________________
अध्ययनं -१, [ नि. ६३ ]
४५
बुद्धउत्ते नियागट्ठी, न निक्कसिज्जइ कण्हुइ ॥
-
वृ. ' तस्माद्' इति यस्मादविनयदोषदर्शनादात्मा विनये स्थापनीयस्तस्मात् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां पर्यवसितवृत्त्या वा कुर्यात्, एवं ह्यात्मा विनये स्थाप्यत इति, किं पुनरस्य विनयस्य फलं ?, येनैवमत्रात्मनोऽवस्थापनमुद्दिश्यत इत्याशंक्याह - 'शीलम्' उक्तरूपं 'प्रतिलभेत' प्राप्नुयात् 'यत' इति विनयात्, अनेन विनयस्य शीलावाप्तिः फलमुक्तम्, अस्यापि किं फलमित्याह- बुद्धैः - अवगततत्त्वैस्तीर्थकरादिभिरुक्तम्- अभिहितं, तच्च तन्निजमेव निजकं च - ज्ञानादि तस्यैव बुद्धैरात्मीयत्वेन तत्त्वत उक्तत्वात्, बुद्धोक्तनिजकं, तदर्थयतेअभिलषतीत्येवंशीलः बुद्धोक्तनिजकार्थी सन्, पठन्ति च - 'बुद्धवुत्ते नियागट्ठित्ति' उक्तरूपैर्व्युक्तो-विशेषेणाभिहितः, स च द्वादशाङ्गरूप आगमस्तस्मिन् स्थित इति गम्यते, यद्वा बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, 'पुत्ता य सीसा य समं विहित्ता' इति वचनात्, स्वरूपविशेषणमेतत्, नितरां यजनं यागः -पूजा यस्मिन् सोऽयं नियोगो-मोक्षः, तत्रैव नितरां पूजासम्भवात्, तदर्थी सन्, किमित्याह- 'न निष्काश्यते' न बहिष्क्रियते, कुतश्चिद् गच्छगणादेः, किन्तु विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्य एव क्रियते इति भाव:, इति सूत्रार्थः ॥ निसंते सिया अमुहर, बुद्धाणमंतिए सया । अट्ठजुत्ताणि सिक्खिज्जा, निरट्ठाणि उ वज्जए ।
मू. ( ८ )
वृ. नितराम् - अतिशयेन शान्तः- उपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः ‘स्याद्' भवेत्, तथा 'अमुखारिः ' प्राग्वत् अमुखरो वा सन् 'बुद्धानाम्' आचार्यादीनाम् 'अन्तिके' समीपे, न तु विनयभीत्याऽन्यथैव 'सदा' सर्वकालमर्यते-गम्यत इति अर्थ:, अर्तेरौ - णादिकस्थन् स च हेय उपादेयश्चोभयस्याप्यर्य्यमाणत्वात् तेन युक्तानि - अन्वितानि अर्थयुक्तानि तानि च हेयोपादेय याभिधायकानि, अर्थादागमवचांसि यद्वा-मुमुक्षुभिरर्थ्यमानत्वादर्थो - मोक्षस्तत्र युक्तानि - उपायतया सङ्गतानि अर्थं वा अभिधेयमाश्रित्य युक्तानियतियोजनोचितानि 'शिक्षेत' अभ्यस्येत्, प्रपञ्चितज्ञविनेयानुग्रहाय व्यतिरेकत आह-‘निरर्थकानि' उक्तविपरीतानि डित्थडवित्थादीनि, यद्वा वैश्यिकवात्स्यायनादीनि स्त्रीकथादीनि वा 'तुः' पुनरर्थे 'वर्जयेत्' परिहरेत्, इह च निशान्त इत्यनेन प्रशमादीनामुपलक्षितत्वात् तेषां च दर्शनाविनाभावित्वाद् दर्शनस्य च जिनोक्तभाव श्रद्धानरूपत्वात् तस्यैव दर्शनविनयत्वात्, अर्थतो दर्शनविनयो दर्शितः, उक्तं हि प्राक्
-
"दव्वाण सव्वभावा उवइट्ठा जे जहा जिणिंदेहिं । तं तह सद्दहइ नरो दंसणविनओ हवति तम्हा || "
शेषेण तु श्रुतज्ञानशिक्षाऽभिधायिना ज्ञानदर्शन (ज्ञान) विनय उक्तः, तत्स्वरूपमाह - "नाणं सिक्ख नाणं गुणेइ नाणेन" त्ति सूत्रार्थः ॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहअनुसासिओ न कुप्पिज्जा, खंतिं सेवेज्ज पंडिए ।
मू. ( ९ )
बालेहिं सह संसगिंग, हासं कीडं च वज्जए ॥
वृ. 'अनुशिष्ट' इति अर्थयुक्तानि शिक्ष्यमाणः कथञ्चित् स्खलितादिषु गुरुभिः, परुषोक्त्याऽपि शिक्षितः ‘न कुप्येत्' न कोपं गच्छेत्, किं तर्हि कुर्यादित्याह - ' क्षान्ति' परुषभाषणादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org