________________
४६
उत्तराध्ययन- मूलसूत्रम् - १-१ / ९ सहनात्मिकां 'सेवेत' भजेत, पण्डाबुद्धिः सा सञ्जाताऽस्येति पण्डितः, तथा 'क्षुद्रैः' बालैः शीलहीनैर्वा पार्श्वस्थादिभिः 'सह' समं 'संसिग्गं' ति प्राकृततत्वात्संसर्ग, हसनं हासस्तं, क्रीडां च अन्ताक्षरिकाप्रहेलिकादानादिजनितां च 'वर्जयेत्' परिहरेत् सर्वेषामप्येषा विशिष्टशिक्षाक्षितिहेतुत्वात् लोकागमविरुद्धत्वाच्चेति सूत्रार्थः ॥ पुनरन्यथा विनयमाहमाय चंडालियं कासी, बहुयं मा य आलवे । कालेन य अहिज्जित्ता, तत्तो झाइज्ज इक्कओ ॥
मू. (१०)
,
वृ. 'मा' निषेधे 'च: ' समुच्चये, चण्डः क्रोधस्तद्वशादलीकम् - अनृतभाषणं चण्डालीकं,.. भयालीकाद्युपलक्षणमेतत्, यद्वा- चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, स चातिक्रूरत्वाच्चडालजातिस्तस्मिन् भवं चाण्डालिकं कर्मेति गम्यते, अथवा अचण्ड ! सौम्य ! अलीकम्-अन्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमं चेति गम्यते, 'माकार्षीः ' मा विधा:, भगवदुद्दिष्टतिलोत्पाटकस्वेच्छालापिगोशालकवत्, बह्वेव बहुकम् - अपरिमित मालजालरूपं ' मा च' इति प्राग्वत्, आङिति - स्त्र्यादिकथाऽभिव्याप्त्या लपेत्-भाषेत, बह्वालापनात् ध्यानाध्ययनक्षितिवातक्षोभादिसम्भवात्, किं पुनः कुर्यादित्याह - कालः अध्ययनाद्यवसरः प्रथमपौरुष्यादिस्तेन, 'च: ' पुनरर्थे, 'अधीत्य' पठित्वा, प्रच्छनाद्युपलक्षणमेतत्, 'ततः ' अध्ययनात्, अनन्तरमिति गम्यते, 'ध्यायेत्' चिन्तयेत्, 'एकक' इति भावतो रागद्वेषादिसाहित्यरहितः, द्रव्यतस्तु विविक्तशय्यादिसंस्थः, इत्थं हि चाण्डालिककरणाद्यनुत्थानमधीतार्थस्थिरीकरणं च कृतं भवतीति भावः ।
-
इह च पादत्रयेण साक्षाद्वाग्गुतिरुक्ता, ध्यायेदित्यनेन मनोगुप्तिः, आद्यपादोत्तरव्याख्यानद्वयेन तु कायगुप्तिरपि, एताश्च चारित्रान्तर्गता एव, यदुक्तम्
"पणिहाणजोगजुत्तो पंचहि समितीहि तिहिं गुत्तीहि ।
एस चरित्तायारो अट्ठविहो होइ नायव्वो ।"
न च चारित्राचारस्तत्त्वतश्चरित्रविनयादतिरिच्यते इति देशतस्तस्याप्यनेनाभिधानमिति सूत्रार्थः इत्थमकृत्यनिषेधः कृत्यविधिश्चोपदिष्टः, कदाचिदेतद्विपर्ययसम्भवे च किं करणीयमित्याहमू. ( ११ ) आहच्च चंडालियं कट्टु, न निन्हविज्ज कण्हुइ । कडं कडंति भासिज्जा, अकडं नो कडंति ॥
वृ. ‘आहत्य' कदाचित् चण्डालीकं च चाण्डालिकं चोक्तरूपं यद्वा चण्डश्चालीकं च चण्डालीकं 'कृत्वा' विधाय 'न निन्हुवीत' न कृतमेवेति नापलपेत्, कदाचिदपि, यदा परैरुपलक्षितो यदा वा नोपलक्षितस्तदापीत्यर्थः, किं तर्हि कुर्यादित्याह-'कृतं' विहितं चाण्डालिकादि 'कृतमिति' इति कृतमेव, न भयलज्जादिभिरकृतमपि 'भाषेत' ब्रूयात्, 'अकृतं' तदेवाविहितं 'नो कृतमिति' अकृतामेव भाषेत, न तु मायोपरोधादिना कृतमपि, अन्यथा मृषावादादिदोषासम्भवात्, उपलक्षणत्वाच्चास्य बह्वनालपनकालाध्ययनादिविपर्यसम्भवेऽप्येतदेव कृत्यम्, इदं चात्राकृत-कथञ्चिदतिचारसम्भवे लज्जाद्यकुर्वन् स्वयं गुरुसमीपमागत्य"जह बालो जंपतो कज्जम कज्जं च उज्जुयं भणति । तं तह आलोएज्जा मायामयविप्पमुक्को उ ॥"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org