SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१,[नि. ६४] 'तद्' इत्यनुशासनं भवति 'मूढानाम्' अज्ञानानां, शान्ति:-क्षमा शुद्धिः-आशयविशुद्धता तत्करणं, यद्वा-क्षान्तेः शुद्धिः-निर्मलता क्षान्तिशुद्धिस्तत्करम्, अमूढानां विशेषतः क्षान्तिहेतुत्वाद् गुर्वनुशासनस्य, मार्दवादिशुद्धिकरत्वोपलक्षणं चैतद्, अत एव पद्यते-गम्यते गुणैर्ज्ञानादिभिरिति पदं-ज्ञानादिगुणस्थानमित्यर्थः, अथवा-परुपमपीत्यपिशब्दो भिन्नक्रमः, ततश्च हितमप्यायत्यां विगतभयाद् ‘बुद्धाद्' आचार्यादेः, उत्पन्नमिति शेषः, परुषं यच्छ्रुत्यसुखदमनुशासनं, तत्किमित्याह-द्वेष्यं तद्भवति मूढानां, शेषं प्राग्वदिति सूत्रार्थः ।। पुनविनयमेवाहमू. (३०) आसने उवचिट्ठिज्जा, अनुच्चेऽकुक्कुए थिरे। अप्पुत्थाई निरुत्थाई, निसीज्जा अप्पकुक्कुई।। वृ. 'आसनं' पीठादि वर्षासु ऋतुबद्धे तु पादपुञ्छनं तत्र पीठादौ ‘उपतिष्ठेत्' उपविशेत्, 'अनुच्चे' द्रव्यतो नीचे भावतस्त्वल्पमूल्यादौ, गुर्वासनात् इति गम्यते, अकुक्कुचे' अस्पन्दमाने, न तु तिनिशफलकवत् किञ्चिच्चलति, तस्य शृङ्गाराङ्गत्वात्, 'स्थिरे' समपादप्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासम्भवात्, ईदृश्यप्यासने अल्पमुत्थातुंशीलमस्येति अल्पोत्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थानशीलः, निरुत्थायी' न निमित्तं विनोत्थानशीलः, उभयत्रान्यथाऽनवस्थितत्वसम्भवात्, एवंविधश्च किमित्याह-'निषीदेत्' आसीत, 'अप्पकुक्कुइ'त्ति अल्पस्पन्दनः, करादिभिरल्पमेव चलन्, यद्वा-अल्पशब्दोऽभावाभिधायी, ततश्चाल्पम्-असत्, कुक्कुयं'ति कौत्कुचं-करचरणभूभ्रमणाद्यसच्चेष्टात्मकमस्येत्यल्पकौत्कुचः, अनेनाप्यौपचारिकविनयः प्रकारान्तरेणोक्तं इति सूत्रार्थः ।। सम्प्रति चरणकरणविनयात्मिकामेषणासमितिमाहमू.(३१) कालेन निक्खमे भिक्खू, कालेन य पडिक्कमे। अकालं च विवज्जित्ता, काले कालं समायरे॥ वृ. कालेन'त्ति सप्तम्यर्थे तृतीया, काले प्रस्तावे 'निष्क्रामेत्' गच्छेत् भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोपसम्भवात्, तथा कालेन च 'प्रतिक्रामेत्' प्रतिनिर्वत्तेत, भिक्षाटनादिति शेपः, इदमुक्तं भवति-अलाभेऽपि अलाभोत्ति न सोइज्जा, तवोत्ति अहियासए' इति समयमनुस्मरन्, अल्पं मया लब्धं न लब्धं वेति लाभार्थी नाटन्नेव तिष्ठेत्, किमित्येवमत आह'अकालं' तत्तक्रियाया असमयं चेति, यस्माद्विपर्ययकाले प्रस्ताव प्रत्युप्रेक्षणादिसम्बन्धिनि 'कालमिति तत्तत्कालोचितं क्रियाकाण्डं समाचरेत्' कुर्यात्, अन्यथा कृषीबलकृषीक्रियाया इवाभिमतफलोपलम्भासम्भव इति गर्भार्थः, अनेन च कालनिष्क्रमणादौ हेतुरुक्तः, प्रसङ्गात् शेपक्रियाविपयतया वा नेयं, समुच्चयार्थश्च तदा चशब्द इति सूत्रार्थः ।। निर्गतश्च यत्कुर्यात्तदाहमू. (३२) परिवाडिए न चिट्ठिज्जा, भिक्खू दत्तेसनं चरे। पडिरूवेण एसित्ता, मियं कालेण भक्खए। वृ. 'परिपाटी' गृहपंक्तिः, तस्यां 'न तिष्ठेत्' न पंक्तिस्थगृहभिक्षोपादानायैकत्रावस्थितो भवति, तत्र दायकदोपाऽनवगमप्रसङ्गात्, यद्वा-पंक्तयां-भोक्तुमुपविष्टपुरुषादिसम्बन्धिन्यां न तिष्ठेत्, अप्रीत्यदृष्टकल्याणतादिदोपसम्भवात्, किञ्च ? 'भिक्षुः' यतिः, दत्तं-दानं तस्मिन् गृहिणा दीयमाने 'एपणां' तद्गतदोपान्वेषणात्मिकां 'चरेत्' आसेवेत, 'चरति: आसेवायामपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy