________________
-
अध्ययनं-६,[नि. २४१]
२१५ - वृ. क्रोधः' अप्रीतिलक्षणः, 'मानः' अहमितिप्रत्ययहेतुः, 'माया' स्वपरव्यामोहोत्पादकं शाट्यं, 'लोभो' द्रव्याद्यभिकाङ्क्षा, 'प्रेम' प्रियेषु प्रीतहेतुः, तथैवे'त्यान्तरग्रन्थरूप एव, कोऽसौ?, 'दोषश्च' उपशमत्यागात्मको विकारो, द्वेष इत्यर्थः । इह च यद्यपि प्रेम मायालोभरूपं द्वेषश्च क्रोधमानात्मकः तथापि तयोः पृथगुपादानु कथञ्चित् सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थं, 'मिथ्यात्वं' तत्त्वार्थाश्रद्धानं, तच्च षड्भिः स्थानैर्भवति, तानि च नास्ति न नित्य इत्यादीनि, तदुक्तम्
"नत्थि न निच्चो न कणति कयं न वेएति नत्थि नेव्वाणं।
नत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाइं॥" 'वेदः' स्त्रीवेदादिस्त्रिधा, 'अरतिः' संयमेऽप्रीतिः, रतिः' असंयमे प्रीतिः, आह च
___ "इत्थीवेयाईओ तिविहो वेओ य होइ बोद्धव्वो।
अरती य संजमंमी होइ रती संजमे यावि ।।" 'हासो' विस्मयादिषु वक्रविकाशात्मकः, 'शोक' इष्टवियोगात् मानसं दुःखं, 'भयम्' इहलोकभयादि सप्तधा, तथा चाह
"इहपरलोयादाने आजीवसिलोय तह अकम्हा य। मरणभयं सत्तमयं विभासमेएसि वोच्छामि ॥१॥ इहलोगभयं च इमं जं मनुयाइओ सरिसजाईओ।
बीहेइ जंतु परजाइयाणं परलोयभयमेवं ।।२।। आयाणत्थो भण्णति मा हीरिज्जत्ति तस्स जं बीहे। __ आयाणभयं तं तू आजीवोमे न जीवेऽहं ॥३॥ असिलोगभयं अयसो होति अकम्हाभयं तु अनिमित्तं ।
मरियव्वस्स उभीए मरणभयं होइ एयं तु ॥४॥" 'जुगुप्सा' अस्नानादिमलिनतसाधुहीलना, तथा चाह-अण्हाणमाइएहिं साधुं तु दुगुंछति दुगुंछे'ति गाथार्थः । साम्प्रतं बाह्यग्रन्थभेदानाहनि.[ २४२] खेत्तं वत्थू धणधन्नसंचओ मित्तनाइसंजोगो।
___जाणसयनासनानि अदासीदासं च कुवियं च ॥ वृ. क्षेत्रं'सेत्वादि, 'वास्तु खातादि, धनं-हरिण्यादि, धान्यं च -शाल्यादि तयोः सञ्चयोराशिर्धनधान्यसञ्चयः, मित्राणि च-सहवद्धितानि ज्ञातयश्च-स्वजनाः तैः संयोगः-सम्बन्धो मित्रज्ञातिसंयोगः, यानानि च-शिबिकादीनी शयनानि च-पल्यङ्कादीनि आसनानि चसिंहासनादीनि यानशयनासनानि, चः समुच्चये, दास्यः-अङ्कपतिताः दासा अपि तथाविधा एव अनयोः समाहारः, चः प्राग्वत्, 'कुवियं च'त्ति कुप्यं च-विविधं गृहोपस्करात्मक् । अत्र च धनधान्यसञ्चयो मित्रज्ञातिसंयोगश्चेति द्वौ शेषाश्चाष्टेति दशविधो बाह्यग्रन्थ इति गाथार्थः ।। नि.[ २४३] सावज्जगंथमुक्का अभितरबाहिरेण गंथेण ।
एसा खलु निज्जुत्ती खुड्डागनियंठसुत्तस्स। वृ.सहावद्येन-दोषेण वर्तत इति सावद्यः सचासौ ग्रन्थश्च सावद्यग्रन्थस्तेन मुक्ताः सावद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org