________________
२४४
समितिः प्रधानेति तामाह
मू. (२१९ )
उत्तराध्ययन- मूलसूत्रम् - १-८ / २१८
सुद्धेसणा उ नच्चा नं तत्थ ठवेज्ज भिक्खू अप्पाणं । जाताए घासमेसिज्जा रसगिद्धे न सिया भिक्खाए ।
वृ . शुद्धा: - शुद्धिमत्यो दोषरहिता इत्यर्थः । ताश्च ता एषणाश्च - उद्गमैषणाद्याः शुद्धपणा:, एषणाः सप्त संस्पृष्टाद्याः, तद्यथा
Jain Education International
-
"संसट्ठामसंसट्टा उद्धड तह अप्पलेवडा चेव ।
उगहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ 'त्ति
एतासु च शुद्धैषणा: पञ्च, जिनकल्पिकापेक्षमेतत्, उक्तं हि तदधिकारे - पंचसु गहो दोसु अभिग्गहो'त्ति एताश्च 'ज्ञात्वा' अवबुध्य, किमित्याह- 'ज्ञानस्य फलं विरति 'रिति ' तत्रे' त्येषणासु 'स्थापयेत्' निवेशयेत्, भिक्षत इत्येवं धर्म्मा तत्साधुकरी चेति भिक्षुः सन् 'आत्मानं' स्वं, किमुक्तं भवति ? - अनेषणापरिहारेणैषणाशुद्धमेव गृह्णीयात्, तदपि किमर्थमित्याह- 'जायाए’त्ति यात्रायै संयमनिर्वहणनिमित्तं 'धासं' ति ग्रासमेषयेद्-गवेषयेत्, उक्तं हि-
"जह सगडक्खोवंगो कीरति भरवहणकारणा नवरं ।
तह गुणभरवहणत्थं आहारो बंभयारीणं ॥" ति,
एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह - रसेषु - स्निग्धमधुरादिषु गृद्धोगृद्धिमान् रसगृद्धो 'न स्यात्' न भवेत्, 'भिक्खाए'त्ति भिक्षादो भिक्षाको वा, अनेन रागपरिहरा उक्तः, द्वेषपरिहारोपलक्षणं चैतत्, ततश्च रागद्वेषरहितो भुञ्जीतेत्युक्तं भवति, यदुक्तम्"रागद्दोसविमुत्तो भुंजेज्जा निज्जरापेही "ति, सूत्रगब्र्भार्थः । अगृद्धश्च रसेषु यत्कुर्यात्तदाहमू. ( २२० ) पंताणि चेव सेविज्जा सीयपिंडं पुराणकुम्मासं ।
अदु बुक्कसं पुलागं वा जवणट्ठा निसेवए मंथुं ॥
वृ. 'प्रान्तानि' नीरसानि, अन्नपानानीति गम्यते, चशब्दादन्तानि च, एवोऽवधारणे, सच भिन्नक्रमः सेविज्जा इत्यस्यानन्तरं द्रष्टव्यः, ततश्च प्रान्तान्यन्ता च सेवेतैव न त्वसाराणीति परिष्ठापयेद्, गच्छनिर्गतापेक्षया वा प्रान्तानि चैव सेवेत, तस्य तथाविधानामेव ग्रहणानुज्ञानात्, कानि पुनस्तानीत्याह- 'सीयपिंडं' ति शीतलः पिण्डः - आहारः, शीतश्वासौ पिण्डश्च शीतपिण्डस्तं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यात् अत आह- 'पुराणा: ' प्रभूतवर्षधृता: ‘कुल्माषाः’ राजमाषाः, एते हि पुराणा अत्यन्तपूतयो नीरसाश्च भवन्तीत्येतग्द्रहणम् उपलक्षणं चैतत् पुराणमुद्गादीनां, ‘अदु’इति अथवा 'बुक्कसं' मुद्गमाषादिनास्विकानिष्पन्नमन्नमतिनिपीडितसं वा 'पुलाकम्' असारं वल्लाचनकादि, वा समुच्चये, 'जवणट्ठ' त्ति यापनार्थं - शरीरनिर्वाहणार्थं, वा समुच्चये, उत्तरत्र योक्ष्यते, 'सेवए' त्ति सेवेतोपभुञ्जीत, यापनार्थमित्यनेनैतत् सूचितं यदि शरीरयापना भवति तदैव निषेवेत, यदि त्वतिवातो द्रेकादिना तद्यापनैव न स्यात्ततो न निषेवेतापि, गच्छगतापेक्षमेतत्, तन्निर्गतश्चैतान्येव यापनार्थमपि निषेवेत, मन्धुं वा बदरादिचूर्णम्, अतिरू - क्षता चास्य प्रान्तत्वं, सेवेतेति सम्बन्धः, पठ्यते च- 'जवणट्ठाए निसेवए मंथुं 'ति, तथैव नवरं मन्थुमित्यत्र चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, असारवस्तूपलक्षणं चोभयत्र मनथुग्रहणं, पुनः क्रियाऽभिधानं च न सकृदेवावाप्तान्यमूनि सेवेत किन्त्वनेकधाऽपीतिख्यापनार्थमिति सूत्रार्थः ।।
-
For Private & Personal Use Only
www.jainelibrary.org