________________
२८८
उत्तराध्ययन-मूलसूत्रम्-१-११/३२७ स्त्विहापारमार्थिकत्वख्यापकः, द्रव्यतोऽपि हि भावपूजाहेतुरेव पूजोत्यते, इयं तु द्रव्यार्थमप्रधाना वा पूजेति द्रव्यपूजा, अतोऽपारमार्थिक्येव, एतदभिधानं तु द्रव्यशब्दस्यानेकार्थत्वसूचकमिति गाथार्थः ।। भावपूजामाहनि.[ ३१६] तित्थयरकेवलीणं सिद्धायरिआण सव्वसाहूणं ।
जा किर कीरइ पूआ सा पूआ भावओ होइ ।। व. तीर्थराश्च अर्हन्तः केवलिनाश्च-सामान्येनैवोत्पन्नकेवला: तीर्थकरकेवलिनस्तेषां. 'सिद्धाचार्याणां' प्रतीतानां, तथा सर्वसाधूनां, का?-या किल 'क्रियते' विधीयते पूजा सा पूजा 'भावतः' भावनिक्षेपमाश्रित्य भवति, किलशब्दः परोक्षाप्तवादसूचकः, तीर्थङ्करादिपूजा हि सर्वाऽपि क्षायोपशमिकादिभाववर्तिन एव भवतीति भावपूजैव, यत्तु पुष्पादिपूजाया द्रव्यस्तवत्वमुक्तं तद्रव्यैः-पुष्पादिभिः स्तव इति व्युत्पत्तिमाश्रित्य सम्पूर्णभावस्तवकारणत्वेन वेति गाथार्थः ।। सम्प्रति प्रस्तुतोपयोग्याहनि.[३१७] जे किर चउदसपुव्वी सव्वक्खरसन्निवाइणो निउणा।
जा तेसिं पूया खलु सा भावे ताइ अहिगारो ।। वृ. 'ये' प्राग्वत् 'किल' इति वाक्यालङ्कारे 'चतुर्दशपूर्विणः' चतुर्दशपूर्वधराः सर्वाणिसमस्तानि यान्यक्षराणि-अकारादीनि तेषां सत्रिपातनं-तत्तदर्थाभिधायकतया साङ्गत्येन घटनाकरणं सर्वाक्षरसन्निपातः स विद्यते अधिगमविषयतया येषां तेऽमी सर्वाक्षरसन्निपातिनः 'निपुणा:' कुशलाः, या 'तेषां' चतुर्दशपूर्विणां 'पूजा' उचितप्रतिपत्तिरूपया, उपलक्षणं चेयं शेषबहुश्रुतपूजायाः, प्राधान्याच्चास्या एवोपादानं, 'खलु' निश्चितं, सा 'भावे' भावविषया, 'तया' बहुश्रुतपूजालक्षणया भावपूजया इह 'अधिकारः' प्रकृतमिति गाथार्थः । इत्युक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्म.(३२८) संजोगा विप्पमुक्कस्स, अनगारस्स भिक्खणो।
आयारं पाउक्करिस्सामि, आनुपुब्बिं सुणेह मे। व.संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः आचरणमाचार:-उचितक्रिया विनय इतियावत्, तथा च वृद्धाः-'आयारोत्ति वा विनओत्ति वा एगट्ठ'त्ति स चेह बहुश्रुतपूजात्मक एव गृह्यते, तस्या एवात्राधिकृतत्वात्, तं 'प्रादुष्करिष्यामि' प्रकटयिष्यामि आनुपूर्व्या, शृणुत 'मे' मम कथयत इति शेषः इति सूत्रार्थः ॥ इह च बहुश्रुतपूजा प्रक्रान्ता, सा च बहुश्रुतस्वरूपपरिज्ञान एव कर्तुं शक्या, बहुश्रुतस्वरूपं च तद्विपर्ययपरिज्ञाने तद्विविक्तं सुखेनैव ज्ञायत इत्यबहश्रुतस्वरूपमाहमू. (३२९) जे यावि होइ निविज्जे, थद्धे लुद्धे अनिग्गहे।
अभिक्खणं उल्लवई, अविनीए अबहुस्सुए। वृ. 'जे यावि'त्ति यः कश्चित्, चापिशब्दौ भिन्नक्रमावुत्तरत्र योक्ष्येते, 'भवति' जायते निर्गतो विद्यायाः-सम्यकशास्त्रावगमरूपायाः निविद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि, यः 'स्तब्धः' अहङ्कारी 'लुब्धः' रसादिगृद्धिमान्, न विद्यते इन्द्रियनिग्रह:-इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः अभीक्ष्णं' पुन: पुन: उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति-वक्ति उल्लपति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org