात् सुष्ठु मृतं घृताद्येव सक्तुसुपादौ तथा सुष्ठु निष्ठितमित्यतिशयेन निष्ठां-रसप्रकर्पपर्यन्तात्मिकां गतं, 'सुलट्ठि'त्ति सर्वैरपि रसादिभिः प्रकारै: शोभनमिति, 'इति' एवंप्रकारार्थः, एवंप्रकारामन्यदपि सावद्यं प्रक्रमाद्वचो, वर्जयेन्मुनिः ।
,
Jain Education International
यद्वा-सुष्ठु कृतं यदनेनारातेः प्रतिकृतं, सुष्ठु पक्वं मांसाशनादि, सुच्छिन्नोऽयं न्यग्रोधपादपादिः सुहृतं दर्यादर्थजातं, सुहतो वा चौरादिः, सुमृतोऽयं प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयंप्रासादकूपादि:, ‘सुलट्ठि’त्ति शोभनोऽयं करितुरगादिरिति सामान्येनैव सावद्यं वचोवर्जयेन्मुनिः। निरवद्यं तं सुकृतमनेन धर्मध्यानादि, सुपक्वमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतमुपकरणमशिवोपशान्तये, सुहतं वा कर्मानीकादि, सुमृतस्य पण्डितमरणमर्तुः, तथा सुनिष्ठितोऽसौ साध्वाचारविषये., 'सुलट्ठि' त्ति शोभनमस्य तपोऽनुष्ठानमित्यादिरूपं, कारणतो वा"पयत्तपक्वेत्ति व पक्कमालवे, पयत्तछिनत्ति व छिन्नमालवे ।
For Private & Personal Use Only
www.jainelibrary.org