________________
अध्ययनं- -८, [ नि. २५९ ]
यदुक्तं-‘शुद्धैषणास्वात्मानं स्थापयेदिति, तद्विपर्यये बाधकमाह
मू. (२२१ ) जे लक्खणं च सुविनं च अंगविज्जं च जे पउंजंति । न हु ते समणा वुच्चंति एवं आयरिएहिं अक्खायं ॥
२४५
वृ. 'ये' इति प्राग्वत्, 'लक्षणं च' शुभाशुभसूचकं पुरुषलक्षणादि, रूढितः तत्प्रतिपादकं शास्त्रमपि लक्षणं, तद्यथा
"अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गौयानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ॥"
‘स्वप्नं चे’त्यत्रापि रूढितः स्वप्नस्य शुभाशुभफलसूचकं शास्त्रमेव, तद्यथा"अलंकृतानां द्रव्याणां, वाजिवारणयोस्तथा । वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः ॥ १ ॥
मूत्रं वा कुरुते स्वप्ने, पुरीषं चापि लोहितम् । प्रबुध्येत तदा कश्चिल्लभते सोऽर्थनाशनम् ॥२॥"
'अंगविज्जं च'त्ति अङ्गविद्यां च शिरः प्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां 'सिरफुरणे किर रज्जं' इत्यादिकां विद्यां प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा, यद्वा-अङ्गानि - अङ्गविद्याव्यावण्णतानि भौमान्तरिक्षादीनि विद्या 'हलि ! २ मातङ्गिनी स्वाहा' इत्यादयो विद्यानुवादप्रसिद्धाः, ततश्चाङ्गानि च विद्याश्चाङ्गविद्याः, प्राग्वद् वचनव्यत्ययः, 'च: ' सर्वत्र वाशब्दार्थ:, ये प्रयुञ्जते, न तु समस्तान्येव, ते किमित्याह- 'न हु' नैव 'ते' एवंविधा: 'श्रमणा: ' साधवः 'उच्यन्ते' प्रतिपाद्यन्ते, इह च पुष्टालम्बनं विनैतद्यापारणत एवमुच्यते, अन्यथा करवीरलताभ्रामकतपस्विनोऽप्येवंविधत्वापत्तेः, एवमार्यैः आचार्यैर्वा 'आख्यातं' कथितम्, अनेन यथावस्थितवस्तुवादितयाऽऽत्मनि परापवाददोषं व्यपोहत इति । ते चैवंविधा यदवाप्नुवन्ति तदाहइह जीवियं अनियमित्ता पब्भट्ठा समाहिजोगेहिं । ते कामभोगरसगिद्धा उववज्जंति आसुरे काए ।
I
मू. (२२२ )
वृ. ‘इह' अस्मिन् जन्मनि 'जीवितं' असंयमजीवितम् ' अनियम्य' द्वादशविधतपोविधानादिनाऽनियन्त्र्य 'प्रभ्रष्टा: ' च्युताः, केभ्यः ? - 'समाहियोगेहिं' ति समाधिः - चित्तस्वास्थ्यं तत्प्रधाना योगा :- शुभमनोवाक्कायव्यापाराः सम्मधियोगा, यद्वा समाधिश्च शुभचित्तैकाग्रता योगाश्चपृथगेव प्रत्युपेक्षणादयो व्यापाराः समाधियोगाः तेभ्यः, अनियन्त्रितात्मनां हि पदे पदे तद्भ्रंशसम्भव इति, 'ते' अनन्तरमुक्ताः कामभोगेषु अभिहितस्वरूपेषु रसः - अत्यन्तासक्तिरूपस्तेन गृद्धाः तेष्वभिकाङ्क्षावन्त: कामभोगारसगृद्धाः, यद्वा रसाः पृथगेव शृङ्गारादयो वा, भोगान्तर्गतत्वेऽपि चेषां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम् 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसम्बन्धिनि काये, असुरनिकाये इत्यर्थः, इदमुक्तं भवति एवंविधाः किञ्चित् कादाचित्कमनुष्ठानमनुतिष्ठन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः । ततोऽपि च्युतास्ते किमाप्नुन्तीत्याहतत्तोऽविय उवट्टित्ता संसारं बहुं परियडंति । बहुकम्मलेवलित्ताणं बोही होइ सुदुल्लहा तेसिं ॥
मू. ( २२३ )
वृ. 'ततोऽपि च' असुरनिकायाद् 'उद्धृत्य' तत्परित्यागेनान्यत्र गत्वा 'संसारं ' चतुर्गतिरूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org