________________
३३
अध्ययनं-१,[नि. ४८] लोपः, 'स' मिति संहतरूपतया नीतिजनियतं पतनं-गमनं, कोऽर्थः?- एकत्र वर्तनं, सन्निपात:
औदयिकादिभावानामेव द्यादिसंयोगः, 'चः' सर्वत्र समुच्चये, इत्थं षड् विद्या:-प्रकाराअस्येति षड्विधो भवति अनादेशः' सामान्यं, सामान्यत्वं चौदयिकादीनां गतिकषायादिविशेषेष्वनुवृत्तिधर्मकत्वाद्, अनादेशस्य षड्विधत्वे तद्विषयः संयोगोऽपि षड्विध इत्युक्तं भवति इति गाथार्थः । इदानीमादेशविषयं तमेव भेदत आहनि.[ ४९] आएसो पुन दुविहो अप्पिअववहारऽनप्पिओ चेव ।
इक्किको पुन तिविहो अत्तान परे तदुभए य ।। वृ. 'आदेशः' अभिहितरूपः, पुन:शब्दो विशेषणष 'द्विविधः' द्विभेदः, कथमित्याह'अप्पियववहारऽनप्पिओ चेव'त्ति व्यवहारशब्दोऽत्र डमरुकमनिन्यायेनोभयत्र सम्बन्ध्यते, ततश्चार्पित इति व्यवहारो यस्मिन् सोऽयमर्पितव्यवहारः, मयूरव्यंसकादित्वात् समासः, अनपितव्यवहारस्तु तद्विपरीतः, तत्रार्पितो नाम क्षायिकादिर्भाव: स्वाधारे भाववति ज्ञाताऽयमित्यादिरूपेण ज्ञानमस्येत्यादिरूपेण वा वचनव्यापारेण वक्त्रा स्थापितः, अनर्पितस्तु वस्तुनः साधारणत्वेऽपि निराधारएव प्ररूपणार्थं विवक्षितो यथा-सर्वभावप्रधानः क्षायिको भावः । अनयोरपि भेदानाह'एकैकः' इत्यर्पितव्यवहारः अनर्पितव्यवहारश्च पुनस्त्रिविधः, कथमित्याह-'अत्ताण'त्ति आर्षत्वादात्मनि परस्मिन् तयोरात्मपरयोरुभयं तस्मिंश्च, विषयसप्तम्यश्चैताः, ततो विषयत्रैविध्येनानयोस्त्रैविध्यम्, इहाप्यादेशभेदाभिधानद्वारेण सम्बन्धनसंयोगस्य भेद उक्तो भवति, तत्र चार्पितस्य प्ररूपणामात्रसत्त्वेऽप्यर्पितप्रतिपक्षत्वेनैवात्रोपादानम्, अतो वस्तुतस्तस्यासत्त्वान्न तेन कस्यचित्संयोगसम्भव इति न तद्भेदेन संयोगभेदः, अर्पितस्य त्वात्मपरोभयापितभेदतस्त्रैविध्यात् तद्भेदेन त्रिविधः सम्बन्धनसंयोग इति गाथार्थः ।।
तत्राऽऽत्माऽपितसम्बन्धनसंयोगमाहनि.[५०] ओवसमिए य खइए खओवसमिए य पारिणामे अ।
एसो चउव्विहो खलु नायव्वो अत्तसंजोगो॥ वृ.औपशमिके यस्य भिन्नक्रमत्वात् क्षायिके च क्षायोपशमिके च सर्वत्र सम्यक्त्वादिरूपे जीवस्य(स्व) भावे 'तथा' तेनागमोक्तप्रकारेण चस्यास्यापि भिन्नक्रमत्वात् परिणामे च जीवत्वाद्यात्मके च, सर्वत्र संयोग इति प्रक्रमः, पठ्यते च-'खओवसमिए य पारिणामे य' त्ति स्पष्टमेव, 'एषः' अनन्तरोक्त औपशमिकादिसंयोगः 'चतुर्विधः' चतुष्प्रकारः, 'खलु' निश्चितं ज्ञातव्यः' अवबोद्धव्यः, 'आत्मसंयोगः' इत्यात्मापितसम्बन्धनसंयोगः, अत्र ह्यात्मशब्देना-पितभाव एव धर्मधमिणोः कथञ्चिदनन्यत्वादक्तः, तथा च वृद्धाः-'एए हि जीवमया भवंति, एएस भावेसु जीवो नन्नो हवइ' तदात्मक इत्यर्थः, औपशमिकादिभावानां च प्रागनादेशतोक्तावप्यत्रादेशत्वेनाभिधानं सम्यक्त्वादिविशेषनिष्ठत्वेन विवक्षितत्वाद् भावसामान्यापेक्षया वेति गाथार्थः ॥ किञ्चनि.[५१] जो सन्निवाइओ खलु भावो उदएण वज्जिओ होइ।
इक्कारससंजोगो एसो चिय अत्तसंजोगो।। 128/31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org