SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ उत्तराध्यय- मूलमृत्रम्-१-१/३६ पयत्तलटेत्ति व कम्महेउयं, पहारगाढेत्ति व गाढमालवे ।।" इत्याप्तोपदेशात् प्रयत्नकृतपक्वादिरूपं वदेदसुविनीतेतरोपदेशदानतो यद्गुरोर्भवति तदुपदेशयितुमाहमू. (३७) रमए पंडिए सासं, हयं भदं व वाहए। बालं सम्मइ सासंतो, गलिअस्समिव वाहए। वृ. 'रमते' अभिरतिमान् भवति, ‘पण्डितान्' विनीतविनेयान्, 'शासत्' इत्याज्ञापयन् कथञ्चित प्रमादस्खलिते शिक्षयित्वा, गुरुरिति शेषः, कमिव कः?, इत्याह-'हयमिव' अश्वमिव, कीदृशम् ?--भाति भन्दते वा भद्रस्तं-कल्याणावह वाहक:' अश्वन्दमः' 'बालम्' अज्ञं 'श्राम्यति' खिद्यते शासत्, स हि सकृदुक्त एव न कृत्येषु प्रवर्तते, तत इदं कुरु इदं च मा कापीरित्यादि पुन: पुनस्तमाज्ञापयन् शिक्षयित्वा, कमिव कः?, इत्याह-'गलिम्' उक्तरूपमश्वमिव वाहक इति सूत्रार्थः ।। गुरोः श्रमहेतुत्वमुद्भावयन् बालस्याभिसन्धिमाहमू. (३८) खड्डयाहिं चवेडाहिं, अक्कोसेहि वहेहि य। कल्लाणमनसासंतं, पावदिद्वित्ति मन्नइ ।। वृ. 'खड्डकाभिः' टक्कराभिः 'चपेटाभिः' करतलाघातेः 'आक्रोशैः' असत्यभाषणैः ‘वधैश्चः' दण्डिकादिघातैः, चशब्दादन्यैश्चैवंप्रकारैर्दुःखहेतुभिरनुशासनप्रकारैस्तमाचार्य 'कल्याणम्' इहपरलोकहितम् ‘अनुसासन्तं' शिक्षयन्तं, पापा दृष्टि:-बुद्धिरस्येति पापदृष्टिः, अयमाचार्य इति मन्यते, यथा- पापोऽयं मां हन्ति निपुणत्वात्, चारकपालकवत्, पठन्ति च'खड्डया मे' इत्यादि, अत्र व्यवच्छेदफलत्वाद्, वाक्यस्य खडकादय एव मम नापरं किञ्चित् समीहितमस्तीत्यभिसन्धिना कल्याणमनुशानस(त)माचार्यंअ पापदृष्टिं मन्यते, यद्वावाग्भिरप्यनुशास्यमानोऽसौ खड्डुकादिरूपा वाचो मन्यत इति सूत्रार्थः ।। गुरोरतिहितत्वं प्रचिकाशयिपुविनीताभिसन्धिमाहमू.(३९) पुत्तो मे भाय नाइत्ति, साहू कल्लाण मन्त्रइ। पावदिट्ठि उ अप्पाणं, सासं दासं व मन्नइ ।। वृ.पुत्रो मे भ्राता ज्ञातरिति, अत्रेवार्थस्य गम्यमानत्वात् पुत्र इवेत्यादिवुद्धाऽऽचार्यो मामनुशास्तीति साधुः' सुशिष्यः 'कल्याणं' कल्याणहेतुमाचार्यमनुशासनं वा मन्यते, स हि विवेचयति शिष्यः-सौहार्दादसौ मां शास्ति, दुविनीतत्वे हि मम किमस्य परिहीयते ?, ममैव त्वर्थभ्रंश इति। बालोऽप्येवं किं न मन्यत इत्याह-'पापदृष्टिस्तु' कुशिष्यः पुनरात्मानं 'सासं'ति प्राकृतत्वाद्धितानुशासनेनापि शास्यमानं दासमिव मन्यते, यथा असौ दासवन्मामाज्ञापयति, ततोऽस्य शास्तरि पापदृष्टिताऽभिसन्धिरेव सम्भवतीति सूत्रार्थः ॥ विनयसर्वस्वमुपदेष्टुमाहमू.(४०) नकोवए आयरियं, अप्पाणंपि न कोवए। बुद्धोवघाई न सिया, न सिया तोत्तगवेसए।। वृ. 'न कोपयेत्' न कोपोपेपं कुर्यात्, आचार्यम्, उपलक्षणत्वादपमपि विनयाहम्, 'आत्मानमपि' गुरुभिरतिपरुपभापणादिनाऽनुशिष्यमाणं न कोपयेत्, कथञ्चित् सकोपतायामपि 'बुद्धोपघाती' आचार्योपधातकृत् 'न स्यात्' न भवेत्, तथा न स्यात् तुद्यते-व्यथ्यतेऽनेनेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy