________________
उत्तराध्ययन-मूलसूत्रम्-१-१/१ वृ. यः सानिपातिकः 'खलु' वाक्यालङ्कारे भावः 'उदयेन' औदयिकभावेन 'वर्जितः' रहितो भवति, एकादश-एकादशसङ्ख्याः संयोगा-द्वयादिमीलनात्मका यस्मिन् स एकादशसंयोगः, सूचकत्वात् सूत्रस्यैतद्विषयो यः संयोगः, एषोऽपि, न केवलमौपशमिकादिसंयोग इत्यपिशब्दार्थः, 'चः' पूरणे, ‘आत्मसंयोग:' प्राग्वदात्मार्पितसंयोगः, एकादशसंयोगाश्चैवं भवन्ति-औपशमिकक्षायिकक्षायोपशमिकपारिणामिकानां चतुण्ाँ षट् द्विकसंयोगाश्चत्वारस्त्रिकसंयोगा एकश्चतुष्कसंयोगः, एते च मीलिता एकादशेति गाथार्थः ।।
बाह्यापितसम्बधनसंयोगमाहनि.[५२] लेसा कसायवेयण वेओ अन्नाणमिच्छ मीसं च।
जावइया ओदइया सव्वो सो बाहिरो जोगो॥ वृ. लेश्या' लेश्याध्ययनेऽभिधास्यमानाः, कषायाश्च वक्ष्यमाणाः 'वेदना' च सातासातानुभवात्मिका कषायवेदनं, प्राकृतत्वाद्विन्दुलोपः, 'वेदः' पुंस्त्युभयाभिलाषाभिव्यङ्ग्यः, मिथ्यात्वोदयवतामसदध्यवसायात्मकं सत् ज्ञानमप्यज्ञानम्, उक्तं हि
"जह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए।
भन्नइ तह नाणंपि हु मिच्छद्दिट्ठिस्स अन्नाणं ।।" अत एव मिथ्यात्वोदयभावित्वादस्यौदयिकत्वं, तद्दलिकेषु चार्पितत्वविवक्षया बाह्यार्पितत्वमिति भावीनयं, 'मिथ्ये'ति भावप्रधानत्वानिर्देशस्य मिथ्यात्वम्,-अशुद्धिदलिकस्वरूपं, 'मिश्रं' शुद्धाशुदधदलिकस्वभावं, चशब्दः शेषौदयिकभेदसमुच्चये, अत एवोपसंहारमाह'यावन्तो' यत्परिणामा औदयिकाः, भावा इति गम्यते, प्रक्रमादेतद्विषयो यः संयोगः 'सर्वः' निर्वेशेषः सः 'बाह्यः' पर: तद्विषयत्वाद्, बाह्यसंयोग इति प्रकृतत्वात्सम्बन्धनसंयोगो ज्ञातव्य इति शेषः, इहापि बाह्यशब्देन प्राग्वद् बाह्यापित उक्तः। .. आह-'भावा भवन्ति जीवस्यौदयिक: पारिणामिकश्चैव' इतिवचनादौदयिकोऽपि जीवभावत्वेन जीवार्पित एवेति कथं बाह्ये कर्मण्यर्पित इति, अत्रोच्यते, कर्मानुभवनमुदयः, अनुभवनं चानुभवितरिजीवेऽनुभूयमाने च कर्मणि स्थितं, तत्र यदाऽनुभवितरिजीवे विवक्ष्यते तदोदयः जीवगतो लेश्यादिपरिणामः प्रयोजनमस्येत्यौदयिक:-कर्मणः फलप्रदानाभिमुख्यलक्षणो विपाक एवतमाश्रित्य कर्मणि बाह्येऽर्पितत्वमिहौदयिकभावस्योक्तं, यदा त्वनुभूयमानस्थतया विवक्ष्यते तदोदये-कर्मणि फलप्रदानाभिमुख्यलक्षणे भव औदयिको लेश्याकषायादिरूपो जीवपरिणामः, तदाश्रयणेन चोच्यते-भावा भवन्ति जीवस्यौदयिक इत्यादि। इहापिचोदेशान्तरेण वक्ष्यन्ति-'छव्विहो अत्तसंजोगो'त्ति 'सर्वः स' इति चैकवचनं बाह्यसंयोगस्य विधीयमानतया प्राधान्यात् प्रधानानुयायित्वाच्च व्यवहाराणामिति गाथार्थः ॥ उभयार्पितसम्बन्धसंयोगमाहनि.[५३] जो सनिवाइओ खलु भावो उदएण मीसिओ होइ।
पन्नारससंजोगो सव्वो सो मीसिओ जोगो॥ वृ. यः सान्निपातिकः खलु भावः 'उदयेन' औदयिकभावेन 'मिश्रितः' संयुतो भवति, कियत्संख्य इत्याह-पञ्चदश संयोगा अस्मिन्निति पञ्चदशसंयोगः, सर्वः सः किमित्याह-आत्मकर्मणोमिश्रत्वात्तर्पितभावा अप्यौदयिकसहितौपशमिकादयो मिश्राः, ततस्तद्विषयत्वात्सं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org