________________
अध्ययनं-१,[नि. ६३]
.४७ इत्याद्यागममनुस्मरन् कथञ्चित् परैः प्रतीतमप्रतीतं वा मनःशल्यं यथावदालोचयेत्, ततश्चानेन्तरतपोऽन्तर्गताऽऽलोचनाख्याप्रायश्चित्तभेदाभिधानम्, अनेन चशेषतपोभेदानामप्युलक्षितत्वात् तपोविनयमाह इति सूत्रार्थः । इहैवं पुनः पुनरुपदेशश्रवणाद् यदैव गुरोरुपदेशस्तदैव प्रवर्तितव्यं निवर्तयितव्यं चेति स्यादाशङ्का, तदपनोदायाह. मू.(१२) मा गलियस्सेव कसं, वयणमिच्छे पुनो पुनो।
कसं व दट्टमाइन्ने, पावगं परिवज्जए॥ वृ. 'मा' निषेधे, गलि:-अविनीतः, स चासावश्वश्च गल्यश्चः स इव, कशतीति कशस्तम्, उपलक्षणत्वात् कशप्रहारं, 'वचनं' प्रवृत्तिनिवृत्तिविषयमुपदेशं, प्रस्तावाद्गुरूणाम्, 'इच्छेत्' . अभिलषेत्, 'पुनः पुनः' वारं वारं, कोऽभिप्रायः?-यथा गल्यश्चो दुविनीततया न पुनः पुनः कशप्रहारु विना प्रवर्तते निवर्तते वा, नैवं भवताऽपि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्षणीयं, किन्तु 'कसं व दट्टमाइन्ने'त्ति इवशब्दस्य भिन्नक्रमत्वात् कशं-चर्मयष्टिं दष्ट्वाऽऽकीर्णो-विनीतः, स चेह प्रस्तावादश्चः, स इव, सूचकत्वात् सूत्रस्य, सुशिष्यो गुरोराकारादि दृष्टवा, पापमेव पापकं,गम्यनमानत्वादनुष्ठानं परिवर्जयेत् सर्वप्रकारंपरिहरेत, उपलक्षणत्वादितरच्चानुतिष्ठेत, पठन्ति च-पावगं पडिवज्जइ'त्ति तत्र च पुनातीति पावकं-शुभमनुष्ठानं 'प्रतिपद्येत' अङ्गीकुर्यात्, इहापि प्राग्वदितरत्, परिहरेत्, किमुक्तं भवति ?, यथाऽऽकीर्णोऽश्च: कशग्रहणादिनाऽऽरोहकाभिप्रायमुपलभ्य कशेनाताडित एव तदभिप्रायानुरूपं प्रवर्तते निवर्तते वा, तथा सुशिष्येणा(ष्योऽ)प्याकारादिभिराचाशियमवगम्य, वचनेनाप्रेरित एव प्रवर्तते, मा भूदन्यथाऽऽरोहकस्येवगुरोरायास इति सूत्रार्थः ।। अत्रच नियुक्तिकृत् गल्याकीर्णो व्याचि- . ख्यासुः 'तत्त्वभेदपर्यायैर्व्याख्या' इति तत्पर्यायानाह.नि.[६४] गंडी गली मराली अस्से गोणे य हुंति एगट्ठा।
आइन्ने य विनीए य भद्दए वावि एगट्ठा ।। . गच्छति प्रेरितः प्रतिपथादिना डीयते च कूर्दमानो विहायोगमनेनेति गण्डिः, गिलत्येव केवलं न तु वहति गच्छति वेति गलिः, म्रियत इव शकटादौ योजितो राति च-ददाति लत्तादि लीयते च भुवि पतनेनेति मरालिः, अमी च अश्वे' तुरगे 'गोणे च' बलीवः भवन्ति एकार्थाः' एकोऽर्थो-दुष्टतालक्षणः अनन्तरोक्तनीत्या प्रवृत्तिनिमित्तभेदेऽप्यमीषामितिकृत्वा। 'आकीर्यते' व्याप्यते विनयादिभिर्गुणैरिति आकीर्णः, 'च:' पूरणे, विशेषेणनीत:-प्रापितः प्रेरकचित्तानुवर्तनादिभिः, श्लाघादीति विनीतः, भाति-शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिर्वृतिमिति भद्रः स एव भद्रकः, चशब्द इहाप्यश्वे गोणे चेति विषयानुवृत्त्यर्थः, अपिशब्द इह पूर्वत्र चानुक्तपर्यायान्तरसमुच्चयार्थः, एकार्था' इति प्राग्वदिति गाथार्थः॥नचैवंगल्याकीर्णतुल्यशिष्ययोर्गुरोरायासजननाजनने एवगुणदोषौ, किन्तु गलिसदृशस्यानाश्रवत्वादेराकीर्णतुल्यस्य चित्तानुगतत्वादेः सम्भव इति तद्वशतः कोपनप्रसादने अपि, अत एवाह- मू.(१३) अनासवा थूलवया कुसीला मिउंपि चंडं पकरंति सीसा।
चित्तानुया लहु दक्खोववेया पसायए ते हु दुरासयंपि। - वृ.'अनासव'त्ति आ-समन्तात् शृण्वन्ति-गुरुवचनमार्णयन्तीत्याश्रवा न तथा प्रतिभासा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org