________________
अध्ययनं-७,[नि. २४९]
२२९ सदेसे सव्वे अंबा उच्छादिया । अन्नया अस्सवाहणियाए निग्गतो सह अमच्चेण, अस्सेण अवहरिओ, अस्सो दूरंगंतूण परिस्संतो ठितो, एगमिवणसंडे चूयच्छायाते अमच्चेण वारिज्जमानोऽवि निविट्ठो, तस्स य हेतु अंबाणि पडियाणि, सो ताणि परामुसति, पच्छा अग्घाति, पच्छा चक्खिउं निहति, अमच्चो वारेइ, पच्छा भक्खेउं मतो। इति सूत्रार्थः ।। मू.(१९०) एवं मानुस्सगा कामा, देवकामाण अंतिए।
सहस्सगुणिया भुज्जो, आउंकामा य दिविव्या॥ वृ. 'एवं' काकिण्यामकसदृशा मनुष्याणाममी मानुष्यकाः, गोत्रप्रत्ययान्तत्वात् “गोत्रचरणाद्वजि"ति वुञ कामाः' विषयाः, ‘देवकामाना' देवसम्बन्धिनां विषयाणाम् 'अन्तिके' समीपे, अन्तिकोपादानं च दूरेऽनवधारणमपि स्यादिति, किमित्येवम् ?, अत आह-'सहस्रगुणिताः' सहस्रेस्ताडिता 'भूयः' अतिशयेन बहु, बहून् वारानित्यर्थः, मनुष्यायु:कामापेक्षयेति प्रक्रमः, अनेनैषामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह, 'आयुः' जीवितं, कामाश्च-शब्दादयः, 'दिव्विय'त्ति दिवि भवा दिव्याः "धुप्रागपागुदक्प्रतीचो यदि"ति यत्, त एव दिव्यकाः, इह चादौ 'देवकामाण अंतिए'त्ति काममात्रोपादानेऽपि 'आउं कामा य दिव्विय'त्ति आयुषोऽप्युपादानं तत्रत्यप्रभावादीनामपि तदपेक्षयैवंविधत्वख्यापनार्थं, यद्वा 'सूचनात् सूत्र'मिति पूर्वत्राप्यायुषः सूचितत्वाददोष इति सूत्रार्थः ।। मू.(१९१) अनेगवासानउया, जा सा पन्नवओ ठिई।
जाई जीयंति दुम्मेहा, जाण वाससयाउए । वृ.अनेकानि-बहूनि तानि चेहासङ्घयेयानि वर्षाणी-वत्सराणि तेषां नयुतानि-सङ्घयाविशेपाणि वपनयुतान्यनेकानि च तानि वर्षनयुतानि च अनेकवर्षनयुतानि “स्वरोऽन्योऽन्यस्य" इति प्राकृतलक्षणात् सकाराकादीर्घत्वम्, एवमन्यत्रापि स्वरान्यत्वं भावनीयं, यदिवाऽनेकानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि, उभयत्रार्थात् पल्योपमसागरोपमाणीतियावत्, नयुतानयनोपायस्त्वयम्-चतुरशीतिवर्षलक्षाः पूङ्गि, तच्च पूर्वाङ्गेन गुणितं पूर्वं, पूर्वं चतुरशीतिलक्षाहतं नयुताङ्गं, नयुताङ्गमपि चतुरशीतिलक्षाभिताडितं नयुतं, कैवमुच्यत इत्याह___ 'या से'ति प्रज्ञापक: शिष्यान् प्रत्येवमाह-या सा भवतामस्माकं च प्रतीता, प्रकर्षेण ज्ञायते वस्तु सतत्त्वमनयेति प्रज्ञा-हेयोपादेयविवेचिका बुद्धिः सा विद्यतेऽस्यासौ प्रज्ञावान, अतिशायने मतुप्' अतिशयश्चास्या हेयोपादेययोः हानोपादाननिबन्धनत्वमिहाभिमतं ततश्च क्रियाया अप्याक्षिप्तत्वात्, यदिवा निश्चयनयमतेन क्रियारहिता प्रज्ञाऽप्यप्रज्ञैवेति प्रज्ञयैव क्रियाऽऽक्षिप्यते ततः प्रज्ञावान् ज्ञानक्रियावानित्युक्तं भवति, तस्य प्रज्ञावतः स्थीयतेऽनयाऽर्थात् देवभव इति स्थितिः-देवायुः, अधिकृतत्वात् दिव्यकामाश्च, तानि च कीदृशीत्याह-यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि 'जीयन्ते' हार्यन्ते, तद्धेतुभूतानुष्ठानानासेवनेनेति भावः, पाठान्तरतो 'हारयन्ति वा,' के ते?-दुष्टा विपर्ययादिदोषदुष्टत्वेन मेधा-वस्तुस्वरूपावधारणशक्तिरेषां ते दुर्मेधसः, विषयैर्जिता जन्तव इति गम्यते, कदा पुनस्तानि दुर्मेधसो विषयैर्जीयन्त इत्याह-ऊने वर्षशतायुषि, अनेनायुषोऽल्पत्वात् मनुष्यकामानामप्यल्पतामाह, यदिवा प्रभूते
ह्यायुषि प्रमादेनैकदा हारितान्यपि पुनर्जीयेरन्, अस्मिंस्तु संक्षिप्तायुष्येकदा हारितानि हारितान्येव, Jain Education International
www.jainelibrary.org
For Private & Personal Use Only