SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २३४ उत्तराध्ययन-मूलसूत्रम् - १-१३ / ४०९ वृ. काम्पिल्ये च नगरे-ब्रह्मदत्तोत्पत्तिस्थाने 'समादतौ ' मिलितौ द्वावपि चित्रसंभूतौ जन्मान्तरनामत: ‘सुखदुःखफलविपाकं' सुकृतदुष्कृतकर्मानुभवरूपं 'कहंति 'त्ति कथयतः स्मेति शेषः, ततश्च कथितवन्तौ तौ चित्रजीवयतिब्रह्मदत्तौ 'एक्कमेक्कस्स'त्ति एकैकस्य परस्परमितियावत् इति सूत्राक्षरार्थः ॥ भावार्थस्तु निर्युक्तिकृतोच्यते नि. [ ३५५ ] जाईइ पगास निवेयणं च जाईपयासणं चित्ते । चित्तस्स य आगमणं इड्ढिपरिच्चागसुत्तत्थो ॥ वृ. तदा हि ब्रह्मदत्तो जातिस्मरणोपलब्धस्वजातीनां 'दासा दसन्नये आसी' इत्यादिना सार्द्धश्लोकेन जनाय प्रकाशनं निवेदनं च य इमं द्वितीयश्लोकं पूरयति तस्मै राज्यार्द्धमहं प्रयच्छामीति विहितवान्, ततस्तदर्थिना जनेनोद्धुष्यते, तद् ग्रामनगराकारादिषु पठ्यमानं चाकणितं कर्ण्योपकर्ण्या चित्रजीवयतिना, ततस्तथाविधज्ञानातिशयोपयोगतः स्वजातीरुपलभ्य जातोऽस्याभिप्रायो यथा-गत्वा तं जन्मान्तरनिज भ्रातरं संभूतजीवमवबोधयामीति, प्रस्थितस्ततः स्थानात्, प्राप्तः क्रमेण काम्पिल्यं, स्थितस्तद्बहिरुद्याने, श्रुतश्चारघट्टिकपरिपठ्यमानः सार्द्धश्लोकः पूरितश्चानेन द्वितीयश्लोकः, अवधारितश्चारघट्टिकेन, धावितश्चासौ नृपसकाशं राज्यलोभेन, पठितं चैतेन तत्पुरतः, परिपूर्णं श्लोकद्वयं जातस्तदाकर्णनात्तस्य चित्तावेशः, निरुद्धश्च तज्जनितमूर्च्छयाऽऽश्वासमार्गो, निमीलितं लोचनयुगलं, लुठितः स आसनात्, निपतितो भुवि, किमेतत् किमेतदित्यादिनाऽऽकुलितः सर्वोऽपि तत्पपरिच्छदः, दृष्टश्च तेनारघट्टिकः, ताडित: पाष्णिप्रहारादिभिः, आरटितमेतेन न मयैतत्पूरितं न मयेति, किन्त्वन्येनैव भिक्षुणैतत्कलिकन्दमूलेनेति, अत्रान्तरे लब्धा चेतना, प्राप्तं च स्वास्थ्यं चक्रवर्त्तिना, उक्तं च- - क्वासौ श्लोकपूरयिताऽऽस्त इति ?, " - " कथितस्तद्व्यतिकरो यथा- केनचिद् भिक्षुणैतत्पूरितं न त्वमुनेति, पृष्टं च पुनरनेन हर्षोत्फुल्लनयनयुगलेन- क्व तर्ह्यसाविति, कथितमारघट्टिकेन देव! मदीयवाटिकायां, एतच्चाकर्ण्य प्रचलितः सबलवाहनः सकलान्त: पुरसमन्वितश्च तद्दर्शनाय, प्राप्तस्तदुद्यानं, दृष्टो मुनिः, वन्दितः सबहुमानं, उपवेशितश्चैकासने, पप्रच्छतुः परस्परमनामयं कथयामासतुश्च यथास्वमनुभूतसुखदुःखफलविपाकं, तत्कथनानन्तरं च वर्णिता निजसमृद्धिश्चक्रवर्त्तिना, प्ररूपितस्तद्विपाकदर्शनतस्तत्परित्यागश्चित्रयतिना, एतावानेव प्रस्तुताध्ययनसूत्रस्यार्थोऽभिधेय इति सूत्रनिर्युक्तिगाथयोर्भावार्थः। सम्प्रति यदुक्तं- 'सुखदुःखफलविपाकं तौ कथयामासतु' रिति, तत्र चक्रवर्ती यथा कथयामास तथा सम्बन्धपुरस्सरमाह मू. (४१० ) मू. (४११ ) मू. (४१२ ) मू. (४१३) Jain Education International चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमानेन, इमं वयणमब्ववी ॥ आसिमो भायरा दोऽवि, अन्नमन्नवसाणुगा । अन्नमन्नमनूरत्ता, अन्नमन्नहिएसिणो ॥ दासा दसन्नये आसी, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए । देवा य देवलोगंमि, आसि अम्हे महिड्डिआ । For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy