________________
२१४
उत्तराध्ययन-मूलसूत्रम्-१-६/१६० भा.[२५] निग्गंथसुहुमरागे सुक्का लेसा तहा सिणाएसुं।
सेलेसिं पडिवण्णो लेसातीए मुणेयव्वो।। भा.[२६] पुलागस्स सहस्सारे सेवगवउसाण अच्चुए कप्पे ।
सकसायणियंठाणं सव्वढे न्हायगो सिद्धो।। भा.[२७] पुलागकुसीलाणं सव्वजहन्नाणं होंति ठाणाई।
वोलीणेहिं असंखेहि होइ पुलागस्स वोच्छित्ती॥ भा.[२८] कसायकुसीलो उवरिं असंखिज्जाइं तु तत्थ ठाणाई ।
पडिसेवनबउसे वा कसायकुसीलो तओऽसंता ।। भा.[२९] वोच्छिन्ने उ बउसो उवरि पडिसेवना कसाओ य।
__गंतुमसंखिज्जाइं छिज्जइ पडिसेवनकसीलो॥ भा.[३०] उवरिं गंतुं छिज्जति कसायसेवी ततो हु सो नियमा।
उद्धं एगट्ठाणं निग्गंथसिणायगाण तु ।। वृ. अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तज्जघन्यघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्घगतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं । यदप्येषां संयमित्वेऽपि षड्लेश्याभिधानं तदप्याद्यानां भावपरावृत्तिपेक्ष्य आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया' इत्याद्यागमप्रामाण्यादविरुद्धमेव, इत्यलं प्रसङ्गेनेति। सम्प्रति नियुक्तिरनुस्रियते, तत्र च भावे निर्ग्रन्थः खलुः पञ्चविधो भवति ज्ञातव्यः' इत्यनेन बाह्याभ्यन्तरहेतुका निर्ग्रन्थभेदा उक्ताः, साम्प्रतं त्वान्तरसंयमस्थाननिबन्धनांस्तद्भेदानाहनि.[ २३९] उक्कोसो उ नियंठो जहन्नओ चैव होइ नायव्वो।
अजहन्नमनुक्कोसा हुंति नियंठा असंखिज्जा। वृ.'अजहन्नमनुक्कोस'त्ति अजघन्या अनुत्कृष्टा भवन्ति निर्ग्रन्थाः असङ्खयेयाः, संयमस्थानापेक्षया च निर्ग्रन्थानां जघन्यत्वमुत्कृष्टत्वमजघन्यानुत्कृष्टत्वं वा ज्ञेयं, तथा च वृद्धाः-जो उक्कोसएसु संजमट्ठाणेसु वट्टति सो उक्कोसगणियंठो भण्णति, एवं जहन्नओ जहन्नएसु, सेसो अजहन्नमणुक्कोस'त्ति गाथार्थः ॥ इह च निर्गतो ग्रन्थानिर्ग्रन्थ इति ग्रन्थमेव भेदाभिधानद्वारेणाह- नि.[२४०] दुविहो य होइ गंथो बज्झो अभितरो य नायव्वो।
अंतो य चउदसविहो दसहा पुन बाहिरो गंथो॥ वृ. 'द्विविधश्च द्विभेदो भवति ग्रथ्यते-बध्यते कषायवशगेनात्मनेति ग्रन्थः, अथवा ग्रथनातिबन्धात्यात्मानं कर्मणेति ग्रन्थः, तद्वैविध्यमेवाह-बहिर्भवो बाह्योऽभ्यन्तरश्च, 'ज्ञातव्यः' अवबो-- द्धव्यः, तत्रच अंतो अ'त्ति अन्तःशब्दोऽधिकरणप्रधानमव्ययं, चः पूरणे, ततश्चान्तरिति मध्ये यो ग्रन्थोऽभ्यन्तर इत्यर्थः, स किमित्याह-'चतुर्दशविधः' चतुर्दशभेदो 'दशधा' दशप्रकारः, पुनः शब्दो विशेषद्योतकः, 'बाहिरो'त्ति बाह्यो ग्रन्थ इति गाथार्थः। तत्रान्तरस्य चतुर्दश भेदानाहनि.[२४१] कोहो मानो माया लोभे पिज्जे तहेव दोसे य।
मिच्छत्त वेअ अरइ रइ हास सोगे य दुग्गंछा।
Jain Education International
For Private & Personal Use Only
E
www.jainelibrary.org