________________
३०७
अध्ययनं-१२,[ नि. ३२७] वाक्यालङ्कारे इति सूत्रार्थः ।। अत्रान्तरे यदभूत्तदाहमू.(३७८) अज्झावयाणं वयणं सुनित्ता, उद्धाइया तत्थ बहू कुमारा।
दंडेहिं वित्तेहिं कसेहिं चेव, समागया तं इसि तालयंति ॥ वृ. अध्यापकानाम्-उपाध्यायानाम्, एकत्वेऽपि पूज्यत्वाद्बहुवचनं, 'वचनम्' उक्तरूपं 'श्रुत्वा' आकर्ण्य 'उद्धाविता' वेयेन प्रसृताः 'तत्र' यत्रासौ मुनिस्तिष्ठति 'बहवः' प्रभूताः 'कुमारा' द्वितीयवयोवर्तिनश्छात्रादय इति गम्यते, ते हि क्रीडनकपरा इत्यहो क्रीडनकमागतमिति रभसतो 'दण्डैः' वंशयष्टयादिभित्रैः-जलजवंशात्मकैः ‘कशैः' वघ्रविकारैः, चः समुच्चये, एवेति पूरणे, 'समागताः' सम्प्राप्ता मिलिता वा तमृषि-मुनि ताडयन्ति' ध्नन्ति, सर्वत्र वर्तमाननिर्देशः प्राग्वत् इति सूत्रार्थः । अस्मिश्चावसरेमू. (३७९) रनो तहिं कोसलियस्स धूया, भद्दत्ति नामेन अनिंदियंगी।
तं पासिया संजय हम्ममानं, कुद्धे कुमारे परिनिव्ववेइ ।। वृ. 'राज्ञो' नृपतेस्तत्र-यज्ञवाटे कोशलायां भवः कौशलिकस्तस्य धूय'त्ति दुहिता भद्रेति 'नाम्ना' अभिधानेन 'अनिन्दिताङ्गी' कल्याणशरीरा 'तं' हरिकेशबलं 'पासिय'त्ति दृष्ट्वा 'सञ्जय'त्ति संयतं तस्यामप्यवस्थायां हिंसादेः सम्यगुपरतं 'हन्यमानं' दण्डादिभिस्ताडयमानं 'क्रुद्धानं' कोपवतः 'कुमारान्' उक्तरूपान् ‘परिनिर्वापयति' कोपाग्निविध्यापनात् समन्तात् शीतीकरोति उपशमयतीतियादविति सूत्रार्थः ।। सा च तान् परिनिर्वापियन्ती तस्य माहात्म्यमतिनिःस्पृहतां चाहमू.( ३८०) देवाभिओगेण निओइएणं, दिना मु रन्ना मनसा न झाया।
नरिंददेविंदऽभिवंदिएणं, जेनामि वंता इसिणा स एसो॥ वृ. देवस्य-अमरस्याभियोगो-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन न त्वप्रियेतिकृत्वा 'दिन्नामु'त्ति दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता च केन?-राज्ञा प्रक्रमात्कौशलिकेन, तथापि 'मणस'त्ति अपेर्गम्यमानत्वान्मनसाऽपि-चित्तेनापि 'नध्याता'न चिन्तिता नाभिलषितेतियावत्, प्रक्रमादेतेन मुनिना, कीदृशेन?-नरेन्द्राश्च-नृपतयो देवेन्द्राश्च-शक्रादयो नरेन्द्रदेवेन्द्रास्तैरभि-आभिमुख्येन वन्दितः-स्तुतो नरेन्द्रदेवेन्द्राभिवन्दितस्तेन, अनभिध्याताऽपि नृपोपरोधतः स्वीकृता स्यादत आह-येनास्म्यहं 'वान्ता' त्यक्ता ऋषिणा' मुनिना, स एष युष्माभिर्यः कदर्थयितुमारब्धः, ततो न कदर्थयितुमुचित इति भावः, पुनरिममेवा) समर्थयितुमाहमू.( ३८१) एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी।
जो मे तया निच्छई दिज्जमानी, पिउणा सयं कोसलिएण रत्रा। वृ. 'एसो हु सो'त्ति, एष एव स न मनागप्यत्र संशयः, उग्रं-उत्कटं दारुणं वा कर्मशत्रून् प्रति तपः-अनशनाद्यस्येति उग्रतपाः, अत एव महान-प्रशस्या विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी च प्राग्वत्, स इति क? इत्याह-यो 'मि'त्ति मां 'तदा' तस्मिन् विवक्षितसमये 'नेच्छति' नाभिलषति 'दीयमानां' निसृज्यमानां, केन?-'पित्रा' जनकेन 'स्वयं' आत्मना, न तु प्रधानप्रेषणादिना, तेनापि कीदृशा?-कौशलिकेन राज्ञा, न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org