________________
२३०
उत्तराध्ययन-मूलसूत्रम्-१-७/१९१ भगवतश्च वीरस्य तीर्थे प्रायो न्यूनवर्षशतायुष एव जन्तव इतीत्थमुपन्यासः, ___ अयं चात्र भावार्थ:-अल्पं मनुष्याणामायुविषयाश्चेति काकण्याम्रफलोपमाः, देवायुर्देवकामाश्चातिप्रभूततया कार्षापणसहस्रराज्यतुल्याः, ततो यथा द्रमको राजा च काकण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवान्, एवमेतेऽपि दुर्मेधसोऽल्पतरमनुष्यायुः कामार्थे प्रभुतान् देवायुःकामान् हारयन्तीति सूत्रार्थः ।। सम्प्रति व्यवहारोदाहरणमाहमू.(१९२) जहा य तिन्नि वणिया, मूलं धेत्तूण निग्गया।
एगोऽत्थ लभते लाभं, एगो मूलेन आगओ। वृ.'यथा' इति प्राग्वत्, 'च:' प्रतिपादितदृष्टान्तापेक्षया समुच्चये, त्रयो 'वणिजः' प्रतीताः 'मूलं' राशि नीविमितियावत् गृहीत्वा 'निर्गताः' स्वस्थानात्स्थानान्तरं प्रति प्रस्थिताः, प्राप्ताश्च समीहितं स्थानं, तत्र च गतानाम्, ‘एको' वणिक्कलाकुशलः 'अत्र' एतेषु मध्ये 'लभते' प्राप्नोति ‘लाभं' विशिष्टद्रव्योपचयलक्षणम्, 'एक:' तेष्वेवान्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स 'मूलेणे'ति मूलधनेन यावत् गृहान्नीतं तावतैवोपलक्षित: 'आगतः' स्वस्थानं प्राप्त इति सूत्रार्थः । तथामू.(१९३) एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ।
ववहारे उवमा एसा, एवं धम्मे विजाणह॥ वृ. 'एकः' अन्यतर: प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्तचेताः 'मूलमपि' उक्तरूपं 'हारियित्वा' नाशयित्वा 'आगतः' प्राप्तः स्वस्थानमित्युपस्कारः, एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या, 'तत्र' तेषु मध्ये वणिक एव वाणिजः । अत्र च सम्प्रदायः__ जहा एगस्स वाणियगस्स तिन्नि पुत्ता, तेन तेसिं सहस्सं सहस्सं दिन्नं काहावनाणं, भणिया य-एएण ववहरिऊण एत्तिएण कालेन एज्जाह, ते तं मूलं घेत्तूण निग्गया सणगरातो, पिथप्पिथेसु पट्टणेसु ठिया, तत्थेगो भोयणच्छायणवज्जं जूयमज्जमंसवेसावसणविरहितो विहीए ववहरमाणो विपुललाभसमन्नितो जातो, वितितो पुण मूलमविदव्वंतो लाभगं भोयणच्छायणमल्लालंकारादिसु उवभुंजति, न य अच्चादरेण ववहरति, ततितो न किंचि संववहरति, केवलं जयमज्जमंसवेसगंधमल्लतंबोलसरीरकियासु अप्पेणेव कालेन तं दव्वं निट्ठवियंति, जहावहिकालस्स सपुरमागया। तत्थ जो छिन्नमूलो सो सव्वस्स असामी जातो, पेसए उवचरिज्जति, बितितो घरवावारे निउत्तो भत्तपानसंतुट्ठो न दायव्वभोत्तव्वेसु ववसायति, ततितो घरवित्थरस्स सामी जातो। केति पुन कहंति-तिन्नि वाणियगा पत्तेयं २ ववहरंति, तत्थेगो छिन्नमूलो पेसत्तमुवगतो, केण वा संववहारं करेउ?, अच्छिन्नमूलो पुणरविवाणिज्जाए भवति, इयरो बंधुसहितो मोदए, एस दिटुंतो। __ सम्प्रति सूत्रमनुस्रियते-'व्यवहारे' व्यवहारविषया 'उपमा' सादृश्यं 'एषा' अनन्तरोक्ता 'एवं' वक्ष्यमाणन्यायेन 'धर्मे' धर्मविषयामेवोपमा 'विजानीत' अवबुध्यध्वमिति सूत्रार्थः । मू. (१९४) मानुसुत्तं भवे मूलं, लाभो देवगई भवे।
मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं॥ वृ. 'मानुषत्वं' मनुजत्वं भवेत्' स्यात् मूलमिव मूलं, स्वर्गापवर्गात्मकतदुत्तरोत्तरला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org