________________
उत्तराध्ययन- मूलसूत्रम् - १-१२ / ३७४ यदिवोच्चावचानि - विकृष्टाविकृष्टतया नानाविधानि, तपांसीति गम्यते, उच्चव्रतानि वा शेषव्रतापेक्षया महाव्रतानि ये मुनयश्चरन्ति - आसेवन्ते, न तु यूयमिवाजितेन्द्रिया अशीला वा, तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति प्राग्वदिति सूत्रार्थ: ।। इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहु:
मू. ( ३७५ ) अज्झावयाणं पडिकूलभासी, पभाससे किन्नु सगासि अम्हं ? | अत्रि एवं विनस्सउ अन्नपाणं, न य णं दाहामु तुमं नियंठा ! ॥
वृ. अध्यापयन्ति - पाठ्यन्तीत्यध्यापकाः - उपाध्यायास्तेषां प्रतिकूलं - प्रतिलोमं भाषते वक्तीत्येवंशील: प्रतिकूल भाषी सन् प्रकर्षेण भाषसे- ब्रूषे प्रभाषसे, किमिति क्षेपे, तुरित्यक्षमायां, ततश्च धिग् भवन्तं न वयं क्षमामहे यदित्थं भवान् ब्रूते सकाशे - समीपे 'अहं'ति अस्माकम्, अपिः सम्भावनायां, 'एतत्' परिदृश्यमानं 'विनश्यतु' क्वथितत्वादिना स्वरूपहानिमाप्नोतु ‘अन्नपानम्' ओदनकाञ्जिकादि, 'न च' नैव 'न'मिति वाक्यालङ्कारे 'दाहामु' त्ति दास्यामस्तव हे निर्ग्रन्थ ! निष्क्रिञ्चन!, गुरुप्रत्यनीको हि भवान्, अन्यथा तु कदाचिदनुकम्पया किञ्चिदन्तप्रान्तादि दद्यामोऽपीति भाव इति सूत्रार्थः ॥ यक्ष आह
३०६
मू. ( ३७६ ) समिईहिं मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स । जइ मे न दाहित्थ आहेसणिज्जं, किमज्ज जन्नाण लभित्थ लाभं ? ॥
वृ. समितिभिः - ईर्यासमित्यादिभिर्मह्यं सुष्ठु समाहिताय समाधिमते सुसमाहिताय गुप्तिभि:मनोगुप्त्यादिभिर्गुप्ताय जितेन्द्रियायेति च प्राग्वत्, सर्वत्र च चतुर्थ्यर्थे षष्ठी, 'यदी' त्वभ्युपगमे 'मे' मह्यं 'मज्झं'तीत्यस्य व्यहितत्वात् क्रिया प्रति पुनरुपादानमदुष्टमेव 'न दास्यथ' न वितरिष्यथ, 'अथे'त्युपन्यासे आनन्तर्ये वा, 'एषणीयम्' एषणाविशुद्धमन्नदिकं किं न किञ्चिदित्यर्थः, 'अज्ज'त्ति अद्य ये यज्ञास्तेषामिदानीमारब्धयज्ञानां, यद्वा 'अज्ज' त्ति हे आर्या ! यज्ञानां 'लभित्थ'त्ति सूत्रत्वाल्लप्स्यध्वे प्राप्स्यध्वं 'लाभं' पुण्यप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस् हानिरेव, उक्तं हि
"दधिमधुधृतान्यपात्रे क्षिप्तानि यथाऽऽशु नाशमुपयान्ति । एवमपात्रे दत्तानि केवलं नाशमुपयान्ती ॥" ति
सूत्रार्थः । इत्थं तेनोक्ते यदध्यापकप्रधान आह तदुच्यते
मू. ( ३७७ ) के इत्थ खत्ता उवजोइया वा, अज्झावया वा सह खंडिएहिं ? 1 एयं खु दंडेण फलेण हंता, कंठमि धित्तूण खलिज्ज जो णं ॥
वृ. के ‘अत्रे’त्येतस्मिन् स्थाने 'क्षत्रा: ' क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा तत्कर्म्मनियुक्ताः ‘उवजोइय’त्ति ज्योतिषः समीपे ये त उपज्योतिषस्त एवोपज्योतिष्काः - अग्निसमीपवर्त्तिनो महनसिका ऋत्विजो वा 'अध्यापकाः ' पाठकाः, ते वा उभयत्र वा विकल्पे 'सहे 'ति युक्ताः, कै: ? - 'खण्डिकै : ' छात्रैः, ये किमित्याह- 'एनं' श्रवणकं 'दण्डेन' वंशयठ्यदिना 'फलेन' बिल्वादिना 'हंते 'ति हत्वा-ताडयित्वा यद्वा 'दण्डेने 'ति कूर्पराभिघातेन 'फलेन' च मुष्टिप्रहारेणेति वृद्धाः, ततश्च 'कण्ठे' गले 'गृहीत्वा' उपादाय 'खलेज्ज' त्ति स्खलयेयुःनिष्काशयेयुः, 'यो'त्ति वचनव्यत्ययाद्ये इत्थमेतदभिघाते निष्काशने वा शक्ताः, 'नमि'ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org