________________
अध्ययनं-११,[नि. ३११]
२८७ 'पुव्व'त्ति पूर्वाण्युत्पादपूर्वादीनि 'अनंतगमजुत्त'त्ति अनन्ता-अपर्यवसिता गम्यते वस्तुस्वरूपमेभिरिति गमा-वस्तुपरिच्छेदप्रकाराः नामादयस्तैर्युक्तानि-अन्वितान्यनन्तगमयुक्तानि, पर्यायाधुपलक्षणं च गमग्रहणम्, उक्तं हि-"अनंता गमा अनंता पज्जवा अनंता हेतू" इत्यादि, अनेनैतदात्मकत्वात्, पूर्वाणां तेषामप्यानन्त्यमुक्तं, क्व पुनरमूनि भावे वर्तन्ते येन भावबहन्युच्यन्ते इत्याह-'भाव' इत्यात्मपर्याये क्षायोपशमिके चतुर्दश पूर्वाणि वर्तन्ते इति प्रक्रमः, आह-किं न क्षायिके भावे किञ्चिद्भावबह?, अस्तीताह-'क्षायिके च' कर्मक्षयात्पन्ने पुनः केवलज्ञानम्, अनन्तपर्यायत्वात्, तदपि भावबहुकमिति गाथार्थः ।। उक्तं बहु, सम्प्रति सूत्रं श्रुतं वाऽऽहनि.[ ३१२] दव्वसुय पोंडवाइ अहवा लिहियं तु पुत्थयाईसुं।
भावसुयं पुन दुविहं सम्मसुयं चेव मिच्छसुयं ।। वृ.'दव्वसुय'त्ति अनुस्वारलोपात् द्रव्यसूत्रं द्रव्य श्रुतं च, तत्राऽऽद्यं पुण्डजादि, द्वितीयमाह'अथवा' इति पक्षान्तरसूचकः, ततो द्रव्यश्रुतं 'लिखितम्' अक्षररूपतया न्यस्तं पुस्तकादिषु, तुशब्दाद् भाष्यमानं वा द्रव्य श्रुतमुच्यते, भावश्रुतं पुनः 'द्विविधं' द्विभेदं 'सम्यक्श्रुतं चैव' इति प्राग्वत् ततो मिथ्या श्रुतं चेति गाथार्थः । एतत्स्वरूपमाहनि.[३१३] भवसिद्धिया उ जीवा सम्मट्ठिी उ जं अहिज्जंति।
तं सम्मसुएण सुयं कम्मट्ठविहस्स सोहिकरं॥ नि.[३१४] मिच्छद्दिट्ठी जीवा अभव्वसिद्धी य जं अहिज्जति ।
तं मिच्छसुएण सुयं कम्मादानं च तं भणियं । वृ. भवे भव्या वा सिद्धिरेषामिति भवसिद्धिका भव्यसिद्धिका वा, 'तुः' अवधारणे, एत एव जीवा:' प्राणिनः, तेऽपि 'सम्मद्दिट्ठी उ'त्ति सम्यग्दष्ट्य एव 'यत्' इति श्रुतम् 'अधीयते' पठन्ति 'तं सम्मसुएण'त्ति सम्यक्श्रुतशब्देन 'श्रुतम्' इति प्रक्रमाद् भावश्रुतम्, उच्यते इति शेषः। आह-भाष्यमानत्वेनास्य कथं न द्रव्यश्रुतत्वम्?, उच्यते, अनेनैतज्जनित उपयोग एवोपलक्षित इति न दोषः, एवमन्यत्रापि भावनीयं। तन्माहात्म्यमाह-'कम्मट्ठविहस्स'त्ति अष्टविधकर्मणः 'शुद्धिकरम्' अपनयनकर्तृ॥ मिथ्याश्रुतमाह-मिथ्यादृष्ट्य जीवाः, भव्या इति गम्यते, 'अभव्यसिद्धयश्च' अभव्याः यदधीयते तत् 'मिथ्याश्रुतेन' मिथ्या श्रुतशब्देन 'श्रुतम्' इतीहापि भावश्रुतं भणितमिति सम्बन्धः, कर्म-ज्ञानावरणादि आदीयते-स्वीक्रियतेऽनेन जन्तुभिरिति कादानं-कर्मोपादानहेतुः, 'च:' समुच्चये, 'तत्' श्रुतं भणितम्' उक्तमिति गाथाद्वयार्थः । इदानीं पूजा, साऽपि नामादिभेदतश्चतुर्धेव, तत्राऽऽद्ये सुगमे, द्रव्यपूजामाहनि.[३१५] ईसरतलवरमाडंबिआण सिवइंदखंदविण्हूणं ।
जा किर कीरइ पूआ सा पूआ दव्वओ होइ ।। वृ. ईश्वरश्च-द्रव्यपतिः तलवरश्च-प्रभुस्थानीयो नगरादिचिन्तक: मडम्बं-जलदुर्गं तस्मिन् भवो माडम्बिकः-तद्भोक्ता च ईश्वरतलवरमाडम्बिकास्तेषां, तथा शिवश्च-शम्भुः इन्द्रश्चपुरन्दरः स्कन्दश्च-स्वामिकार्तिकेय: विष्णुश्च-वासुदेवः शिवेन्द्रस्कन्दविष्णवस्तेषां, या किल क्रियते पूजा सा पूजा 'द्रव्यतः' द्रव्यनिक्षेपमाश्रित्य भवति, द्रव्यपूजेति योऽर्थः, किलशब्द
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only