________________
अध्ययनं-१,[ नि. ६४]
"सुत्तं अत्थ च तहा हियकर निस्सेसयं च वाएइ। एसो चउव्विहो खलु सुयविनओ होइ नायव्वो ।। सुत्तं गाहेति उज्जुत्तो अत्थं च सुणावए पयत्तेणं । जं जस्स होइ जोगं परिणामगमाइ तं तु सुयं ।। निस्सेसमपरिसेसं जाव समत्तं च ताव वाएइ।
एसो सुयविनओ खलु निद्दिट्टो पुव्वसुरीहिं।।" इत्याद्यागमाभिहितस्य श्रुतविनयस्य साक्षादभिधानं, यच्च विनयं प्रादुष्करिष्यामीति प्रतिज्ञाय अन्भुट्ठाणं अंजलि' तथा 'दंसणनाणचरित्ते' इत्यादिना ग्रन्थेनेव न तस्य शुद्धस्वरूपाभिधानं, किन्तु 'निसंते सिया अमुहरी' इत्यादि लिंङन्तादिपदैरुपदेशरूपतया, तदपि प्रसङ्गत एव यथायोगमाचार्यविनयोपदर्शनपरमिति भावनीयमिति सूत्रार्थः ।। पुनः शिष्यस्य वाग्विनयमाहमू. ( २४) मुसं परिहरे भिक्खू, न य ओहारिणीं वए।
भासादोसं परिहरे, मायं च वज्जए सया॥ व. 'मृपा' इत्यसत्यं भृतनिह्नवादि 'परिहरेत्' सर्वप्रकारमपि त्यजेत, भिक्षः, 'न च' नैव 'अवधारणी' गम्यमानत्वाद् वाचं गमिष्याम एव वक्ष्याम एव इत्येवमाद्यवधारणात्मिकां वदेत्' भाषेत्, किं बहुना?, 'भापादोपम्' अशेषमपि वाग्दूषणं सावधानुमोदनादिकं परिहरेत्, न च कारणोच्छेदं विना कार्योच्छेद इत्याह-'मायां, चशब्दात् क्रोधादींश्च तद्धेतून वर्जयेत् 'सदा' सर्वकालमिति सूत्रार्थः । किञ्चमू. ( २५) नलविज्ज पुट्ठो सावजं, न निरटुं न मम्मयं ।
अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा।। वृ. 'न लपेत्' न वदेत् ‘पृष्ट' इति पर्यनुयुक्तः ‘सावा' सपापं न 'निरर्थम्' अर्थविरहितं दशदाडिमादि एष वन्ध्यासुतो यातीत्यादि वा 'न' नैव, म्रियतेऽनेन राजादिविरुद्धेनोचारितेनेति मर्म तद्गच्छति वाचकतयेति मर्मगं, वचनमिति सर्वत्र शेषः, अतिसंक्लेशोत्पादकत्वात् तस्याः,
"तहेव काणं काणत्ति, पंडगं पंडगत्ति वा। वाहियं वावि रोगित्ति, तेनं चोरोत्ति नो वए।।१।।
एएणऽत्रेण अद्वेनं, परो जेनुवहम्मई।
आयारभावदोसन्नू न तं भासेज्ज पनवं ॥२॥" । 'आत्मार्थम्' आत्मप्रयोजनं 'परार्थं वा' परप्रयोजनम् 'उभयस्स'त्ति आत्मनः परस्य च, प्रयोजनमिति गम्यते, अंतरेण वत्ति विना वा प्रयोजनमित्युपस्कारः, भाषादोषं परिहरेदित्यनेनैव गते पृष्टविषयत्वादस्यापोनरुक्त्वं, यद्वा भाषादोषो जकारमकारदिरेव तत्र गृह्यत इति न दोषः, सूत्रद्वयेन चानेन वाग्गप्त्यभिधानतश्चारित्रविनय उक्त इति सूत्रार्थः ।। इत्थं स्वगतदोषपरिहार-मभिधायोपाधिकृतदोषपरिहारमाहमू.(२६) समरेसु अगारेसुं, गिहसंधिसु अ महापहेसु।
एगो एगित्थीए सद्धिं, नेव चिट्ठे न संलवे॥ वृ. 'समरेषु' स्वरकुटीषु, तथा च चूर्णिकृत्-‘समरं नाम जत्थ हेट्ठा लोयारा कम्मं करेंति'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org