________________
२४६
उत्तराध्ययन-मूलसूत्रम्-१-८/२२३ बहुशब्दस्य 'बहुपूपे धृतं श्रेय' इत्यादिषु विपुलवाचिनोऽपि दर्शनाद्बहु-विपुलं विस्तीर्णमितियावत्, बहुप्रकारं वा चतुरशीतियोनिलक्षतया 'अनुपरियंति'त्ति अनुपरियन्ति, सातत्येन पर्यटन्तीत्यर्थः, पठन्ति च-'अनुचरंति'त्ति स्पष्टं, किंच-बहूनि च तान्यनन्तया कर्माणि चक्रियामाणतया ज्ञानावरणादीनि बहुकर्माणि तानि लेप इव लेपो बहुकर्मणां वा लेप-उपचयो बहुकर्मलेपस्तेन लिप्ता-उपचिता बहुकर्मलेपलिप्तास्तेषा 'बोधि:' प्रेत्य जिनधर्मावाप्तिः 'भवति' जायते 'सुदुर्लभा' अतिशयदुरापा, 'तेषाम्' इति ये लक्षणादि प्रयुञ्जते, पठन्ति च'बोही जत्थ सुदुल्लहा तेसिं'ति बोधिर्यत्र-संसारे सुदुर्लभा तेषाम्-अनुपरियतामिति योजनीयं, यतश्चैवमुत्तरगुणविराधनायां दोषस्ततस्तदाराधनायामेव यतितव्यमितिभावः इति सूत्रार्थः ।। आह-किममी द्रव्यश्रमणा जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ?, उच्यते, लोभतः, अत एव तदाकुलितस्यात्मनो दूष्पूरतामाहमू. (२२४) कसिणंपि जो इमं लोयं पडिपुन्नं दलेज्ज एगस्स।
तेनावि से न संतुस्से इह दुप्पूरए इमे आया। वृ. 'कृत्स्नमपि' परिपूर्णमपि यः' सुरेन्द्रादि: ‘इमं' प्रत्यक्षं 'लोकं' जगत् 'परिपूर्ण' धनधान्यहिरण्यादिभूतं 'दलेज्ज'त्ति दद्यात, किंबहभ्यः? इत्याह-'एकस्स'त्ति एकस्मै कस्मैचित् कथञ्चिदाराधितवते, 'तेनापि' धनधान्यादिभृतसमस्तलोकदायकेन, हेतौ तृतीया, 'से' इति स 'न सन्तुष्येत्' न हष्येत्, किमुक्तं भवति?-ममैतावद्ददताऽनेन परिपूर्णता कृतेति न तृष्टिमाप्नुयात्, उक्तं हि
___ "न वह्निस्तृणकाष्ठेषु, नदिभिर्वा महोदधिः। न चैवात्माऽर्थसारेण, शक्यस्तर्पयितुं क्वचित् ।।१।।
यदि स्याद्रत्नपूर्णोऽपि, जम्बूद्वीपः कथञ्चन।
अपर्याप्तः प्रहर्षाय, लोभातस्य जिनैः स्मृतः ॥२॥" 'इतिः' एवमर्थे, एवम्-अमुनोक्तन्यायेन दुःखेन-कृच्छ्रेण-पूरयितुं शक्यः दुष्पूरः दुष्पूर एव दुष्पूरकः ‘इमे'त्ति अयं प्रत्यक्ष: 'आत्मा' जीवः, एतदिच्छायाः परिपूरयितुमशक्यत्वादिति सूत्रार्थः । किमिति न सन्तुष्यतीति स्वसंविदितं हेतुमाहमू. ( २२५) जहा लाभो तहा लोभो लाभा लोभो पवड्डति ।
दोमासकयं कज्जं कोडीएवि न निट्ठियं। वृ. 'यथा' येन प्रकारेण 'लाभः' अर्थावाप्तिः 'तथा' तेन प्रकारेण 'लोभः' गायमभिकाङ्केतियावत्, भवतीति शेपः, किमेवमित्याह-लाभाल्लोभः 'प्रवर्धते' प्रकर्षेण वृद्धि भजते, इह चलाभाल्लोभः प्रवर्द्धत इति वचनाद्यथा तथेत्यत्र वीप्सा गम्यते, ततश्च-यथा यथा लाभस्तथा तथा लोभो भवतीत्युक्तं भवति, लाभाल्लोभः प्रवर्द्धत इत्यपि कुत इत्याह-द्वाभ्यां-द्विसङ्ख्याभ्यां माषाभ्यां-पञ्चरक्तिकामानाभ्यां क्रियते-निष्पाद्यत इति द्विमाषकृतम्, आर्षत्वाद्वर्त्तमानकाले क्तः, 'कार्य' प्रयोजनं, तच्चेह दास्याः पुष्पताम्बूलमूलायरूपं 'कोट्यऽपि' सुवर्णशतलक्षात्मिकया ‘न निष्ठित'मिति, तत्र तदनिष्ठितिः स्त्रीमूलेति तत्परिहार्यतोपदर्शनायाह
मू. ( २२६) नो रक्खसीसु गिज्झेज्जा गंडवच्छासु नेगचित्तासु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org