________________
अध्ययनं-१,[नि. ६४]
वृ. प्रत्यनीकम्' इति प्रतिकूलं, च: पूरणे, चेष्टितमित्युपरस्कारः; भावप्रधानत्वाद्वा निर्देशस्य प्रत्यनीकत्वं, केपाम्? - 'बुद्धानाम्' अवगतवस्तुतत्त्वानां गुरूणामितियावत्, कया? -वाचा, कि त्वमपि किञ्चिज्जानीपे? इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयेवेतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा 'कर्मणा' संस्तारकातिक्रमणकरचरणसंस्पर्शनादिना 'आविः' जनसमक्ष प्रकाशदेश इतियावत्, यदिवा 'रहस्ये' विविक्तोपाश्रयादौ 'न' इति निषेधे 'एवः' अवधारणे, स च 'शत्रोरपि गुणा ग्राह्याः, दोपा वाच्या गुरोरपि'ति कुमतनिराकरणार्थः, 'कुर्यात्' इति विदध्यात्, कदाचित्' परुपभाषणादावपि इति । पुनः शुश्रूषणात्मकं तमेवाहमू. (१८) न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ।
न जुंजे उरुणा ऊरं, सयणे न पडिस्सुणे॥ वृ.'न पक्षतः' दक्षिणादिपक्षमाश्रित्य, उपविशेदिति सर्वत्रोपस्कारः, तथोपवेशने तत्पंक्तिसमावेशतः तत्माम्यापादनेनाविनयभावात्, गुरोरपि वक्रावलोकने स्कन्धकन्धरादिबाधासम्भवात्, न 'पुरतः' अग्रतः, तत्र वन्दकजनस्य गुरुवदनानलोकनादिनाऽप्रीतिभावात्, ‘नैव' इति पूर्ववत्, कृतिः-वन्दकं तदर्हन्ति कृत्या: 'दण्डादित्वाद् यप्रत्ययः' ते चार्थादाचार्यादयस्तेषां पृष्ठतः' पृष्ठदेशमाश्रित्य, द्वयोरपि मुखादर्शने तथाविधरसवत्ताऽभावादिदोषसंभवात्, 'न युज्यात्' न संघट्टयेद् अत्यासनोपवेशादिभिः, 'उरुणा' आत्मीयेन, 'उरुं' कृत्यसम्बन्धिनं, तथाकरणेऽत्यन्ताविनयसम्भवात्, उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहास्य, 'शयने' शय्यायां शयित आसीनो वेति शेषः, किमित्याह-न प्रतिशृणुयात्, किमुक्तं भवति ?-कदाचिच्छय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति न तथास्थित एवावज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयत्, किन्तु गुरवचनसमनन्तरमेव सम्भ्रान्तचेता विनयविरचितकराञ्जालिः समीपमागत्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवनिच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः॥ मू.(१९) नेव पहत्थियं कुज्जा, पक्खपिंडं व संजए।
पाए पसारिए वावि, न चिढे गुरुनंतिए। वृ. नैव पर्यस्तिकां' जानुजंघोपरिवस्त्रवेष्टनाऽऽत्मिकां कुर्यात् ‘पक्षपिण्डं वा' बाहुद्वयकायपिण्डात्मकं, 'संयतः' साधुः, तथा पादौ प्रसारयेत् वाऽपि नैव, वा समुच्चयार्थः, अपिः किं पुनरित इतो विक्षिपेदिति निदर्शनार्थः, अन्यच्च-'नतिष्ठेत्' नाऽऽसीत, क्व?, गुरूणामन्तिके इति, प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्यथाऽविनयदोषसम्भवात्, अथवा 'पाए पसारिए वावि'त्ति पाठात्, पादौ प्रसारितौ वाऽपि, कृत्वेति शेषः, एकारस्यालाक्षाणिकत्वात् प्रसार्य वा न तिष्ठेद्गुरुणामन्तिके उचितप्रदेशेऽपीति, उपलक्षणं चैतद्दण्डपादिकाऽवष्टम्भादीनामिति सूत्रार्थः ।। पुनः प्रतिश्रवणविधिमेव सविशेपमाहमू. (२०) आयरिएहिं वाहितो, तुसिणीओ न कयाइवि।
पसायट्ठी नियागट्टी, उवचिट्ठ गुरुं सय॥ वृ. आचार्यैः' उपलक्षणत्वादुपाध्यायादिभिः 'वाहितो'त्ति व्याहृतः-शब्दितः 'तुसिणीओ'त्ति तूष्णीक: तूष्णीशीलः, न कदाचिकपि' ग्लानाद्यावस्थायामपि, भवेदिति गम्यते, किन्तु
"धन्यस्योपरिनिपतत्यहितसमाचरणधर्मनिर्वापी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org