________________
अध्ययनं - १२, [ नि. ३२७]
ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत् ॥२॥
न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु तत्त्वतः सम्भवत्यतो न तावज्जातिसम्भवः, तथा विद्यापि सच्छास्त्रात्मिका, सच्छास्त्रेषु च सर्वेष्वहिंसादिपञ्चकमेव वाच्यं, यत उक्तम्“पञ्चैतानि पवित्राणि, सर्व्वेषां धर्म्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्ज्जनम् ॥"
तद्युक्त्वयं च तत्तज्ज्ञानादेव भवति, ज्ञानस्य तु विरतिः फलं रागाद्यभावश्च, यत उक्तम्" तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति ? शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥"
न चैवमग्न्याद्यारम्भिषु कोपादिमत्सु च भवत्सु विरते रागाद्यभावस्य च सम्भवोऽस्ति, न च निश्चयनयमतेन फलरहितं वस्तु सत्, तथा च निश्चयो यदेवार्थक्रियाकारि तदेव परमार्थसदित्याह ततः स्थितमेतत्- 'ताइं तु' त्ति तुरवधारणे भिन्नक्रमश्च ततश्च तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, क्रोधाद्युषेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ कदाचिते वदेयुः - वेदविद्याविदो वयमत एव च ब्राह्मणजातयस्तत्कथं जातिविद्याविहीना इत्युक्तावानसीत्याह
मू. ( ३७४ ) तुब्भित्थ भो ! भारहरा गिराणं, अट्टं न याणाह अहिज्ज वेए। उच्चावयाइं मुणिणो चरंति, ताइं तु खित्ताइं सुपेसलाई ॥
वृ. यूयमत्रेति - लोके 'भो' इत्यामन्त्रणे भारं धरन्तीति भारधराः, पाठान्तरतो वा-'भारवहा' वा, कासां?-‘गिरां’ वाचां, प्रक्रमाद्वेदसम्बन्धिनीनाम्, इह च भारस्तासां भूयस्त्वमेव, किमिति भारधरा भारवहा वेति उच्यते, यतोऽर्थम् अभिधेयं न जानीथ - नावबुध्यध्वे ?, 'अहिज्ज 'त्ति अपेर्गम्यमानत्वादधीत्यापि 'वेदान्' ऋग्वेदादीन्, तथाहि - 'आत्मा वा रे ज्ञातव्यो मन्तव्यो निदिध्यासितव्य:” तथा “कर्म्मभिर्मृत्युमृषयो निषेदुः, प्रजावन्तो द्रविनमन्विच्छमानाः, अथापरं कर्म्मभ्योऽमृतत्वमानशुः,
परेण नाकं निहितं गुहायां, विभ्रायते यद्यतयो विशन्ति । वेदाहमेनं पुरुषं महान्तं तमेव विदित्वा अमृतत्वमेति ॥
28/20
३०५
'नान्यः पन्थाः अयनाये' त्वादिवचनानां यद्यर्थवेत्तारः स्युस्तत्किमित्थं यागादि कुर्व्वीरन् ?, ततस्तत्त्वतो वेदविद्याविदो भवन्ता न भवन्ति, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? । कानि तर्हि भवदभिप्रायेण क्षेत्राणीत्याह- 'उच्चावयाई 'त्ति उच्चावचानि - उत्तमाधमानि मुनयश्चरन्ति- भिक्षानिमित्तं पर्यटन्ति गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाद्यारम्भप्रवृत्तयः, त एव परमार्थतो वेदार्थं विदन्ति, तत्रापि भैक्षवृत्तेरेव समर्थितत्वात्, तथा च वेदानुवादिन:
Jain Education International
"चरेद् माधुकरीं वृत्तिमपि म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ।। "
For Private & Personal Use Only
www.jainelibrary.org