SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१,[नि. ५३] योगोऽपि मिश्रः, स एव मिश्रको योगः, प्रक्रमात् सम्बन्धनसंयोगो ज्ञेय इति शेषः, ते च पञ्चदश संयोगा औदयिकममुञ्चता औपशमिकादिपञ्चकस्य द्विकत्रिकचतुष्कपञ्चकसंयोगतः कार्याः, तत्र चत्वारो द्विकसंयोगाः षट् त्रिकसंयोगाश्चत्वारश्चतुष्कसंयोगा एकः पञ्चकसंयोग एते च मीलिता: पञ्चदश, भावना तु वक्ष्यमाणेति गाथार्थः ।। पुनरात्मसंयोगादीनेव प्रकारान्तरेणाभिधित्सुः प्रस्तावनामाहनि.[५४] बीओऽवि य आएसो अत्ताणे बाहिरे तदुभए य। संजोगो खलु भणिओ तं कित्तेऽहं समासेणं ॥ वृ. द्वितीयोऽपि च न केवलमेक एव इत्यपि शब्दार्थः, चः पूरणेः 'आदेशः' प्रकार:, प्रस्तावत्, प्ररूपणीयः, कीदृश इत्याह-आत्मनि बाह्ये तदुभयस्मिंश्च, संयोग इति सम्बन्धनसंयोगः, 'खलु' निश्चित भणित' उक्तो, गणधरादिभिरिति गम्यते, अनेन च गुरुपारतन्त्रयमाविष्करोति. 'तम' इति द्वितीयमादेशं 'कीर्तये' संशब्दये' वर्तमानसामीप्ये वर्तमानवद्वे' ति भविष्यत्सामीप्ये लट्, 'अहम्' इत्यात्मनिर्देशः, 'समासेन' संक्षेपेणेति गाथार्थः ।। तत्र तावदात्मसंयोगमाहनि.[५५] - ओदइय ओवसमिए खइए य तहा खओवसमिए य । परिणामसन्त्रिवाए अछव्विहो अत्तसंजोगो॥ वृ. 'औदयिके' औदयिकविषये, एवम् औपशमिके च क्षायिके तथा क्षायोपशमिके च परिणामसन्निपाते च, सर्वत्र संयोग इति प्रक्रमः, तत एष षड्विधः' षड्भेदः आत्मभिः,आत्मरूपैः संयोग इति सम्बन्धनसंयोगउ आत्मसंयोगः, न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपि तु द्वाभ्यां त्रिभिश्चतुभिः, पञ्चभिर्वा, तत्र द्वाभ्यां क्षायिकेण सम्यक्त्वेन ज्ञानेन वा पारिणामिकेन च जीवत्वेन, त्रिभिरौदयिकेन देवगत्यादिना क्षायोपशमिकेन मत्यादिना पारिणामिकेन च जीवत्वेन, चर्चिस्त्रिभिरे(वमे) व चतुर्थेनौपशमिकेन क्षायिकेण वा सम्यक्त्वेन, पञ्चभिर्यदा क्षायिकसम्यग्दृष्टिरेवोपशमश्रेणिमारोहति तदौदयिकेन मनुष्यत्वेन क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिकेन चारित्रेण पारिणामिकेन जीवत्वेनेति, अत्र च त्रिकभङ्गक एक: चतुष्कभङ्गौ च द्वावेते त्रयोऽपि गतिचतुष्टयभाविन इति गतिचतुष्टयेन भिद्यमाना द्वादश भवन्ति, उक्तं च "ओदइय खओवसमो तइओ पुण पारिणामिओ भावो। एसो पढमवियप्पो देवाणं होइ नायव्वो ॥१॥ ओदइय खओवसमो ओवसमिपारिणामिओ बीओ। उदइयखइपारिणामियखओवसमो भवे तइओ॥२॥ एए चेव वियप्पा नरतिरिणरएस हंति बोद्धव्वा। एए सव्वे मिलिया बारस होंती भवे भेया॥३॥" पञ्चभिर्मनुष्यस्यैव, तस्यैव तथोपशमश्रेण्यारम्भकत्वात्, तस्यामेव चतत्सम्भवात्, तथा चाह "ओदइए ओवसमिए खओवसमिए खए य परिणामे। उवसमसेटिंगयस्सा एस वियप्पो मुणेयव्वो॥" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy