SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४३ अध्ययनं-८,[नि. २५९] (ङ्), ततो मुक्तिसम्भावनाऽपि नास्तीत्युक्तं भवति, कदाचित्' कस्मिंश्चिदपि काले, कैर्मुच्येत? इत्याह-'सव्वदुक्खाणं'ति दुःखयन्तीति दुःखानि-कर्माणि सर्वाणि च तानि दुःखानि च सर्वदुःखानि तैः, सुब्व्यत्ययाच्च तृतीयार्थे षष्ठी, यद्वा सर्वदुःखैः- नरकादिगतिभाविभिः शारीरमानसै: क्लेशैः, ततः प्राणातिपातनिवृत्ता एव श्रमणास्त एव चातरं तरन्ति न त्वितरइत्युक्तं भवति, किमेतत् त्वयैवोच्यते? इत्याह-'एवारिएहिंति एवम्' उक्तप्रकारेणाऽऽर्यैः-सकलहेयधर्मेभ्यो दूरं यातैस्तीर्थकरादिभिराचार्यैर्वा आख्यातं-कथितं, ये कीदृश इत्याह-'यैः' आर्यराचार्यैर्वाऽयं साधुधर्मो' हिंसानिवृत्त्यादिः 'प्रज्ञप्तः' प्ररूपित्तः, अयमित्यनेन चात्मनि वर्तमानं तेषां प्रज्ञाप्यचौराणां प्रत्यक्षं साधुधर्मं निर्दिशतीति सूत्रार्थः ।। यद्येवं ततः किं कृत्यम्? इत्याहमू. ( २१७) पाणे य नाइवाइज्जा से समियत्ति वुच्चइ ताई। तओ से पावयं कम्मं निज्जाइ उदगं व थलाओ॥ व.'पाणे य नातिवाएज्ज'त्ति चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान्-इन्द्रियपञ्चकादीन् नातिपातयेत्, यस्त्विति गम्यते, चशब्दात् कारणानुमत्योरपि निषेधः, मृषावादादिनिवृत्त्युपलक्षणं चैतत्, किमिति प्राणान्नातिपातयेदित्याह-'से'त्ति यः प्राणान्नातिपातयिता स 'समितः' समितिमान् इति 'उच्यते' अभिधीयते, कीदृशः सन् ? इत्याह-'त्रायी' इत्यवश्यं प्राणित्राता, समितत्वेऽपि को गुणाः?, उच्यते-'ततः' इति तस्मात् समितात् 'से' इत्यथ 'पापकम्' अशुभं 'कर्म' ज्ञानावरणादि 'निर्याति' निर्गच्छन्ति, पठन्ति च -'निन्नाईत्ति अत्रदेशीपदत्दधोगच्छति, किमिव?-उदकमिव, कुतः?- स्थूलाद्' अत्युन्नप्रदेशात्, अनेन च पूर्वबद्धस्य कर्मणोऽभाव उक्तः, न लिप्यते त्रायोति च बद्धमानस्येति न पौनरुक्त्यं, पापग्रहणं चास्यावश्यंतयाऽभावख्यापकं, पुण्यस्य हि संहननादिदोषान्मुक्त्यनवाप्तेर्देवाद्युत्पत्तौ सम्भवोऽपि स्यात्, अन्यथा हि पुण्यस्यापि स्वर्णनिगडप्रायतया विनिर्गम एव विनिर्मुक्तिरिति सूत्रार्थः ॥ यदुक्तं'प्राणान्नातिपातयेदिति तदेव स्पष्टयितुमाहमू.(२१८) जगनिस्सएहिं भूएहिं तसनामेहिं थावरेहिं च। नो तेसिमारभे दंडं मणसावयसाकायसा चेव॥ वृ.त्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु 'स्थावरेषु' तन्नामकर्मोदयवर्तिषु पृथिव्यादिषु, चः समुच्चये, 'नो' नैव तेसिं' ति तेषु रक्षणीयत्वेन प्रतीतेषु आरभेत' कुर्यात् दण्डनं दण्ड: सचेहातिपातात्मकस्तं, 'मनसावयसाकायसा चेव'त्ति आर्षत्वात् मनसा वचसा कायेन, चशब्दः शेपभनोपलक्षकः, ततश्च-यथा मनसा वचसा कायेन च दण्डं नारभते तथा नाऽऽरम्भयेत् न चारभमाणानप्यन्याननुमन्येत, एव:' अवधारणे भिन्नक्रमश्च, अत एव नो इत्यस्यानन्तरं योजितः, पठ्यते च-'जगनिस्सियाण भूयाणं, तसाणं थावराण य । नो तेसिमारभे दंडं'ति गतार्थमेव, अपरे तु 'जगनिस्सिएही'त्यादि तृतीयान्ततयैवाधीयते, तत्र च जगनिश्रितैभूर्तेस्त्रसैः स्थावरैश्च हन्यमानोऽपीति शेषः, नैव तेष्वारभेत दण्डम्, उज्जयनीश्रावकपुत्रवत्, अत्र च सम्प्रदाय:उज्जेनीए सावगसतो चोरेहिं हरिउं मालवके सयगारस्स हत्थे विक्कीतो, लावगे मारयस, न मारयामीति हत्थीपादत्तासणसीसारक्खणं करणं चेति । स एवं प्राणत्यागेऽपि सत्त्वानपरोधी, एवमन्यैरपि यतितव्यमिति सूत्रार्थः । उक्ता मूलगुणाः, सम्प्रत्त्युत्तरगुणा वाच्याः, तेष्वप्येषणा For Private & Personal Use Only Jain Education International ___www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy