________________
अध्ययनं-६,[नि. २३८]
२१३ परिहारविशुद्धेस्तिस्र उत्तराः, सूक्ष्मसम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला भवति, अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति, प्रज्ञप्तिस्तु-"पुलाए णं पुच्छा, जाव तिसु लेसासु होज्जा, तंजहा-तेउलेसाए पम्हलेसाए सुक्कलेसाए, एवं बउसस्सवि, एवं पडिसेवणाकुसीलस्सवि। कसायकुसीले पुच्छा, जाव छसु लेसासु होज्ज"त्ति। __उपपात: पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे, बकुशप्रतिसेवनाकुशीलयोविंशतिसागरोपमस्थितिष्वच्युते कल्पे, कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थसिद्धे, सर्वेषामपि जघन्यं पल्योपमपृथक्त्वस्थितिषु सौधर्मे, प्रज्ञप्तिस्तु "कसायकुसीले जहा पुलाए, नवरं उक्कोसेण अनुत्तरविमाणेसु, नियंठे णं एवं चेत, जाव वेमाणिएसु उववज्जमाणे अजहन्नमनुक्को सेणं अनुत्तरविमाणेसु उववज्जति," स्नातकस्य निर्वाणमिति । ___ स्थानम्-असंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति, तत्र सर्वजघन्यानि संयमलब्धिस्थानानि पुलाककषायकुशीलयोः,तौ युगमदसंख्येयानि स्थानानि गच्छतः, ततः पुलाको व्युच्छिद्यते, कषायकुशीलस्ततोऽसंख्येयानि स्थानान्येकाकी गच्छति, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्खयेयानि स्थानानि गच्छन्ति, ततो बकुशो व्युच्छिद्यते, ततोऽसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽसङ्घयेयानि स्थानानि गत्वा कषायकुशीला व्युच्छिद्यते, अत ऊर्ध्वमकषायस्थानानि गत्वा निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसङ्घयेयानि स्थानानि गत्वा व्युच्छिद्यते, प्रज्ञप्तिस्तु-"नियंठस्सणं भंते! केवइया णं संजमठाणा पन्नत्ता?, गोयमा? एगे अजहन्नमुक्कोसए संजमठाणे पन्नत्ते" अत एव उर्ध्वमेकमेव स्थानं गत्वा स्नातको निर्वाणं प्राप्नोति, एषां संयमलब्धिरुत्तरोत्तरस्यानन्तगुणा भवतीति। भा.[१७] संयम सुय पडिसेवण तित्थे लिंगे य लेस उववाए।
ठाणं च पति विसेसो पुलागमाईण जोएज्जा।। भा. [१८] पुलाग बकुसकुसीला सामाइयछेयसंजमे होंति ।
होति कसायकुसीलो परिहारे सुहुमरागे य॥ भा.[१९] निग्गंथो य सिणातो अहखाए संजमे मुणेयव्वो।
दसपुव्वधरुक्कोसा पडिसे पुलाय बउसा य ।। भा.[२०] चोद्दसपुव्वधरातो कसायनियंठा य होंति नायव्वा ।
__ ववगयसुतो य केवलि मूलासेवीपुलाओ य॥ भा.[२१] चित्तलवत्थासेवि बलाभिओगेण सो भवति बउसो।
मूलगुण उत्तरगुणे सरीरबउसो मुणेयव्वो ।। भा.[२२] न्हाय कसायकुसीले निग्गंथाणं च नत्थि पडिसेवा।
सव्वेसुं तित्थेसुं होंति पुलागादि य नियंठा ।। भा.[२३] लिंगे उ भावलिंगे सव्वेसिं दव्वलिंग भयणिज्जा।
लेसाउ पुलागस्स य उवरिल्लातो भवे तिन्नि ।। भा.[२४] बकुसपडिसेवगाणं सव्वा लेसाउ होंति नायव्वा ।
परिहारविसुद्धीणं तिण्हुवरिल्ला कसाए उ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org