________________
५६
उत्तराध्ययन- मूलसूत्रम् - १-१ / ३२ वर्त्तते' इति वचनात्, अनेन ग्रहणपणोक्ता, किं विधाय दत्तैषणां चरेत्त ? -'प्रतिरूपेण' प्रधानेन रूपेणेति गम्यते, 'यद्वा- प्रतिप्रतिबिम्बं चिरन्तनमुनीनां यद्रूपं तेन, उभयत्र पतद्ग्रहादिधारणात्मकेन सकलान्यधार्मिकविलक्षणेन, न तु -
'वस्त्रं छत्रं छात्रं पात्रं यष्टिं च वर्जयेद् भिक्षुः । वपेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥'
इत्यादिवचनाकर्णनाद् विभूषणात्मकेनैपयित्वा, अनेन च गवेषणा विधिरुक्तः, , ग्रासैषणाविधिमाह-'मितं' परिमितमतिभोजनात् स्वाध्यायविधातादिबहुदोषसंभवात्, 'कालेन' इति'नमोक्कारेण पारिता, करिता जिनसंथवं ।
सज्झायं पट्टवित्ताणं, वीसमेज्ज खणं मुनी ॥'
इत्याद्यागमोक्त प्रस्तावेनाद्रुताविलम्बितरूपेण वा 'भक्षयेत्' भुञ्जीतेति सूत्रार्थः ॥ यत्रान्यभिक्षुकासंभवस्तत्र विधिरुक्तः, यत्र तु पुराऽऽयातान्यभिक्षुकसम्भवस्तत्र विधिमाहमू. ( ३३ ) नाइदूरे अनासन्ने, नन्नेसिं चक्खुफासओ । एगो चिट्टेज्ज भत्तट्टं, लंघित्ता तं नइक्कमे ॥
"
वृ. 'नातिदूरं' सुब्व्यत्ययात् नातिदूरे-अतिविप्रकर्षति देशे तिष्ठेदिति सम्बन्ध:, तत्र च तन्निर्गमावस्थानानवगमप्रसङ्गाद् एषणाशुद्ध्यसम्भवाच्च, तथा 'अनासन्ने' त्ति प्रस्ज्यप्रतिषेधार्थत्वात् नञो ऽनासन्ने प्रस्तावान्नातिनिकटवर्तिनि भूभागे तिष्ठेत्, तत्र पुराप्रविष्टापरभिक्षुकाप्रीतिप्रसक्तेः 'नान्येषां' भिक्षुकापेक्षया परेषां गृहस्थानां 'चक्षुः स्पर्शत' इति सप्तम्यर्थे तसिः, तत: चक्षुः स्पर्शे-दग्गोचरे चक्षुः स्पर्शगो वा दृग्गोचरगतः 'तिष्ठेत्' आसीत, किन्तु विविक्तप्रदेशस्थो यथा न गृहिणो विदन्ति, यदुत - एष भिक्षुको निष्क्रमणं प्रतीक्षतं इति, तथा 'एगो 'त्ति किम मी मम पुरतः प्रविष्टा इति तदुपरि द्वेषरहित: 'भक्तार्थं' भोजननिमित्तं, न च 'लंघित्त 'त्ति उल्लंघ्य, 'तम्' इति भिक्षुक्रम्, 'अतिक्रामेत्' प्रविशेत्, तत्रापि तदप्रीत्यपवादादिसम्भवाद् । इह च मितं कालेन भक्षयेदिति भोजनमभिधाय यत्पुनाभिक्षाटनाभिधानं तत् ग्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनभ्रमणमपि न दोषायेति ज्ञापनार्थम्, उक्तं च- “जइ तेन न'संथरे । तओ कारणमुप्पण्णे, भत्तपाणं गवेसए ।" पुनस्तद्गतविधिमेवाभिधित्सुराहमू. ( ३४ ) नाइउच्चे नाइनीए, नासन्ने नाइदूरओ।
फासुयं परकडं पिंड, पडिगाहिज्ज संजए |
वृ. 'नात्युच्चे' प्रासादोपरिभूमिकादौ नीचे वा भूमिगृहादौ, तत्र तदूत्क्षेपनिक्षेपनिरीक्षणासम्भवाद् दायकापायसम्भवाच्च, यद्वा 'नात्युच्च: ' उच्चस्थानस्थितत्वेन ऊद्धर्वीकृतकन्धरतया वा द्रव्यतो भावतस्त्वहो ! अहं लब्धिमानिति मदाध्यातमानसः, नीचो ऽत्यन्तावनतकन्धरो निम्नस्थानस्थितो वा द्रव्यतः भावतस्तु न मयाऽद्य किञ्जित् कुतोऽप्यवाप्तमिति दैन्यवान्, उभयत्र वा समुच्चये, तथा 'नासन्ने' समीपवर्तिनि 'नातिदूरे' अतिविप्रकर्षवति प्रदेशं स्थित इति गम्यते, यथायोगं जुगुप्साशंकैषणाशुद्धयसम्भवादयो दोषाः, अथवा अत एव नासन्नो नातिदूरगः, प्रगता असव इति सूत्रत्वेन मतुब्लोपादसुमन्तः - सहजसंसक्तिजन्मानो यस्मात् तत् प्रासुकं, परेण-गृहिणाऽऽत्मार्थं परार्थं वा कृतं- निर्वर्त्तितं परकृतं किं तत् ? - 'पिण्डम्' आहारं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org