SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०८ उत्तराध्ययन-मूलसूत्रम्-१-१२/३८१ त्वितरजनसाधारणेन, तदनेन विभूतावपि नि:स्पृहत्वमुक्तं, पुनस्तन्माहात्म्यमाहमू. (३८२) महाजसो एस महानुभागो, घोरव्वओ घोरपरक्कमो य। मा एयं हीलह अहीलनिजं, मा सव्वे तेएण भे निद्दहिज्जा। वृ. 'महायसा' अपरिमितिकीर्तिः 'एष' प्रत्यक्षो मुनिर्महानुभाग:-अतिशयाचिन्त्यशक्तिः, पाठान्तरतो महानुभावो वा, तत्र चानुभावः-शापानुग्रहसामर्थ्य, 'घोरव्रतो' धृतात्यन्तदुर्द्धरमहाव्रतः 'घोरपराक्रमश्च' कषायादिजयं प्रति रौद्रसामर्थ्यो, यतोऽयमीहक् ततः किमित्याह'मा' इति निषेधे 'एनं' यति 'हीलयत' अवधूतं पश्यत 'अहीलनीयम्' अवज्ञातुमनुचित्तं, किमित्याह आह-मा सर्वान्-समस्तांस्तेजसा-तपोमाहात्म्येन 'मे' भवतो निर्घाक्षीद्भस्यसात्कार्षीद्, अयं हि हीलितो यदि कदाचिद्रुष्येत्तदा सर्वं भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः ।। अत्रान्तरे मा भूदेतस्या वचनं मृषेति यद्यक्षः कृतवांस्तदाहमू. (३८३) एयाइं तीसे वयणाइंसुच्चा, पत्तीइ भद्दाइ सुभासियाई। इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयति॥ वृ. 'एतानि' अनन्तरोक्तानि 'तस्याः' अनन्तरोक्तायाः 'वचनानि' भाषितानि 'श्रुत्वा' निशम्य पत्याः' यज्ञवाटकाधिपतेः सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यते, भद्राया' भद्राधिभानाया: 'सुभाषितानि' सूक्तानि वचनानीति योज्यते, ऋषेः-तस्यैव तपस्विनः 'वेयावडिट्ठयाए'त्ति सूत्रत्वाद्वैयावृत्त्यार्थमेतत् प्रत्यनीकनिवारणलक्षणे प्रयोजने व्यावृत्ता भवाम इत्येवमर्थं यक्षाः, यक्षपरिवारस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तृन् 'विनिपातयन्ति' विविधं नितरां पातयन्ति-भूमौ विलोलयन्ति, पठ्यते च-'विनिवारयंति'त्ति विशेषेणोपहतिं कुर्वतो निराकुर्वन्ति, मू. ( ३८४) ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जाणं तालयंति। ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो॥ वृ.तथा 'ते' इति यक्षाः ‘घोररूपा' रौद्राकारधारिणः 'ठिय'त्ति स्थिता: 'अन्तरिक्षे' आकाशे 'असुरा' आसुरभावान्वितत्वात् त एव यक्षाः 'तस्मनि' यज्ञवाटे 'तम्' उपसर्गकारिणं 'जनं' छात्रलोकं 'ताडयन्ति' मन्ति, ततस्तान् कुमारान् भिन्ना-विदारिताः प्रक्रमाद्यक्षप्रहारैर्देहा:शरीराणि येषां ते भिन्नदेहास्तान् रुधिरं-शोणितं वमतः--उद्गिरतः ‘पासत्ति'त्ति दृष्ट्वा भद्रा' सैव कौशलिकराजदुहिता 'इदं' वक्ष्यमानं 'आहु'त्ति वचनव्यत्ययेनाह-ब्रूते 'भूयः' पुनरिति सूत्रद्वयार्थः । किं तदित्याहमू. (३८५) गिरिं नहेहिं खणह, अयं दंतेहिं खायह। जायतेयं पायेहि हणह जे भिक्खं अवमन्नह॥ व. 'गिरिं' पर्वतं 'नखैः' कररुहै: 'खनथ' विदारयथ, इह च मुख्यखननक्रियाद्यसम्भवादिववतिमन्तेरणाप्युपमार्थो गम्यते, ततश्च खनथेवखनथ, अयो' लोहं 'दन्तैः' दशनैः खादथेव खादथ, जाततेजसम्-अग्निं पादैः-चरणैर्हथेव हथ, ताडययेत्यर्थः, ये वयं कि कुर्मः इत्याहये यूयं भिखं प्रक्रमादेनं 'अवमन्नह'त्ति अवमन्यध्वे-अवधीरयथ, अनर्थफलत्वात्, भिक्ष्वपमनास्येति भावः, कथमिदमित्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy