________________
अध्ययनं - १३, [ नि. ३५५ ]
३२५
इमानो छुट्टिया जाई, अन्नमन्त्रेण जा विना ॥
वृ. चक्रवर्त्ती 'महर्द्धिक: ' वृहद्विभूितिर्ब्रह्मदत्तो महायशा: 'भ्रातरं' जन्मान्तरसोदर्यं 'बहुमानेन' मानसप्रतिबन्धेन 'इदं' वक्ष्यमानलक्षणं 'वचनं' वाक्यं 'अब्रवीद्' इत्युक्तवान्, यथा 'आसिमो 'त्ति अभूवावां भ्रातरौ द्वावपि 'अन्योऽन्यं' वन्तौ, तथा अन्योऽन्यहितैषिणौ' परस्परशुभाभिलाषिणौ, पुनः पुनरन्योऽन्यग्रहणं च तुल्यचित्ततातिशयख्यापनार्थं, मकारश्च सर्वत्रालाक्षणिकः ।
केषु पुनर्भवेष्वित्थमावामभूवेत्याह- दासौ 'दशार्णे' दशार्णदेशे 'आसि'त्ति अभूव, मृगौ ‘कालिञ्जरे' कालिञ्जरनाम्नि नगे, हंसौ 'मृतगङ्गातीरे' उक्तरूपे, 'श्वपाकौ' चाण्डालौ 'कासिभूमिए 'त्ति काशी भूम्यां काश्यभिधाने जनपदे, देवौ च देवलोके सौधर्माभिधानेऽभूव 'अह्मे'त्ति आवां महर्द्धिकौ न तु किल्बिषिको, 'इमा मे'त्ति 'इमा नो 'त्ति वा उभयत्रेयमावयोः षष्ठ्येव ष्ठका जातिः कीदृशी येत्याह-'अन्नमन्त्रेणं' ति अन्योऽन्येन परस्परेण या विना, कोऽर्थः ? - परस्परसाहित्यरहिता, वियुक्तयोर्यकेति भाव इति सूत्रचतुष्ठयार्थः ॥
इत्थं चक्रवर्तिनोक्ते मुनिराह
मू. ( ४१४ )
"
कम्मा नियाणप्पगडा, तुमे राय ! विचिंतिया ।
तेसिं फलविवागेणं, विप्पओगमुवागया ॥
वृ.‘कर्माणि' ज्ञानावरणादीनि नितरा दीयन्ते-लूयन्ते दीयन्ते वा खण्ड्यन्ते तथाविधसानुबन्धफलाभावतस्तपः-प्रभृतीन्यनेनेति निदानं - साभिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानिविहितानि निदानप्रकृतानि, निदानवशनिबद्धानीति योऽर्थः, त्वया राजन् ! विचिन्तितानीति, तद्धेतुभूतार्त्तध्यानादिध्यानतः कर्माण्यपि तथोच्यन्ते 'तेषाम्' एवंविधकर्मणां फलं चासौ विपाकश्च - - शुभाशुभजनकत्वलक्षणः फलविपाकस्तन, यद्वा कर्माणि-अनुष्ठानानि 'नियानपयड' त्ति निदानेनैव शेषशु भानुष्ठानस्याच्छादितत्वात्प्राग्वत्प्रकटनिदानानि त्वया राजन् ! विचिन्तितानि कृतानीतियावत्, तेषां फलं क्रमात्कर्म तद्विपाकेन 'विप्रयोगं' विरहं 'उपागतौ' प्राप्तौ किमुक्तं भवति ? - यत्तदा त्वयाऽस्मन्निवारितेनापि निदानमनुष्ठितं तत्फलमेतद् यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥ इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाहमू. (४१५ ) सच्चसो अप्पगडा, कम्मा मए पुरा कडा ।
ते अज्ज परिभुंजामो, किं नु चित्तेवि से तहा ? ॥
वृ. सत्यं -1 - मृषा भाषापरिहाररूपं शौचम् - अमायमनुष्ठानं ताभ्यां प्रकटानि-प्रख्यातानि कर्माणि-प्रक्रमाच्छुभानुष्ठानानि शुभप्रकृतिरूपाणि वा मया पुरा कृतानि, यानीति गम्यते, तानि 'अद्य' अस्मिन्नहनि, शेषतद्भवकालोपलक्षणं चैतत् 'परिभुंजामो 'त्ति परिभुञ्जे-तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेदये, यथेति गम्यते, किमिति प्रश्ने, 'नु' इति वितर्के, 'चित्रोऽपि ' चित्रनामाऽपि, कोऽर्थः - भवानपि 'से' इति तानि तथा परिभुङ्क्ते ?, नैव भुङ्क्ते, मिक्षुकत्वाद्भवतः, तथा च किमिति भवताऽपि मयैव सहोपार्जितानि शुभकर्माणि विफलानिजातानीत्याशय इति सूत्रार्थः ॥ मुनिराह
मू. (४१६ ) सव्वं सुचिण्णं सफलं नराणं, कडाण कम्मान न मुक्खु अत्थि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org