________________
अध्ययनं - १, [ नि. ४५ ]
३१
चत्रिधा सम्भवति, तत्रैकोऽभिलापस्याभिलाप्येन द्वितीयोऽभिलाप्यस्याभिलाप्यान्तरेण तृतीयो वर्णस्य वर्णान्तरेण । तत्राद्योऽभिलाप्यस्य द्रव्यादिभेदेन चतुर्विधत्वात् 'द्रव्ये' इति द्रव्यविषयः, सचार्थाद् घटादिशब्दस्य पृथुबुध्नोदराद्याकारपरिणतद्रव्येण वाच्यवाचकभावलक्षण: सम्बन्धः, एवं 'क्षेत्रे च' क्षेत्रविषयः, आकाशध्वनेरवगाहदानलक्षणक्षेत्रेण 'कालभावे' इति समाहारद्वन्द्वः, ततः ‘काले' कालविषयः समयादिश्रुतेर्वर्तनादिव्यङ्गयेन कालपदार्थेन, 'भावे च' भावविषयऔदयिकादिवचसो मनुष्यत्वादिपर्यायेण, चशब्दोऽत्र पूर्वत्र च समुच्चये ।
द्वितीयमाह-द्विकस्य संयोगो द्विकसंयोगः स आदिर्यस्य त्रिकसंयोगादेः सोऽयं द्विकसंयोगादिकः, इहाभिलापसंयोगस्य त्रिविधत्वात् तत्र चाद्यस्यानन्तरमेवोक्तत्वात् तृतीयस्य चाभिधास्यमानत्वाद् अर्थाद् द्विकग्रहणेनाभिलाप्यद्वयमेव गृह्यते, तत्र द्विकसंयोगो यथा स च स च तौ, त्रिकसंयोगो यथा स च तौ च ते, अत्र तौ च ते चेत्युक्ते स च स च तथा स च तौ चेत्यनुक्तावप्येकत्राभिलाप्यार्थद्वयमन्यत्र चाभिलाप्यार्थत्रयं सह प्रतीयते, अभिलापसंयोगत्वं चास्याभिलापद्वारकत्वादभिलाप्येन सह प्रतीतेः ।
तृतीयमाह- अक्षरे च अक्षराणि च अक्षराणि तेषां संयोगः अक्षरसंयोगः स आदिर्यस्यो - दात्ताद्यशेषवर्णधर्मसंयोगस्य सोऽयमक्षरसंयोगादिकः, मकारोऽलाक्षणिकः, तत्राक्षरयोः संयोगो यथा - क इति, अक्षराणां संयोगः यथा श्रीरिति, उदात्तादिवर्णधर्मसंयोगास्तु स्वधिया भावनीयाः, अस्याप्यभिला', संयोगत्वं वर्णादीनां कथञ्चिदभिलापानन्यत्वेन तदात्मकत्वात्, यद्वाऽक्षरसंयोग इत्यनेन सर्वोऽपि व्यञ्जनसंयोग उक्तः, आदिशब्देन त्वर्थसंयोगः, एतद्विशेषणं च द्विकसंयोगादिरिति योजनीयम्, अन्यत् प्राग्वत्, द्रव्यसंयोगत्वं चास्याभिलापस्य द्रव्यत्वात्, द्रव्यत्वं चास्य स्पर्शवत्त्वेन गुणाश्रयत्वात्, वक्ष्यति हि - " गुणाणमासओदव्वं "ति, न च स्पर्शवत्त्वमसिद्धं, प्रतिघातजनकत्वात्, तथाहि यत् प्रतिघातजनकं तत्स्पर्शवत् दृष्टं, यथा लोष्टादि, प्रतिघातजनकश्च शब्दः अन्यथा तथाविधशब्दश्रुतावनुभवसिद्ध श्रोत्रान्तः पीडाया असम्भवादिति गाथार्थः ॥ उक्तोऽभिलापविषय इतरेतरसंयोगः, सम्प्रति सम्बन्धनसंयोगरूपस्य तस्यावसरः, सोऽपि द्रव्यक्षेत्रकालभावभेदतश्चतुर्धा, तत्र द्रव्यसंयोगसम्बन्धनमाह
नि. [ ४६ ]
संबंधणसंजोगो सच्चित्ताचित्तमीसओ चेव ।
दुपार हिरन्नाई रहतुरगाई अ बहुहा उ ॥
वृ. सम्बध्यते प्रायो ममेदमित्यादिबुद्धितोऽनेनास्मिन् वाऽऽत्माऽष्यविधेन कर्मणा सहेति सम्बन्धनः स चासौ संयोगश्च सम्बन्धनसंयोगः, 'सच्चित्ताचित्तमीसओ चेव'त्ति प्राग्वत् सुपो लुकि सचित्तोऽचित्तो मिश्रकः, चः समुच्चये, एवः भेदावधारणे, यथाक्रममुदाहरणान्याह द्विपदेत्यादिना, सचित्ते द्विपदादिः, आदिशब्दाच्चतुष्पदापदपरिग्रहः, तत्र च द्विपदसंयोगो यथा - पुत्री, चतुष्पदसंयोगो यथा - गोमान् अपदसंयोगो यथा - पनसवान् । अचित्ते हिरण्यादिः, आदिशब्दान्मणिमुक्तादिग्रहः, स च हिरण्यवानित्यादि । मिश्रे रथयोजितस्तुरगः मध्यपदलोपे रथतुरगस्तदादिः, आदिशब्दाच्छकटवृषभादिपरिग्रहः, स च रथिक इत्यादि, 'च: ' समुच्चये, 'बहुधा तु' इति बहुप्रकार एव, तुशब्दस्यैवकारार्थत्वात्, इह च सचित्तविषयत्वात् सम्बन्धनसंयोगोऽपि सचित इत्यादि सर्वत्र भावनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org