________________
५४
उत्तराध्ययन-मूलसूत्रम्-१-१/२६ उपलक्षणत्यादस्यान्येप्वपि नीचास्पदेषु अगारेषु' गृहेषु 'गृहसन्धिषु च' गृहद्वयान्तरालेषु च 'महापथेषु' राजमार्गादौ, किमित्याह-'एकः' असहायः एका-असहाया सा चासौ स्त्री च एकस्त्री तथा 'साद्धं' सह 'नैव तिष्ठेत्' असंलपन्नेव चोर्वस्थानस्थो न भवेत्, 'न संलपेत्' न तयैव सह संभाषं कुर्यात्, अत्यन्तदुष्टतोद्भावनपरंचैकग्रहणम्, अन्यथा ससहायास्यापि ससहायया अपि च स्त्रिया सहावस्थानं सम्भापणं चैवंविधास्तदेषु दोषायैव, प्रवचनमालिन्यादिदोषसम्भवात्, अथवा सममरिभिर्वर्तन्त इति समरा द्रव्यतो जनसंहारकारिणः संग्रामाः भावात्तु स्त्रीणामरिभूतत्वात् ज्ञानादिजीवस्वतत्त्वघातिनः तासामेव दृष्ट्वा दृष्टिसम्बन्धाः, तत्रेह भावसमरेरधिकारः, सप्तमी चेयं, ततोऽयं भावार्थ:-द्रव्यसमरा हि न स्युरपि प्राणापहारिणः, भावसमरास्तु ज्ञानादिभावप्राणापहारिण एव, विशेषतस्त्वेकाकितायां, तत एवमेतेष्वपि दारुणेषु भावसमरेषु सत्सु नैक एकस्त्रिया सार्द्धमगारादिषु तिष्ठेत् संलपेद्वा, अनेनापि चारित्रविनय एवोक्तः, उपदेशाधिकाराच्च न पौनरुक्त्यम्, एवमन्यत्रापि भावनीयमिति सूत्रार्थः । कदाचित् स्खलिते च गुरुभिः, शिक्षितो यत्कुर्यात् तदेवाहमू.(२७) जमे बुद्धानुसासंति, सीएण फरुसेण वा।
मम लाभुत्ति पेहाए, पयओ य (तं) पडिस्सणो । वृ. यन्मां बुद्धा अनुशासन्ति' शिक्षां ग्राहयन्ति 'शीतेन' सोपचारावचसा, 'शीलेन वे'ति पाठः, तत्र शीलं-महाव्रतादि उपचारात्तजनकं वचोऽपि शीलं तेन, यद्वा 'शील समाधौ' ततः शीलेन-समाधानकारिणा-भद्र! भवादृशामिदमनुचितमित्यादिना, 'परुषेण' कर्कशेन, उभयत्र वचसेति गम्यते, तत् 'प्रतिशृणुयात्' विधेयतया अङ्गीकुर्यादित्युत्तरेण सम्बन्धः, किमभिसन्धायेत्याह-मम 'लाभ:' अप्राप्तार्थप्राप्तिरूपः, यन्मामनाचारकारिणममी शासन्तीति 'पेहाएत्ति' एकारस्यालाक्षणिकत्वात् प्रेक्ष्य-आलोच्य प्रेक्षया वा एवंविधबुद्धया पयतो'त्ति प्रयतः- प्रय-- नवान्, पदतो वा-तथाविधानुस्मर्यमाणसूत्रालापकादिति सूत्रार्थः । किमिह परत्र चात्यन्तोपकारि गुरुवचनमपि कस्यचिदन्यथा सम्भवति?, येनैवमुपदिश्यते इत्याहमू. (२८) अनुसासणमोवायं, दुक्कडस्स य पेरणं।।
हियं तं मन्त्रए पन्नो, वेस्सं भवइ असाहुणो । वृ. 'अनुशासनम्' उक्तरूपम् ‘ओवाय'ति उपाये-मृदुपरुषभाषणादौ भवमौपायं, यद्वा 'ओवायंति' सूत्रत्वात् उपपतनमुपपातः-समीपभवनं तत्र भवमौपपातं-गुरुसंस्तारास्तरणविश्रामणादिकृत्यं 'दुष्कृतस्य च' कुत्सिताचरितस्य प्रेरणं-हा! किमिदमित्थमाचरितमित्याद्यात्मकं, गुरुविहितमिति गम्यते, 'हितम्' इहपरलोकोपकारि, 'तदि'त्यनुशासनादि मन्यते 'प्राज्ञः' प्रज्ञावान् ‘द्वेष्यं' द्वेपोत्पादकं भवति' जायते, कस्य?, 'असाधोः' अपगतभावसाधुत्वस्य, तदनेनासाधोर्गुरुवचनस्याप्यन्यथात्वसम्भव उक्त इति सूत्रार्थः ।। अमुमेवार्थं व्यक्तीकर्तुमाहमू.(२९) हियं विगयभया बुद्धा, फरुसमप्पनुसासनं।
वेस्सं तं होइ मूढाणं, खंतिसुद्धिकरं पयं। वृ. 'हितं' पथ्यं विगतभयाः' सप्तभयरहिताः 'बुद्धाः' अवगततत्त्वाः , मन्यन्त इति शेषः, 'परुषमपि' कर्कशमपि, अनुशासनं शिष्याणां गुरुविहितमिति प्रक्रमः, 'द्वेष्यं' द्वेषोत्पादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org