________________
उत्तराध्ययन- मूलसूत्रम् - १-१/१ आह-यदि सचित्तादिविषयत्वादसौ सचित्तादिरिति व्यपदिश्यते, एवं सत्यात्मन एवासौ तैः सह, तत उभयनिष्ठत्वात्तेनापि किं न व्यपदिश्यते ?, उच्यते, यवाङ्कुरादिवदसाधारणेनैव व्यपदेशः, आत्मनश्च सर्वैरप्यमीभिरसाविति तस्य साधारणत्वान्न तेनेह व्यपदेश: पृथिव्यादिभिरिवाङ्कुरस्येति न दोषः, एवमुत्तरत्रापि, इति ॥ अमुमेव क्षेत्रकालभावविषयमभिधित्सुराहनि. [ ४७ ] खेत्ते काले य तहा दुण्हवि दुविहो उ होइ संजोगो ।
भावंमि होइ दुविहो आएसे चेवऽनाएसे ||
वृ. 'क्षेत्रे' क्षेत्रविषयः, 'काले च' कालविषयश्च 'तथा' इति तेनागमप्रसिद्धप्रकारेण 'द्वयोरपि' इत्यनयोरेव क्षेत्रकालयोः 'द्विविध' द्विभेदः, चशब्दो भावम्मि इत्यत्र योक्ष्यते, भवति संयोगः प्रक्रमात् सम्बन्धनसंयोगः, न च क्षेत्रे काले इत्युक्ते द्वयोरपीति पौनरुक्त्याद् दुष्टं, लोकेऽपि हस्तिन्यश्वे च द्वयोरपि राज्ञो दृष्टिरित्येवंविधप्रयोगदर्शनाद्, 'भावे च' भावविपयश्च, संयोग इति संटङ्कः, भवति द्विविधः, कथं क्षेत्रादिद्वेविध्यमित्याह-'आएसे चेवऽनाएसे 'त्ति आङिति मर्यादया - विशेषरूपानतिक्रमात्मिकया दिश्यते-कथ्यत इति आदेशो विशेषस्तस्मिन्, तदन्यस्त्वनादेशः-सामान्यं, पूर्वत्र चैवशब्दयोः समुच्चयावधाणार्थयोर्भिन्नक्रमात्वात्तस्मिश्चैव तत्र क्षेत्रविषयोऽनादेशे यथा---जम्बूद्वीपजोऽयम्, आदेशे तु यथा - भारतोऽयं, कालविषयोऽनादेशे यथा-दौष्षमिकोऽयम्, आदेशे तु वासन्तिकोऽयं, भावविषयोऽनादेशे भाववानयम्, आदेशे त्वौदयिकादिभाववानिति ।
,
सामान्यावगमपूर्वकत्वाद्विशेषावगमस्यैवमुदाह्रियते, निर्युक्तौ तु विपर्ययाभिधानं जम्बुद्वीप इति सामान्यमपि लोकापेक्षया विशेषो भरतमिति वेशेषोऽपि मगधाद्यपेक्षया सामान्यमित्यादिरूपेण सर्वत्र सामान्यविशेषयोरनियतत्वख्यापनार्थं, भावे च भवति द्विविध इति भिन्नवाक्यताऽभिधानमनन्तरग्रन्थस्यैतद्विषयत्वख्यापनार्थमिति गाथार्थः ॥ अत्र क्षेत्रकालगतयोरादेशानादेशयोरल्पवक्तव्यत्वेन सम्प्रदायादपि सुज्ञानत्वात् तद्विषय: सम्बन्धनसंयोगोऽपि सुज्ञान एवेति मत्वा भावगतादेशानादेशविषयं तमभिधित्सुरुक्तहेतोरेव प्रथममनादेशविषयं भेदत आहft. [86] ओदइअ ओवसमिए खइए य तहा खओवसमिए य ।
परिणाम सन्निवाए छव्विहो हो अनाएसो ।।
३२
-
वृ. तत्रोदय:- शुभानां तीर्थकरनामादिप्रकृतीनाम् अशुभानां च मिथ्यात्वादीनां विपाकतोऽनुभवनं तेन निर्वृत्तः औदयिकः, क्वचित्तु 'उदयिए 'त्ति पठ्यते तत्र च पदावसानवर्तिन एकारस्य गुरुत्वेऽपि विकल्पतो लघुत्वानुज्ञानात् नात्र छन्दोभङ्गः, उक्तं हि
" इहियारा बिंदुजुया एओ सुद्धा पयावसामि ।
रहवंजणसंजोए परंमि लहुओ विभासाए ।। "
विपाकप्रदेशानुभवरूपतया द्विभेदस्याप्युदयस्य विष्कम्भणमुपशमस्तेन निर्वृत्त औपशमिक:, क्षयः-कर्मणामत्यन्तोच्छेद: तेन निर्वृत्तः क्षायिक: स च, तथा क्षयश्च - अभाव उदयावस्थस्य उपशमश्च--विष्कम्भितोदयत्वं तदन्यस्य क्षयोपशमौ ताभ्यां निर्वृत्तः क्षायोपशमिक: स च, परीति--सर्वप्रकारं नमनं जीवानामजीवानां च जीवत्वादिस्वरूपादिस्वरूपानुभवनं प्रति प्रह्वीभवनं परिणाम:, 'एदोद्रलोपा विसर्जनीयस्ये 'ति विसर्गलोपा विसर्जनीयस्ये 'ति विसर्ग-'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org