________________
२९०
उत्तराध्ययन- मूलसूत्रम् - १-११/२३३ सुब्व्यत्ययेन सप्तम्यर्थे तृतीया, 'वर्तमानः' तिष्ठन् 'तुः' पूरणे 'संयतः ' तपस्वी, अविनीत उच्यते, 'स तु' इत्यविनीतः पुनः किमित्याह - 'निर्वाणं च' मोक्षं, चशब्दादिहैव ज्ञानादींश्च 'न गच्छति' न प्राप्नोति । कानि पुनश्चतुर्दश स्थानानित्याह-
मू. ( ३३४ )
अभिक्खणं कोही भवइ, पबंधं च पकुव्वइ । मित्तिज्जमानो वमति, सुयं लद्धूण मज्जइ ॥
वृ. 'अभीक्ष्णं' पुनः पुनः, यद्वा-क्षणं क्षणममि अभिक्षणम्-अनवरतं 'क्रोधी' क्रोधनः भवति, सनिमित्तनिमित्तं वा कुप्यन्नेवास्ते, 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवाविच्छेदात्मकं 'पकुव्वइ' त्ति प्रकर्षेण कुरुते कुपितः सन् सान्त्वनैरनेकैरपि नोपशाम्यति, विकथादिषु वाऽविच्छेदेन प्रवर्तनं प्रबन्धस्तं च प्रकुरुते तथा 'मेत्तिज्जमानो 'त्ति मित्रीय्यमानोऽपि मित्रं ममायमस्त्वितीष्यमानोऽपि अपिशब्दस्य लुप्तनिर्दिष्टत्वात् 'वमति' त्यजति, प्रस्तावान्मित्रयितारं मैत्रीवा, किमुक्तं भवति ? - यदि कश्चिद्धार्मिकतया वक्ति-यथा त्वं न वेत्सीत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति-ममालेमेतेन, कृतमपि वा कृतघ्नतया न मन्यत इति वमतीत्युच्यते, तथा 'सुयं'ति अपेर्गम्यमानत्वात् श्रुतमपि-आगममपि 'लब्ध्वा ' प्राप्य 'माद्यति दर्पं याति किमुक्तं भवति ? - श्रुतं हि मदापहारहेतु:, स तु तेनापि दप्यति । मू. ( ३३५ ) अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पति । सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं ॥
वृ. तथा 'अपि:' सम्भावनायां, सम्भाव्यत एतत्, यथाऽसौ पापैः कथञ्चित् समित्यादिषु स्खलितलक्षणैः परिक्षिपति - तिरस्कृरुत इत्येवंशीलः पापरिक्षेपी, आचार्यादीनामिति गम्यते, तथा 'अपि:' भिन्नक्रमः, ततः 'मित्रेभ्योऽपि' सुहृद्द्योऽप्यास्तामन्येभ्यः 'कुप्यति' क्रुध्यति, सूत्रे तु चतुर्थ्यर्थे सप्तमी, "क्रुधिद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोप" इत्यनेनेह चतुर्थीविधानात्, तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य 'रहसि' एकान्ते 'भाषते' वक्ति पापमेव पापकं, किमुक्तं ? - अग्रतः प्रियं वक्ति पृष्ठस्तु प्रतिसेवकोऽयमित्यादिकमनाचारमेवाविष्करोति । मू. ( ३३६ ) पइन्नावाई दुहिले, थद्धे लुद्धे अनिग्गहे ।
असंविभागी अचियत्ते, अविनीएत्ति वुच्चइ ॥
वृ. तथा प्रकीर्णम् इतस्ततो विक्षिप्तम्, असम्बद्धमित्यर्थः, वदतिजल्पतीत्येवंशील: प्रकीर्णवादी, वस्तुतत्त्वविचारेऽपि यत्किञ्चनवादीत्यर्थः, अथवा य: पात्रमिदमपात्रमिदमिति वाऽपरीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशीलः प्रकीर्णवादी इति, प्रतिज्ञया वाइदमित्थमेव इत्येकान्ताभ्युपगमरूपया वदनशीलः प्रतिज्ञावादी, तथा 'दुहील' त्ति द्रोहणशीलोद्रोग्धा, न मित्रमप्यनभिद्रुह्यास्ते, तथा 'स्तब्ध:' तपस्व्यमित्याद्यहकृंतीमान्, तथा 'लुब्धः ' अन्नादिष्वभिकाङ्क्षावान्, तथा 'अनिग्रहः' प्राग्वत्, तथाऽसंविभजनशीलः असंविभागी, नाऽऽहारादिकमवाप्यतिगर्द्धनोऽन्यस्मै स्वल्पमपि यच्छति, किन्त्वात्मानमेव पोषयति, 'अचियत्ते 'त्ति अप्रीतिकार :- दश्यमानः सम्भाष्यमानो वा सर्वस्याप्रीतिमेवोत्पादयति, एवंविधदोषान्वितः अविनीत उच्यते इति निगमनम् । इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह
तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org