________________
अध्ययनं - ११, [ नि. ३१७ ]
२८९
'अविनीतश्च' विनयविरहित: 'अबहुस्सुए 'त्ति यत्तदोर्नित्याभिसम्बन्धात् सोऽ ऽ बहुश्रुतः, , उच्यते इति शेषः सविद्यस्याप्यबहुश्रुतत्वं बाहुश्रुत्यफलाभावादिति भावनीयम्, एतद्विपरीतस्त्वर्थाद्
"
बहुश्रुत इति सूत्रार्थः । कुत: पुनरीदृशमबहुश्रुतत्वं बहुश्रुतत्वं वा लभ्यत इत्याहअह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भइ ।
मू. ( ३३० )
थंभा कोहा पमाएणं, रोगेणालस्सेण य ॥
वृ. ‘अथ' इत्युपन्यासार्थः 'पञ्चभि:' पञ्चसङ्घयैः तिष्ठन्तयेषु कर्म्मवशगा जन्तव इति स्थानानि तै:, ‘यै:' इति वक्ष्यमानैर्हेतुभिः- शिक्षणं क्षिक्षा ग्रहणासेवनात्मिका 'न लभ्यते' नावाप्यते, तैरीदृशमबहुश्रुतत्वमवाप्यत इति शेषः, कैः पुनः सा न लभ्यते ? इत्याह- 'स्तम्भात्' मानात्‘क्रोधात्’ कोपात् ‘प्रमादेन' मद्यविषयादिना 'रोगेण' गलत्कष्ठादिना 'आलस्येन' अनुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः चः समस्तानां व्यस्तानां च हेतुत्वमेषां द्योतयति ।। इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह
,
मू. ( ३३१ )
अह अट्ठहिं ठाणेहिं, सिक्खासीलेत्ति वुच्चइ । अहस्सिरे सयादंते, न य मम्ममुयाहरे ॥
वृ. अथाष्टभिः स्थानैः शिक्षायां शीलः - स्वभावो यस्य शिक्षां वा शीलयति-अभ्यस्ततीति शिक्षाशीलः - द्विविधशिक्षाभ्यासकृद्, इतिशब्दः स्वरूपपरामर्शकः, उच्यते तीर्थकृद्गणधरादिभिरिति गम्यते, तान्येवाह - 'अहस्सिरे 'त्ति 'तृन इर' इति प्राकृतलक्षणादहसनशीलः अहसिता-न सहेतुकमहेतुकं वा हसन्नेवास्ते, 'सदा' सर्वकालं 'दान्तः' इन्द्रियनोइन्द्रियदमवान् 'न च' नैव 'मर्म' परापभ्राजनाकारि कुत्सितं जात्यादि 'उदाहरेत्' उद्घट्टयेत । नासीले न विसीले, न सिया अइलोलुए। अकोहणे सच्चरए, सिक्खासीलेत्ति वुच्चइ ॥
मू. ( ३३२ )
वृ. 'न' नैव' अशील:' अविद्यमानशीलः, सर्वथा विनष्टचारित्रधर्म इत्यर्थः, न 'विशीलः ' विरूपशील:, अतीचारकलुषितव्रत इतियावत, 'न स्यात्' न भवेद्, इह पूर्वत्र च सम्भावने लिट् 'अतिलोलुपः' अतीव रसलम्पटः, 'अक्रोधनः' अपराधिन्यनपराधिनि वा न कथञ्चित् क्रुध्यति, सत्यम् - अवितथभाषणं तस्मिन् रतः - आसक्तः सत्यरतः इति, निगमयितुमाहशिक्षाशील 'इति' इत्यनन्तरोक्तगुणभाग् उच्यते, स च बहुश्रुत एव भवतीति भावः । इह च स्थानप्रक्रमेऽप्येवमभिधानं धर्मधर्मिणोः कथञ्चिदनन्यत्वख्यापनाथं, विशेषाभिधायित्वाच्च क्वचित् केषाञ्चिदन्तर्भावसम्भवेऽपि पृथगुपादानं, परिहारद्वयमपीदमुत्तरत्रापि भावनीयमिति सूत्रत्रयार्थः ।। किञ्च - अबहुश्रुतत्वे बहुश्रुतत्वे वाऽविनयो विनयश्च मूलकारणं, तत्त्वत उक्तहेतूनामप्यनयोरेवान्तर्भावात् न च अविनीतविनीतयोः स्वरूपमविज्ञान तौ ज्ञातुं शक्याविति यैः स्थानैरविनीत उच्यते यैश्च विनीतस्तान्यभिधातुमाह
मू. ( ३३३ )
अह चोद्दसहि ठाणेहिं, वट्टमाणो उ संजए ।
अविनीए वुच्चती सो उ, निव्वाणं च न गच्छइ ॥
वृ. 'अथ' इति प्राग्वत्, चतुर्भिरधिका दश चतुर्दश तेषु चतुर्दशसङ्घयेषु स्थानेषु, सूत्रे चु
28/19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org