________________
उत्तराध्ययन-मूलसूत्रम्-१-१/२० गुरुवदनमलयनिसृतो वचनरसश्चन्दनस्पर्शः ।।" इति प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति गुरव इति प्रेक्षितुम्-आलोचित्तुं शीलमस्येति प्रसादप्रेक्षी, पाठान्तरतः 'प्रसादार्थी' वा गुरुपरितोषाभिलाषी'नियागट्ठी'त्ति पूर्ववत्, 'उपतिष्ठेत' मस्तकेनाभिवन्द इत्यादि वदन् सविनयमुपसर्पेत्, गुरुं 'सदा' सर्वकालमिति । मू.(२१) आलवंते लवंते वा, न निसीज्जा कयाइवि।
चइत्ता आसनं धीरो, जओ जत्तं पडिस्सुणे॥ वृ.आिित ईषल्लपति-वदति 'लपति वा' वारं वारमनेकधा वाऽभिदधति 'न निषीदेत्' ननिषनो भवेत्, 'कदाचिदपि' व्याख्यानादिना व्याकुलतायामपि, किन्तु?-'त्यक्त्वा' अपहाय 'आसनं' पादपुञ्छनादि, धिया राजते धीरः, अक्षोभयो वा परीषहादिभिः, 'यत' इति यतो यत्नवान् 'जत्तं' ति प्राकृतत्वाद्विन्दुलेपि तस्य च द्वित्वे यद्गुरव आदिशन्ति तत् 'प्रतिशृणुयात्' अवश्यविधेयतया अभ्युपगच्छेदितियावत्, यद्वा यत इति यत्र गुरवः, तत्र गत्वेति गम्यते, 'यात्रां' संयमायात्रां प्रस्तावाद् गुरूपदिष्टां प्रतिशृणुयादिति सूत्रार्थः ।। पुनः प्रतिरूपविनयमेवाऽऽहमू.(२२) आसनगओ न पुच्छिज्जा, नेव सिज्जागओ कया।
आगम्मुक्कुड्डओ संतो, पुच्छिज्जा पंजलीगडे। वृ. 'आसनगतः' इति आसनासीतो न पृच्छेत्, सूत्रादिकमिति गम्यते, नैव 'शय्यागत' इति संस्तारकस्थितः, तथाविधावस्थां विनेत्युपस्कारः, कदाचिदपि' बहुश्रुतत्वेऽपि, किमुक्तं भवति?-बहुश्रुतेनापि संशये सति न न प्रष्टव्यं, पृच्छताऽपि नावज्ञया, सदा गुरुविनयस्यानतिक्रमणीयत्वात्, तथा चाऽऽगमः
"जहाहिअग्गी जलणं नमसे, नानाहुईमंतपयाहिसित्तं ।
__ एवायरियं उवचिट्ठएज्जा, अनंतनाणोवगओऽवि संतो॥" किं तर्हि कुर्यादित्याह-'आगम्य' गुर्वन्तिकमेत्य 'उत्कुटुक' इति मुक्तासनः, कारणतो वा पादपुञ्छनादिगतः सन् शान्तो वा 'पृच्छेत्' पर्यनुयुञ्जीत, सूत्रादिकमितीहापि गम्यते, प्रकपेण-अन्तःप्रीत्यात्मकेन कृतो-विहितोऽञ्जलिः-उभयकरमीलनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच्च कृतशब्दस्य परनिपातः, 'पंजलिउड'त्ति पाठे च प्रकृष्टं-भावान्विततयाऽअलिपुटमस्येति प्राञ्जलिपुट इति सूत्रार्थः ।। ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाहमू. (२३) एवं विनयजुत्तस्स, सुत्तं अत्थं तदुभयं।
पुच्छमाणस्स सिस्सस्स, वागरिज्ज जहासुयं। वृ.' एवम्' इत्युक्तप्रकारेण 'विनययुक्तस्य' विनयान्वितस्य् 'सूत्रं' कालिकोत्कालिकादि 'अर्थं च' तस्यैवाभिधेयं तदुभयं' सूत्रार्थोभयं पृच्छतः' जीप्सतः 'शिष्यस्य' स्वयंदीक्षितस्योपसम्पन्नस्य वा व्यागृणीयात्' विविधमभिव्याप्त्याऽभिदध्यात्व्याकुर्याद्वा प्रकटयेत्, यथा-- येन प्रकारेण श्रुतम्-आकर्णितं, गुरुभ्य इति गम्यते, न तु स्वबुद्धैवोत्प्रेक्षितमित्यभिप्रायः,
"आयारे सुयविनए विक्खिवणे चेव होइ वोद्धव्वे ।
दोसस्स य निग्घाए विनए चउहेस पडिवत्ती॥" इत्यागमाभिहितचतुर्विधाचार्यविनयान्तर्गतस्य -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org