________________
अध्ययनं - १३, [ नि. ३५४ ]
३२३
तेनानुकम्पापरेण, दृष्टश्च तयाऽसौ जातस्तस्यापि तदनुरागः, प्रवृत्तं च तयोर्मोहनकं, एवं च कियतीमपि वेलामतिक्रम्य विनिर्गताऽसौ कुडङ्गात्, उक्तं चात्मानं ख्यापयितुं कुमारं प्रति, यथा - गहनं नदीकुडङ्ग ततोऽपि गहनतराण्येव गहनतरकाणि पुरुषहृदयानि भवन्ति, अयं चानेन ध्वनितोऽर्थः यथा वयं जानीमः स्त्रीहृदयान्यतिगहनानि भवच्चित्तेन च तान्यपि जितानीत्युक्त्वा प्रति प्रत्याययितुमाह- 'देहाणि 'न्ति देहीदानीं 'पूर्णपात्रम्' अक्षतभृतभाजनं प्रियं खलु 'नः ' अस्माकं यद्दारको जात इति, ते (इति) वक्तव्ये यन्त्र इत्युक्तं तदैक्यं द्योतयितुं, इत्युक्त्वा च तया धूर्त्या गृहीतं ब्रह्मदत्तोत्तरीयं गता च पत्यैव सह, ततश्च निर्गतोऽसौ कुडङ्गात्कृतपरिहासः प्रवृत्तो गन्तुं प्राप्तः सुप्रतिष्ठं, तत्र च कुसकुण्डी नाम कन्या 'भिकुंडिवित्तासियंमि जियसत्तुं 'ति आर्षत्वादुभयत्र सुब्व्यत्ययः, 'भिकुण्डिवित्रासिताद्' भिकुण्डिनामनृपतिनिष्काशितात् 'जितशत्रोः ' जितशत्रुनामनृपतेः सकाशान्मथुरातोऽहिच्छत्रां व्रजन् 'अन्तरे' अन्तराले 'लभते' प्राप्नोति । तथेन्द्रपुरे शिवदत्तो नाम रुद्रपुरे च विशाखदत्ताभिधानस्तद्दुहितरौ 'बटुकत्वेन' दीर्घपृष्ठपुरुषभीत्या कृतब्राह्मणवेषेण लभते कन्ये द्वे राज्यं च ।
-
,
ततो राजगृहं मिथिला हस्तिनागपुरं चम्पां तथैव श्रावस्तीम्, अभ्रमीदिति शेष: 'एषा तु' अनन्तरमुपदर्शिता नगरहिण्डिर्बोद्धव्या ब्रह्मदत्तस्येति । एवं च भ्रमतोऽस्य मिलिताः कटककरेणुदत्तादय: पितृवयस्याः, गृहीताः कियन्तोऽपि प्रत्यन्तराजानः, समुत्पन्नं चक्ररत्नं, प्रारब्धस्तदुपदर्शितमार्गेण दिग्विजयः, प्राप्तः काम्पिल्ये, निर्गतस्तदभिमुखं दीर्घपृष्ठो, लग्नमनयोरायोधनं, विनिपातितोऽसौ ब्रह्मदत्तेन, एवं च बोद्धव्यस्तस्य दीर्घपृष्ठविषयरोषमोक्षश्च, अत्रान्तरे मिलिताः परिणीतकन्यापितरः, समुत्पन्नानि च यथाऽवसरं शेषरत्नानि, साधितं षट्खण्डमपि भरतं, प्राप्ताश्च नवापि निधयः, परिणतं चक्रवर्त्तिपदं, एवं च सुकृतफलमुपभुञ्जतोऽतिक्रान्तः कियानपि कालः, अन्यदा चोपनीतं देवतया मन्दारदाम, समुत्पन्नं तद्दर्शनादस्य जातिस्मरणंअनुभूतानि मयैवंविधकुसुमदामानि, अहं हि नलिनगुल्मविमाने देवोऽभवं ॥ इत्येकादशनिर्युक्तिगाथार्थः ।
इत्थं तावत्काम्पिल्ये संभूतश्चक्रवर्त्ती जातः, चित्रस्य तु का वार्त्तेत्याहमू. (४०८/२ ) चित्तो पुण जाओ पुरिमतालंमि ।
सिट्टिकुलमि विसाले धम्मं सोऊण पव्वइओ ॥
वृ. पादत्रयं, चित्रः पुनर्जातः पुरिमताले, स हि चित्रनामा महर्षिः तत्र संभूतिनाम्नि भ्रातरि तथाऽनशनं प्रतिपन्नवत्यहो दुरन्तो मोहश्चित्रा कर्मपरिणतिश्चञ्चलं चितमित्यादि विचिन्त्य चतुर्विधमप्याहारं प्रत्याख्यातवान्, मृत्वा च पण्डितमरणेन समुत्पन्नस्तत्रैव नलिनगुल्मनाम्नि विमाने, ततस्तत्र स्वस्थितिमनुपाल्योत्पन्नः पुरिमतालपुरे, तत्रापि क्वेत्याह- 'श्रेष्ठिकुले' वणिक्प्रधानान्वये 'विशाले' विस्तीर्णे पुत्रपौत्रादिवृद्धिमति, प्राप्तवयाश्च तथाविधस्थविरसन्निधौ 'धर्म' यतिधर्मं क्षान्त्यादिकं' श्रुत्वा' आकर्ण्य 'प्रव्रजितः ' प्रव्रज्यां प्रतिपन्नवान् इति सूत्रभावार्थ: ॥ ततः किमित्याह
मू. (४०९)
Jain Education International
कंपिल्लंमि अ नयरे समागया दोऽवि चित्तसंभूया । सुहुदुक्खफलविवागं कर्हिति ते इक्कमिक्कस्स ॥
For Private & Personal Use Only
www.jainelibrary.org