SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-१-१/१ अन्यथाऽपि च त्रिभिः सम्भवति, तद्यथा-औदयिकेन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयं च केवलिनाम्, उक्तं हि-"उदइयखइयप्परिणामिय भावा होंति केवलीणं तु" प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि-“खाइय तह परिणामा सिद्धाणं होंति नायव्वा" एवं चैते पञ्चकत्रिकद्विकसंयोगभङ्गास्त्रयः पूर्वे च द्वादशेति मीलिताः पञ्चदश सम्भवन्ति, एत एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते, तथा चाहुः . "एए संजोएणं भावा पन्नरस होति नायव्वा। केवलिसिद्धवसमसेढिएसु सव्वासु य गईसु॥" आह-एवं सान्निपातिकेनैवात्मनः सदा संयोगसम्भवात् कथं षड्विधत्वमात्मसंयोगस्य?, उच्यते, सहभावित्येऽपि भावनां यदैकस्य प्राधान्यं विवक्ष्यते तदैकेनाप्यात्मसंयोगसम्भव इत्यदोष इति गाथार्थः ।। बाह्यसम्बन्धनसंयोगमाहनि.[५६] नामंमि अखित्तंमि अ नायव्वो बाहिरो य(उ) संजोगो। कालेन बाहिरो खलु मीसोऽवि य तदुभए होइ।। वृ. 'नाम्ना' वस्त्वभिधायिध्वनिस्वभावेन, चकारात् द्रव्येण क्षेत्रेण चाकाशदेशात्मकेन, प्राकृतत्वात्, तृतीयार्थे सप्तमी, प्रकृतत्वात् संयोगः, किमित्याह-ज्ञातव्यः बाह्यविषयत्वाद्, 'बाह्यः' तुः पुनरर्थः 'संयोग' इति सम्बन्धनसंयोगः, कालेन' इति चस्य गम्यमानत्वात् कालेन च समयाऽऽवलिकादिना, तत एव संयोगो-बाह्यसम्बन्धनसंयोगः 'खलु' निश्चितं, ज्ञातव्य इति योज्यम्, इदमिहैदम्पर्यम्-यः पुरुषादेर्देवदत्तानाम्ना सम्बन्धोऽयं देवदत्त इत्यादिः द्रव्येण चदण्डीत्यादिः क्षेत्रेणारण्यजो नगरज इत्यादि कालेन दिनजो रजनिज इत्यादि, ससर्वो नामादिभिर्बाद्यैरेवेति बाह्यः सम्बन्धनसंयोगः, भावेन तु संयोग आत्मसंयोगत्वेनोक्त एव, भवितुरनन्यत्वात्, भावस्य, अन्यथा तस्याभावत्वप्रसङ्ग इतीह तस्यानभिधानं, तथा कालेन बाह्य इति चभिन्नवाक्यताकरणं केषाञ्चिन्मतेन कालस्यासत्त्वख्यापनार्थं, यद्वा नाम्नि क्षेत्र इति च विषयसप्तम्येव, यो हि येन सह भवति स तद्विषय एवेतिकृत्वा। __ आह-नाम्नोऽप्यभिलापत्वात् तद्विषयोऽपि संयोगोऽभिलापसंयोगः, सचोक्त एवेति कथं न पौनरुक्त्यम्?, उच्यते, अभिलापसामान्यविषयोऽभिलापसंयोगः, अयं तु सम्बन्धनसंयोगस्य प्रकृतत्वात् तस्य च सकषायजीवसम्बन्धित्वात्, वक्ष्यति हि-"संबंधणसंजोगो कसायबहुलस्य होइ जीवस्स" त्ति, कस्यचिन्नाम्न्यप्यभिष्वङ्गसम्भवादभिष्वङ्गहेत्वभिलापविषय एवेति न पौनरुक्त्यं, 'मीसोऽविय'त्ति 'अपिः' पुनरर्थे, 'चः' पूरणे, ततो मिश्रविषयत्वान्मिश्रः सम्बन्धसंयोगः पुनर्जातव्यः, यः कीदृगित्याह-'तदुभए'त्ति प्राग्वत्तदुभयेन-आत्मबाह्यलक्षणेन तदुभयस्मिन् वोक्तरूप एव भवति, यः संयोग इति शेषः, यथा-क्रोधी देवदत्तः क्रोधी कौन्तिको मानी सौराष्ट्रः क्रोधी वासन्तिकः, अत्र क्रोधादिभिरौदयिकभावान्तर्गतत्वेनात्मरूपैर्नामादिभिस्त्वात्मनोऽन्यत्वेन बाह्यरूपैः संयोग इत्युभयसम्बन्धनसंयोग उच्यते। - नन्वेवं न कदाचिन्नामादिविकलैरौदयिकादिभिरौदयिकादिरहितैर्या-नामादिभिरात्मनः संयोग इति सर्वदोभयसम्बन्धनसंयोग एव प्राप्तः, सत्यमेतत्, किन्तु वक्तुरभिप्रायवैचित्र्यात्कदाचिदौदयिकादिभिः कदाचिन्नामादिभिः कदाचित्तदुभयेन संयोगविवक्षेति नात्मपरोभय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy